उत्तरभागः । ५६७ विचारात्कियन्त्यत्र युक्तिरहितान्यागमप्रामाण्यादेवाभ्युपगतान्यपि संवादीनि दृश्यन्ते । मुद्राबन्धाद्ध्यानाद्वा विषप्रसुतस्योत्थापने कीदृशी युक्ति: । अयस्कान्तस्य चायसः समाक- र्षण भ्रमणेवा, मन्त्राणां वैदिकानामवैदिकानां वानेकप्रकारेषु कर्मसु सिद्धौ नानाविधद्रव्य- संयोगानां वाभरणमान्द्याद्युत्पादनापहरणवशीकरणविद्वेषणादिपु, शक्तेः समुत्पादनाद- न्येषां बहुतराणामेवंविधानां च तंत्र तत्र सर्वस्मिन्नेवार्गमः प्रमाणम् | आगमेषु सर्वेष्वेव पु- रोणरामायणभारतादिषु सम्यगनेकप्रकाराः शापवार्ता: । तद्यथा | महेन्द्रपदवर्तिनो नहुषस्य राजर्षेरगस्त्यशापादजगरता | सौदासस्य च वसिष्ठसुतशापान्मानुषादत्वम् । असुरंगुरुशापाच्च ययातेस्तारुण्यं एव जरसा भङ्गः | त्रिशकोश्च पितृशापाञ्चाण्डालभावः । श्रूयते च स्वर्गवासी महाभिषो नाम राजास्मिल्लोके शान्तनुरुत्पन्नः । तत्पत्नीत्वमुपगताया गङ्गायाः शापदोषाहु- ष्टानामपि वसूनां मनुष्येषूत्पत्ति: । तिष्ठतु तावदन्य एव । अयमादिदेवो भगवानजः स एव जमदमेरात्मजतामुपगतः । श्रूयते च पुनश्चतुर्धात्मानं विभज्य राजर्षेदशरथस्य तथैव मथु- वस्य निर्जरस्यास्मिन्वस्तुनि विमर्शो विचारो वितर्कः | यदि युक्तेर्विचारात्कियन्त्यत्र युक्तिरहितानि तर्कवर्जि- तान्यागमप्रामाण्यादेवाभ्युपगतान्यप्यङ्गीकृतान्यपि संवादीन्यव्यभिचारीणि दृश्यन्ते विलोक्यन्ते निरीक्ष्यन्ते । मुद्रा शरीरं तस्या बन्धान्मन्त्रेण बन्धप्रदानाद्ध्यानाद्वा तादृशनागमन्त्र सर्प मन्त्र चिन्तनाद्वा विषप्रसुप्तस्य गरलमू- र्छितस्य विषधारितस्योत्थापने सज्जीकरणे निर्विषीकरणे कीदृशी युक्तिः । अयस्कान्तस्य लोहस्य दृषदचुम्बक प्रस्तरस्यायसो लोहस्य समाकर्षण आकृष्टौ भ्रमणे वा शक्तेः समुत्पादनान्निष्पादनात् तथा वैदिकानां वेदोक्ता- नामवैदिकानां शावराणां मन्त्राणामनेकप्रकारेषु बहुविधेषु बहुभेदेषु कर्मसु कृत्येषु सिद्धौ निष्पत्तौ शक्तेः समु- त्पादनात् । तथा नानाविधा बहुप्रकारा बहुविधा ये द्रव्यसंयोगा द्रव्यसमुदायास्तेषां चामरणममृत्युं मरणं मृत्युः, मदो दर्पः, अहंकारो गर्वः, मान्द्यमपाटवमकुशलमादौ यस्य स मान्द्यादिस्तस्योत्पादनं निःपादनम्, अप- हरणमपहतिः, वशीकरणं संवननम्, विद्वेषणं विद्वेषोत्पादनम्, एतेषां द्वन्द्वः । एतान्यादौ येषां कर्मणां तेषु शक्तेः समुत्पादनान्निष्पादनादेवंविधानामे तादृशानामेवंप्रकाराणामन्येषां बहुतराणां तत्र तत्र स्थले सर्वस्मिन्नेवा- गमः प्रमाणं पुराणरामायण महाभारतादिषु सर्वेष्वेवागमेषु शास्त्रेषु सम्यक्प्रकारेणानेकप्रकारा बहुभेदभिन्नाः शा- पपवार्ताः शापप्रदानकिंवदन्त्यः । श्रूयन्त इति शेषः । तदेव प्रदर्शयति-तद्यथेति । महेन्द्र पदवर्तिन इन्द्रस्थान- स्थायिनः शक्रस्थानस्थायिनो नहुषनाम्नो राजर्षे राज्यावस्थायां मुनिकल्पस्य साधुसदृशस्यागस्त्यमुनेः कुम्भ- जन्मनः शापादाक्रोशवचनादजगरता पारीन्द्रता | जातेति शेषः । 'आक्रोशाभिषङ्गाक्षेपाः शापः सक्षारणा मता' इति हैमः । सौदासस्य च वसिष्ठस्या रुन्धतीजानेः सुतस्य पुत्रस्य शापान्मानुषादत्वं मनुष्यभक्षकत्वं नरादनत्वम् । असुरगुरुः शुक्रस्तस्य शापादाक्रोशाद्ययाते राज्ञस्तारुण्य एव यौवन एव यौवनावस्थायामेव जरसा विस्रसा कृत्वा भङ्गो हानिः । त्रिशङ्कोश्च पितृशापाच्चाण्डालभावः । श्रूयते चाकर्ण्यते च स्वर्गवासी देवलोकचासी महाभिपो नाम राजास्मिल्लोक इहलोके शान्तनुर्नाम राजोत्पन्नोऽवतरितोऽवतारं प्राप्तः । शापदोषाच्छापप्रभावात्तत्पत्नीत्वं तत्त्री-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति