उत्तरभागः । ५७१ तृपुत्र भ्रातृ मित्रस्वजनदर्शनाय च गृहरक्षकवर्जमुज्जयिन्याः सकल एव लोको गन्तुमुदचलत् । राजा तु शीघ्रगमनविघातहेतून्समस्तानेव निर्वर्त्य लघुपरिकरः पिबन्निव पन्थानमेकदिव- सेनैव परापतितुसीमानः स्तोकत एवाध्वनः प्रभृत्युत्ताम्यता हृदयेन कियत्यध्वन्यद्यापि वर्ताः महे कतिपयैर्दिवसैः परापताम इति मुहुर्मुहुस्तुरंगमारोपितं त्वरितकमाहूय पृच्छन्नविच्छिन्नकै- प्रयाण कैर्वहन्नबहुभिरेव दिवसैराससादाच्छोदम् | आसाद्य च विकल्पशतदोलाधिरोहणदु:- स्थितेनान्तरात्मना दूरस्थित एव प्रथममाप्ततमानश्ववारान्वार्ता न्वेषणाय त्वरितकेन सर्वे प्रहितवान् । अथ तैः सार्धमागच्छन्तमुज्झितात्म संस्कारमेलिनकृशशरीरमवनितलनिवेशितोत्तमाङ्गभु- द्वाष्पदीनतरदृष्टिं जीवितलजया रसातलमिव प्रवेष्टमीहमानमहमहमिकया परस्परावरणेनै- वात्मदर्शनमभिरक्षन्तमक्षतमपि ह्तमिव सपरिच्छदमपि मुषितमिव जीवन्तमपि मृतमिव ससंभ्रमकृतागमनमपि प्रतीपमाकृष्यमाणचरणमिवाङ्गैरेव सह गलितोत्साहं चापेनैव सह भुक्त्वात्मानं वैकुव्येनैव सहोपसर्पन्तं मेघनादपुरःसरं सकलमेव चन्द्रापीड चरणतलनिबद्ध- जीवितं राजपुत्रलोकमालोक्योल्लॅसितनयनः शोकोर्मिवेगाक्रान्तोऽप्युच्छ्वसित इव दृढीभूत- सुताः, भ्रातरो बान्धवाः मित्राणि सुहृदः, खजना ज्ञातयः, तेषां दर्शनायावलोकनाय च गृहरक्षकवर्ज समर- क्षकान्विहायोज्जयिन्या विशालायाः सकल एव लोको गन्तुं गमनायोदचलदुत्पतत् । राजा तु नृपोऽपि शीघ्रं यद्गमनं तस्य विघातहेतून्गमन प्रतिवन्धकारिणः समस्तानेव सर्वानेव निर्वर्त्य विसयं प्रलघुपरिकरः स्वल्पपरि- वारः पन्थानं मार्ग पिवन्निव पानं कुर्वन्निव | एकदिवसेनैव परापतितुं प्राप्नुमीहमानोऽभिलषमाणोऽभिवाञ्छ. मानः स्तोकत एवाध्वनो मार्गात्प्रभृति च हृदयेनोत्ताम्यतोत्तपता वक्षसोत्तपताद्यापि कियत्यध्वनि वर्तामहे कि - यति मार्गे वयं स्मः कतिपयैर्दिवसैः परापतामो गच्छाम इति च मुहुर्मुहुस्तुरंगमारोपितं न्यस्तमारूढं त्वरित- कनामानं सेवकमाहूयाह्वानं कृत्वा मन्त्रणं विधाय पृच्छन् प्रश्नं कुर्वन्नविच्छिन्न कैर्निरन्तरैरन्तररहितैः प्रयाणकै- गमनेर्वहन् चलन्नबहुभिरेव स्तोकैरेव दिवसैर्वासरैरच्छोदं सर आससाद प्राप्तवान् । आसाद्य च प्राप्य च विकल्पानां संकल्पानां शतं तदेव दोला प्रेङ्खा तदधिरोहणमवस्थानं तेन दुःस्थितेन दुःखितेनैवं विधेनान्तरा- त्मनान्तःकरणेन दूरस्थितॊ दविष्ठस्थितः प्रथम मादावाप्ततमान तिशयेन यथार्थोपदेष्टनश्ववारान्सादिनो वार्तान्वे- पणाय वृत्तान्तज्ञप्त्यर्थं त्वरितकेन सार्धं प्रहितवान्प्रेषितवान् । अथेति । तैः पूर्वप्रेषितैः सार्धं ममागच्छन्तमायातमुज्झितस्त्यक्त आत्मसंस्कारः क्षालनादिरूपो येन स तम् । मलिनं कलुपं कश्मलंकृशं क्षामं शरीरं यस्य स तम् । अवनितले निवेशितानि स्थापितान्युत्तमाङ्गानि शि- रांसि येन स तम् । उद्वाष्पेणोद्गत नेत्राश्रुणा दीनतरातिदुःखिता दृष्टिर्यस्य स तम् । जीवितलज्जया प्राणितत्रपया रसातलमिव पातालमिव प्रवेष्टुं प्रवेशं कर्तुमीहमानं स्पृहमानम् | अहमहमिकयाहं पूर्वमहं पूर्वमिति स्वरूपया । 'अहमहमिका तु सा स्यात्परस्परं यो भवत्यहंकारः' इत्यमरः । परस्परमन्योन्यमावरणमाच्छादनं तेनात्मदर्शनं arrer reri
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति