उत्तरभागः । ५७७ स चायं मे भगवता कृतान्तेन पुराकृतैः कर्मभिर्वा विरूपैरेवं समुपनमितः । किमपरं कि यते । अनतिक्रमणीया नियतिः । अप्रापणीयं नानुभूतमात्मचेष्टाकृतं वत्सस्य सुखम् । प्रजापरिपालनफेलं तु पुनर्भवद्भुजेष्वेव मते ध्वविरहितमस्त्येव । अन्यथापि हि चेष्टमानेष्व स्मासु सर्वमेतेष्वेवावस्थितम् । तदिच्छामि चिरकाङ्कितं मनोरथं पूरयितुम् | धन्याच जरापी- तसारतनवस्तनयेष्वात्मभरमासज्य लघुशरीराः परलोकगमनं साधयन्ति । येच वलाद्गले पा- दमाधाय यदा तदानिच्छतोऽप्याच्छिद्यत एव कृतान्तेन । तद्यदि पात्रे क्वचिदपि स्थापयित्वा निजपदं जरापरिभुक्तायुः शेषेण निष्प्रयोजनस्थितिना सर्वसुखवाोन मांसपिण्डेन परलोक- सुखान्युपार्ज्यन्ते लाभ एवायम् । तदस्य वस्तुनः कृते भवन्तो मया प्रत्यर्थिताः' इत्युक्त्वा सं- निहितान्यपि परित्यज्योचितानि सर्वसुखान्यनुचितान्यङ्गीकृत्य वैन्यानि । तैथा हि । हर्म्य- बुद्धि वृक्षमूलेषु, अन्तःपुरस्त्रीप्रीतिं लतासु, संस्तुतजनस्नेहं हरिणेषु, निवसनरुचि चीरव- ल्कलेषु, कुन्तरचनाभियोगं जटासु, आहारहार्द कन्दमूलफलेषु, शस्त्रधारण व्यसनमैक्षसूत्रेषु, प्रजापरिपालनशक्ति समिटकुशकुसुमेपु, नर्मालापं धर्मसंकथासु, समररसमुपशमे, जयेच्छां लोकपालत्वाद्भगवता ज्ञानवता पूज्येन पुराकृतैः पूर्वभवाचीर्णैर्विरूपैरशुभैः कर्मभिर्वैवं पूर्वोक्तप्रकारेण समुपनमि- तोऽवरीकृतः । अपरं द्वितीयं किं क्रियते, यतोऽनतिक्रमणीयानुल्लङ्घनीया नियतिर्ब्रह्मनिर्मितिरदृष्टं वा । आत्मचे- 'टात्मप्रयत्नस्तेन कृतं वत्सस्य चन्द्रापीडस्य सुखमप्रापणीयं प्राप्तुमयोग्यं नानुभूतं नानुभवविषयीकृतम् । प्रजाप- रिपालनसुखफलं तु पुनरक्षतेष्वखण्डितेषु भवद्भुजेष्वेव सत्वविरहितं न वियोगमापन्नमस्त्येव । अन्यथापि ह्य स्मासु चेष्टमानेषु क्रियमाणेषु सर्वमेतेष्विव भवद्भुजेष्विवावस्थितं स्थितिमापन्नम् । तदिति हेवर्थे | इच्छा मि 'चिरकाङ्क्षितं चिरवाञ्छितं मनोरथं पूरयितुं परिपूर्णांकर्तुम् | वन्याश्च कृतकृत्याश्च जरया विलसया पीतमगृहीतं सारं बलं यासामेवंभूतास्तनवो येषां ते तथा तनयेषु पुत्रेष्वात्मभरमासज्य न्यस्य अतएव लघुशरीराः परलो- कागमनं भवान्तरगतिं साधयन्ति निष्पादयन्ति । यच्च वलाद्वठाद्द्ले निगरणे पादं चरणमाधाय स्थापयित्वा दत्त्वा यदा तदा यस्मिंस्तस्मिन्कालेऽनिच्छतोऽप्यनभिलपितोऽपि कृतान्तेन यमेनाच्छिद्यत एवाकृष्यत एव । ततो यदि पात्र आप्ते कचिदपि निजपदं स्वस्थानमात्मभारं स्थापयित्वा स्थापनां कृत्वा जरया परिभुक्त आयुषः शेषो यस्य स तेन निष्प्रयोजना निरर्थका स्थितिरवस्थानं यस्य स तेन सर्वसुखासमप्रसौख्याद्वाह्येन बहिर्भूतेन मांसपिण्डेन पललसंघातेन परलोकसुखानि पारभविक सौख्यान्युपार्ज्यन्त उपार्जनाविषयीक्रियन्ते । अयमेव लाभः फलप्राप्तिः । पुरुषार्थ इति यावत् । तत्तस्मात्कारणादस्य वस्तुनः कृते भवन्तो मया प्रार्थिता अभ्यर्थिताः । इत्युक्त्वेत्यभिधाय संनिहितान्यपि समीपवर्तीन्यप्युचितानि योग्यानि सर्वसुखानि परित्यज्य विहाय त्यक्त्वानुचितान्ययोग्यानि नोचितान्ययोनिजन्यानि वनसंवन्धीनि सुखान्यङ्गीकृत्य स्वीकृत्य च । तदेव as a वहिथियं मलेष पादपवधेष अन्तःपरीवर स्त्री
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति