उत्तरभागः | ९५८५ दृष्ट्वा किं सरभसमुत्थाय दूरत एव प्रसारितभुजद्वयो गाढालिङ्गनेन सुखमनुभविष्यामि । किं करं करेणावलम्ब्यासनपरिग्रहं कारयिष्यामि । किं सुखासीनस्य गात्रसंवाहनं कुर्वञ्छ्रमम- पनेध्यामि' इत्येवमात्मानमनुशोचन्तमेव मां कपिञ्जलः करेणोत्क्षिप्य मद्विरहदुर्बले वक्षसि निवेश्य चिरमिवान्तःप्रवेशयन्निवालिङ्गनसुखं किल तथा मेऽनुभूय भूयसा मन्युवेगेनोत्त- माझे कृत्वा मञ्चरणावितरवदरोदीत् । ? तथा रुदन्तं चे तं वाङ्मात्रप्रतीकारः पुनरवदम् – 'सखे कपिल, सकलक्लेशपरिभूतस्य पापात्मनो ममेदं युज्यते यत्त्वया प्रारब्धम् । त्वं पुनर्बालोऽप्यस्पृष्ट ऍवामीभिः संसारब न्धात्मकै निर्वाण मार्ग परिपन्थिभिर्दोषैः । तत्किर्मंधुना मूढजनगतेन वर्त्मना । समुपविश्य तावत्कथय यथावृत्तं तस्य वार्ताम् | अपि कुशलं तातस्य । स्मरति वा माम् । दुःखितो वा मदीयेन दुःखेन । मदृत्तान्तमाकर्ण्य किमुक्तवान् । कुपितो न वा' इति । स त्वेवमुक्तो मया हारीतशिष्योपनीते पल्लवासने समुपविश्याङ्के मां कृत्वा हारीतोपनीतेनाम्भसा प्रक्षालय मुखमाख्यातवान्–'सखे, कुशलं तातस्य । अयं चास्मद्वृत्तान्तः प्रथमतरमेव तातेन दिव्येन 1 भवान्तर व्यवहितावलोकनमपि त्वां दृष्ट्वा विलोक्य निरीक्ष्य सरभसं सवेगमुत्थायोत्थानं कृत्वा दूरत एव द विष्ठ एव प्रसारितं विस्तारितं भुजवयं बाहुद्वयं येन सः । गाढालिङ्गनेन तीव्रसंश्लेषेण किं सुखमनुभ- विष्यामि साक्षात्प्रत्यक्षं करिष्यामि । करं हस्तं करेण पाणिना हस्तेनावलम्व्यासनपरिग्रहं विष्टरस्वीकारं किं कारयिष्यामि किं विधापयिष्यामि किं निष्पादयिष्यामि | सुखासीनस्य सुखोपविष्टस्य गात्रसंवाहनमङ्ग मर्दनं कुर्वञ्चमं खेदं परिश्रममपनेष्यामि दूरीकरिष्यामि । 'संवाहनं मर्दनं स्यात्' इत्यमरः । इत्येवमात्मानं स्वमनु- शोचन्तमेव मां कपिञ्जलः करेण पाणिनोत्क्षिप्योत्पाव्य मम विरहो वियोगस्तेन दुर्वले कृशे वक्षसि चिरमिव निवेश्य संस्थाप्यान्तर्मध्ये प्रवेशयन्निव प्रवेशं कारयन्निव मे ममालिङ्गनसुखम् । किलेति सत्ये । तथानुभूय साक्षात्कृत्य मन्युः शोकः । 'मन्युशोकौ तु शुक्स्त्रियाम्' इत्यमरः । तस्य भूयसा बहुलेन वेगेन रयेण मञ्च - रणौ मत्पादौ मदनी उत्तमाझे मस्तके कृत्वा इतरवत्प्राकृतजनवत् | 'इतर: प्राकृतो नीचः' इति हैमः | अरो- दीदनमकार्षीत् । 'विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः' इत्यमरः । तथा रुदन्तं च तथा विलपन्तं च वाड्यात्र एव प्रतीकारः प्रतिक्रिया यस्य सः | पुनरवदमब्रुवम् । सखे कपिञ्जल, सकलक्लेशेन समग्रदुःखेन कष्टेन परिभूतस्याभिभूतस्य पराभवितस्य पापात्मनो मे ममेदं युज्यत इदं घटते यत्त्वया भवता प्रारब्धम् । रुदनमित्यर्थः । त्वं पुनर्वालोऽप्यमीभिः संसारबन्धात्मकैः संसृतिबन्ध स्वरूपैर्निर्वाण मार्गस्य मोक्षमार्गस्य परिपन्थिभिः शत्रुभिर्दोषैर्दूषणैरस्पृष्ट एव । तत्तस्माद्धे- तोर्मूढजनगतेन मूर्खजनाचीर्णेन वर्त्मना मार्गेण रुदनलक्षणेन | अधुना किम् । न किमपीत्यर्थः । उपवि- श्यास्थाय तावदादौ तावत्पूर्वमादौ यथावृत्तं तथा तस्य वार्ता किंवदन्तीं कथय ब्रूहि | अपि तातस्य पितुः
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति