उत्तरभागः । ५६५ 1 । सारतोऽपि कठिनतरमेवेदमावयोर्हृदयम्, यन्त्र स्वयं सहस्रधा स्फुटति । न चापि मरणदु:- खभीरवोऽमी वत्समनुगच्छन्ति स्वयं प्राणाः । तदुत्तिष्ठ | यावदेवातिदूरं न प्रयात्येकाकी वत्सस्तावदेवानुगमनाय प्रेयतामहे | सैशोकं शुकनास, किमद्यापि तिष्ठसि । अयं स कालः स्नेहस्य | महाकालायतनसमीपे समादिश सपदि परिचारकांश्चितारचनाय | रँचयत झटिति काष्ठानि काष्ठिकाः । किं तिष्ठतैवं संकुचिताः कञ्चुकिनः । गत्वा निष्क्रामयत हुताशनप्रवे- शोपकरणानि । निष्कारणरुदितेन किमधुना | उपरोधपरिलम्बाद्विना दापयाशेषं देवि, द्वि- जेभ्यः कोषैम् | कस्य कृतेऽद्यापि पाल्यते । पालनादिकं करणीयमधुना क्षीणं क्षीणपुण्यस्य मे । याँत यथाभूमि भूमिपतयः । उत्सृष्टाः स्थ, यथा च नाद्यैवास्य दुःखं जानन्ति प्र जास्तथा करिष्यथ । कथावशेषीभूतो मे वत्सः कैंथमपरं संविधाय यामि' एवमर्तिप्रला- पिनं तारापीडमचेतितात्मपीडया विलासवत्यैव वृतशरीरभर्तितरस्त्वरितको व्यज्ञापयत्- 'देव', स्फुटितेsपि हृदये ध्रियते शरीरेण युवराजः | शापदोषाद्वैशम्पायनस्य च यथा जन्म तथा निरवशेषं शृणोतु तावदेवः' इति । पद्रवम् । हे देवि हे पराज्ञि, वज्रसारतो पविमध्यतोऽन्यावयोरिदं हृदयं वक्षः कठिनतरमेव परुषतरमेव यन्न स्वयमात्मना सहस्रप्रकारेण स्फुटति द्वैधीभवति । मरणदुःखान्गीरवो भीरुका भयसहिता अमी प्राणा असो वत्सं पुत्रं चन्द्रापीडं न स्वयं नात्मनानुगच्छन्त्यनुव्रजन्ति । तदिति हेत्वर्थे । उत्तिष्ठोत्थानं कुरु | यावदे- वातिदूरमतिदविष्ठमनिकटं न प्रयात्येव न व्रजत्येव एकाकी वत्सस्तावदेवानुगमनाय पृष्ठे यानाय प्रयतामहे प्रयत्नं कुर्महे । सशोकं शोकेन सहवर्तमानं सशोकं यथा स्यात्तथा शुकनास, किमद्यापि तिष्ठस्यवस्थानं करोषि | अयं स कालः स्नेहस्य प्रीतेः । स्वयमात्मना महाकालायतनसमीपे महाकालनाम्नेश्वरचैत्यं शिवालयं तस्य समी- पेऽभ्यर्णे निकटे सपदि शीघ्रं परिचारकान्भृत्यान्सेवकांश्चिताया रचनं करणं तदर्थमा दिशाज्ञां करु | झाटिति शीघ्रं भो काष्ठिका दारुरक्षकाः काष्ठरक्षणकारकाः, काष्टान्येधांसि रचयत रचनां कुरुत गृहाकारेण गृहवद्रचनां कुरुत | भो कञ्चुकिनः । 'सौविदला: कचुकिनः स्थापत्याः सौविदाथ ते' इति कोशः । एवं संकुचिताः संकोचं प्राप्ता यूयं किं तिष्ठत स्थिति कुरुत । गत्वा गमनं कृत्वा हुताशने वावग्नौ यः प्रवेशः पतनं तत्रो- पकरणानि यन्त्राणि निष्क्रामयत बहिः कर्षणं कारयत | गृहाद्वहे: पूजासामग्रीमानयत समानयतेत्यर्थः । निष्का- रणं निःप्रयोजनं रुदितेन विलपितेन किम् । न किमपीत्यर्थः । हे देवि, अनुनोपरोधेन यः परिलम्बो विल- म्बस्तेन विनाशेषं समग्र कोशं भाण्डागारं द्विजा ब्राह्मणास्तेभ्यो दापय वितरणं कारय । अद्यापि कस्य कृते पाल्यते रक्ष्यते । अधुना सांप्रतं क्षीणपुण्यस्य क्षामश्रेयसो मे मम पालनादिकं रक्षणादिकं क्षीणं रीणम् । भो भूमिपतयो वसुधाधीशा राजानः, यथाभूमिमात्मीयस्थलं यात व्रजत यूयमुत्सृष्टाः स्थ | लटि परस्मैपदे मध्यमपुरुषबहुवचनम् । यथा चाद्यैवास्य चन्द्रापीडस्य प्रजा दुःखं न जानन्ति नावबुध्यन्ते तथा यूयं करिष्यथ विधास्यथ । कथैव वातैवावशेष उर्वरितांशो यस्य स तथा एवंभूतो मे मम वत्सश्चन्द्रापीडः । ततः कमपरमन्यमधीशं संविधाय कृत्वा यामि ब्रजामि । एवंप्रकारेणार्तं च प्रलापिनं चार्तप्रलापिनं तारापीडम ।
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति