उत्तरभागः । ५७५ कृत्वा मनोरमा शुकनास संधारणीयौ यथोर्लोकान्तरितो वैशम्पायनः । तिष्ठतां तावदे- तावपि । यस्याः प्रभावात्पुनरनुभवनीयो वैत्सस्य जीवितप्रतिलम्भाभ्युदयमहोत्सवः सैवेयं गन्धर्वराजतनया वधूस्तेऽस्मदाग मनशोकोर्मिसंक्रान्तिमूढा सनामग्रहणमुन्मुक्ताक्रन्दाभिः प्रि- यसखीभिर्ग्राह्यमाणाद्यापि संज्ञां न प्रतिलभते । तदेनी तावदुत्थाप्याके कृत्वा चेतनां लम्भय | ततो यथेच्छं रोदिष्यसि' इत्यभिहिता राज्ञा विलासवती ' क सा मे वत्सस्य जीवित निबन्ध- नवधूः' इत्यभिदधत्येव ससंभ्रममुपसृत्याप्रतिपन्नसंज्ञा मेवाङ्केनादाय कादम्बरीं करेण मूर्च्छानि मीलनाहित द्विगुणतरनयनशोभं वदनमालोक्यानवरतनय नस लिल नानाई मिन्दुशकलशीतलं स्वकपोलं कपोलयोर्ललाटे ललाटं लोचनयोश्च लोचने निवेशयन्ती चन्द्रापीडस्पर्शशिशिरेण च पाणिना हँुदये स्पृशन्ती 'समाश्वसिहि मौतः, त्वया विनाद्यैव प्रभृति केन संधारितं वत्सस्य मे चन्द्रापीडस्य शरीरम् । मातः, त्वममृतमयीव जातासि येन वत्सस्य पुनवेदनमालो कि तम्' इत्यवादीत् । कादम्बरी तु तेन चन्द्रापीडनामग्रहणेन तेन 'तेन्निर्विशेषवृत्तिना विलास- बती शरीरस्पर्शेन लब्धसंज्ञापि लज्जावनम्रमुखी प्रतिपत्तिमूढा मदलेखयाङ्कादवतार्य परवत्येव 4 वाम्यामपि दम्पतीभ्यामपि परम मुत्कृष्टमवष्टम्भं प्रतिबन्धं कृत्वा मनोरमा शुकनासश्च संधारणीयौ | मृत्यो रक्षणी- यावित्यर्थः। ययोर्द्वयोर्मध्ये लोकान्तरितो वर्तते वैशम्पायनः। तिष्ठतां वा तावदेतावपि मनोरमाशुकनासावपि तिष्ठ- तामित्यर्थः । यस्याः कादम्बर्या: प्रभावात्पुनर्वत्सस्य जीवितस्य प्रतिलम्भः प्रकर्षेण लाभस्तस्याभ्युदयस्तस्य मह् उत्सवोऽनुभवनीयोऽनुभवविषयीकरणीयः सैवेयं गन्धर्वराजतनया ते तव वधूरस्माकमागमनेन यः शोकः शुक्त- स्योर्मयस्तरङ्गाः कल्लोलास्तेषां संक्रान्तिः संक्रमणं तेन मूढा अज्ञा सनामग्रहणं नामग्रहणपूर्वं यथा स्यात्तथोन्मुक्त आनन्दो यामिरेवंविधाभिः प्रियसखीभिर्ग्राह्यमाणा श्रियमाणा अद्यापि सांप्रतमपि संज्ञां चेतनां न प्रतिलभते । तत्तस्माद्धेतोस्तावदादावेनामुत्थाप्याङ्क उत्सङ्गे कृत्वा चेतनां संज्ञां लम्भय प्रापय । ततो यथेच्छं यथा स्यात्तथा रोदिष्यसि रुदनं करिष्यसि । इति राज्ञाभिहिता कथिता विलासवती मे मम वत्सस्य जीवित निवन्धनं कारणं वधूः क्वेत्यभिदधत्येवेति कथयन्त्येव ससंभ्रमं संभ्रमेण सहितं ससंभ्रमं सादरं सभयं वोपसृत्य समीपे निकटे गत्वा- प्रतिपन्नसंज्ञामेवाप्राप्तचेतनामेवाकेनोत्सङ्गेनादाय कादम्बरीं मूर्च्छानिमीलनेनाहिता स्थापिता द्विगुणतरनयन- शोभा यस्मिन्नेतादृशं वदनं मुखमालोक्य निभाल्यानवरतं निरन्तरं नयनसलिलेन लोचनजलेन स्नानमालवस्ते- नाईमुन्नमत एवेन्दुशकलवञ्चन्द्रखण्डवच्छीतलं शिशिरं स्वकपोलं कपोल योर्ललाटं ललाटे लोचनयोश्च लोचने नि- वेशयन्ती स्थापयन्ती ।‘असिधस्तु (?) चिबुकं स्याद्गल्लः सुकणः परः । गलात्परः कपोलश्च परो गण्डः कपोलतः’इति हैमकोशः। चन्द्रापीडस्पर्शशिशिरेण शीतलेन च पाणिना करेण हृदये वक्षसि स्पृशन्ती स्पर्श कुर्वन्ती | हे मातः, यथा पुत्रे तात इति प्रयोगस्तथा पुत्रीसमायां सुतातुल्यायां स्नुषायामपि मातृशब्दप्रयोगः । त्वं समाश्व सिह्यावा- सनां कुरु । यतस्त्वया भवत्या विनाद्यप्रभृत्येतद्दिनादारभ्य मे मम वत्सस्य मे मम सुतस्य चन्द्रापीडस्य शरीरं केन संधारितं धृतम् | हे मातः, त्वममृतमयीव पीयूषनिर्मितेव संजाता । येन कारणेन वत्सस्य वदनं
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति