यस्य वत्साननावलोकनोत्सुकस्य गमनमपि हृदयस्य तावद्विनोदतां व्रजतु ।' इति वैदन्तीमेव विलासवतीमासाद्यान्यतमः शुकनासस्यात्मसमः परिणतवयाः षट्कर्मा समुपसृत्य स्वस्ति - पूर्वकं ढैयज्ञापयत् - 'देवि, सर्वत ऐवापरिस्फुटेन वार्ताफलकलेन कुली कृतहृदया मनोरमा स्वयमेव धावन्त्यागता । राज्ञो लज्जमाना नोपगता स्थानमिदम् । तदेषा मातृगृहस्य पृष्ठतस्ति- ष्ठति । पृच्छति च देवीम् । किमेभिः कथितम् । जीवति मे वत्सो वैशम्पायनः । स्वस्थशरीरो वा | ढौकितो वा पुनर्युवराजस्य । के वर्तते । तावागमिष्यतो वा कियद्भिर्दिवसैः' इति । राजा तु तदुपरतिवार्ताया अपि कष्टतममाकर्ण्य दीर्ण इव शुचा शतगुणीभूतशो कोताङ्गीं विलासवतीमवादीत् –'देवि, न श्रुतं किंचिदपि वत्सयोः प्रियसख्या ते । अन्यत कदाचिज्जीवितेनैव वियुज्यते । तदुत्तिष्ठ स्वयमेव धैर्यमालम्ब्य सर्ववृत्तान्तानुकथनेन संस्था- पय प्रियसखी तथा यथार्यशुकनासेन सह यातव्यम्' इत्येवमुत्थाप्य सपरिजनां विलासवती व्यसर्जयत् । आत्मनापि शुकनासेन सह गमनसंविधानमकारयत् । अथ तथा प्रस्थिते राजनि राजानुरागाचन्द्रापीडस्लेहेन चाश्चर्यदर्शनकुतूहलाय प्रथमगतपि वत्साननस्यावलोकन उत्सुकस्य निरीक्षण उत्कण्ठितस्य हृदयस्य गमनमपि तावद्विनोदतां कौतुकतामा वर्यतां व्रजतु गच्छत्विति वदन्तीमेव जल्पन्तीमेव विलासवतीमासाद्य प्राप्यान्यतमोऽपरतमोऽनिर्दिष्टनामा शुक्रनासस्यात्मसम आत्मतुल्यः परिणतवग्राः परिपक्वयाः पदकर्मा विप्रः समुपसृत्य समागत्य स्वस्तिपूर्वकं यथा स्यात्तथा व्यज्ञापयत् । किं तदित्याह – देवीति । हे देवि, सर्वत एव परित एवापरिस्फुटेना प्रकटेना- व्यक्तेन वार्ताकलकलेन प्रवृत्तिकोलाहलेन किंवदन्तीकोलाहलेनाकुलीकृतं व्याकुलीभूतं हृदयं यस्याः सा तथा मनोरमा वैशम्पायनप्रसूः स्वयमेव धावन्ती त्वरितगत्या शीघ्रगत्या गच्छन्त्यागता । राज्ञस्तारापीडालज्जमाना त्रपां कुर्वाणेदं स्थानं नोपगता नागता न प्राप्ता । तदेषा मनोरमा मातृगृह्स्य पृष्ठतः सदनस्य पृष्ठिविभा- गतस्तिष्ठति स्थितास्ते । देवीं विलासवतीं च पृच्छति प्रश्नं करोति । एभिलेखहारिभिः किं कथितं किं प्रतिपादितं संदेशहारकैः किमुक्तम् । मे मम वत्सो वैशम्पायनो जीवति प्राणिति । स्वस्थं नीरुजं शरीरं यस्यैवंभूतो वा । ढौकितो वा मिलितो वा पुनः पुनर्युवराजस्य चन्द्रापीडस्य | व वर्तते । कियद्भिर्दिवसैस्तौ द्वौ चन्द्रापीडवैशम्पायनावागमिष्यत आगमनं करिष्यत इति । राजा तु तदुपरतिवार्ताया मृतवातीयाः किंवदन्त्या अपि कष्टतममतिकष्टं समाकर्ण्य शुचा दीर्ण इव शीर्ण इव शतगुणीभूतो यः शोकस्नोत्तं व्याप्त- म यस्याः सैवंविधां विलासवतीमवादीदब्रवीत् । हे देवि, ते तव प्रियसख्या मनोरमया वत्सयोः पुत्रयोश्चन्द्रापीडवैशम्पायनयोः किंचिदपि न श्रुतं नाकर्णितम् । अन्यतः परेभ्यः श्रुत्वाकर्ण्य कदाचिजीवि, तेनैव प्राणितेनैव वियुज्यते मुच्यते । तत्तस्मात्कारणादुत्तिष्टोत्थानं कुर्वभ्युत्थानं निष्पादया। स्वयमेवात्मनैव धैर्यमालम्व्य सर्ववृत्तान्तस्य समग्रोदन्तस्यानुकथनेन पश्चात्कथनेन प्रियसखी तथा संस्थापय संस्थापनां कुरु यथार्यशुक्रनासेन सह् यातव्यं गन्तव्यं भवति । इत्येवंप्रकारेणोत्थाप्य सपरिजनां सपरिच्छदां सप रिवारां विलासवत व्यसर्जयत्तत्र गमनायाज्ञां दत्तवान् । आत्मनापि शकनासेन सह गमनसंविधानं प्रयाण-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति