कादम्बरी । । kā darbojā भ॑वये॒वादृष्टसुखहेतुः । दृष्टेऽपि च केनचिदपरेणादृष्टस्य मन्मुक्तिकृतः प्रत्यवायो नास्त्येव । तन्मुञ्चतु मां भद्रमुखः' इत्यभिधानञ्च पादयोरपतम् । स तु विहस्य मामब्रवीत् 'रे मोहान्ध, यस्य शुभाशुभकर्मसाक्षीभूताः पञ्च लोकपालास्त वैवात्म शरीर स्थिता न पश्यन्ति मोऽन्यस्य भयादकार्ये नाचरति तन्नीतोऽसि मया स्वाम्याज्ञया' इत्येवमभिदधान एव मामा- दाय पकणाभिमुख मगच्छत् । ५९२ अहं तु तेन तद्वचसाभिहत इव मूर्ध्नि मूकतामापन्नः केषां पुनः कर्मणामिदं मे फलमि - त्यन्तरात्मनाभिध्यायन्प्राणपरित्यागं प्रति कृतनिश्चयोऽभवम् | नीयमानश्च तथा तेन तन्मो- चनप्रत्याशयैवाग्रतो दत्तदृष्ठिराविष्ठैरिव बीभत्सविन्यासैर्व्यावृत्तैश्चावर्तकानायपरिभ्रमणानि- मृतैश्च मृगावपाटितजीर्णवागुरासंमन्थनव्यमैश्चोत्रुटित कूटपाशसंप्रेन्थनायस्तैच हस्तस्थितस- काण्डकोदण्डैश्च श्रीसप्रचण्डपाणिभिश्च सेलग्राहिभिश्च नानाविधाग्रहकविहंगँवाचालनकुशले: . । लोद्वारं कृत्वा तवाप्यदृष्टश्चासौ सुखहेतुश्चेति कर्मधारयः । एवं विधो धर्मो भवत्येव । दृष्टेऽपि दूषणं नास्ती - त्याशयेनाह—दृष्टेऽपीति । अदृष्टस्यानवलोकितस्य मन्मुक्तिकृतो मन्मोचन कर्तुंरपरेण केनचिदृष्टेऽपि चीक्षि- तेऽपि प्रत्यवायः प्रायश्चित्तं नास्त्येव । 'धर्मः क्षरति कीर्तनात्' इति स्मृतेः । तेन दृष्टादृष्टसुकृतरामाचरणेऽपि न दोप इति ध्वनितम् | तदिति हेत्वर्थे । एप भद्रमुखो मां मुञ्चतु त्यजत्विलभिदधान इतिब्रुवाणश्चाहं पादयो- धरणयोरपतं पतितवान् । स तु भद्रमुखो विहस्य स्मितं कृत्वा मामब्रवीदयधात् । किं तदियाह - ऐ इति । रे हे मोहान्ध हे मोहेन गताक्ष, शुभाशुभकर्मयोर्धर्माधर्मयोः साक्षीभूताः स्थेयीभूता इन्द्रयमवरुणसोमकुवेराख्याः पञ्च लोकपालास्तवैवात्मशरीरस्थिता यस्य न पश्यन्ति नावलोकयन्ते स. पुमानन्यस्य भयादकार्यमकृत्यं नाच- रति न करोति । अहं तु पञ्चभिर्विलोक्यमानोऽप्यकृतं करोमीति भावः । अतो मम दोषो नास्तीत्याशये- भाह - तदिति । तत्तस्मात्कारणान्मया स्वामिनोऽधीशस्याज्ञया निदेशेन न स्वातन्त्र्येण नीतोऽस्यत्र प्रापि- तोऽसि । अतों न दूषणं ममेति भावः । इत्येवमभिदधान एवेत्येवंब्रुवाण एव मामादाय गृहीत्वा पक्कणस्य शवरावासस्याभिमुखमगच्छदगमत् । अहं तु तेन भद्रमुखेन तद्वचसा तद्वाक्येन मूर्ध्नि शिरस्यभिहत इव ताडित इव मूकतामापन्नो भूकभावं प्राप्तः । इदं के कर्मणां फलमित्यन्तरात्मनाभिध्यायन्विचारयन्प्राण परित्यागमसुमोक्षणं प्रति कृतनिश्चयो विहितनिर्णयोऽभवम् । तथा तेन प्रकारेण तेन वाण्डालेन नीयमानश्च तस्माद्यन्मोचनं मोक्षणं तस्य प्रत्याशा वाञ्छा तत्रैवाग्रतः पुरो दत्ता दृष्टियेन सोऽहं दूरत एव पक्कणं शबरनिवेशमपश्यं व्यलोकयमिति दूरे- णान्वयः । इतः पकणं विशिनष्टि-- आवेष्ट्यमानमिति | आवेष्ट्यमानं परिवेष्टनविषयीक्रियमाणम् । कै. स्तदेवाह —— आविटैरिव भूतग्रस्तैरिव | बीभत्सो रौद्रो विन्यासो रचना येषां तैर्व्यावृत्तैश्च | आखेटकान्निवृत्तैः । आवर्त एवावर्तकः । 'आवर्तः पयसां भ्रमः' । तत्रानायस्य मत्स्यवन्धनस्य परिभ्रमणमितस्ततः परिक्षेपणं ते- नातिभृतैश्चञ्चलैः । ‘आनायो मत्स्यबन्धनम्' इत्यमरः । मृगैर्हरिणैरवपाटिता विदारिता द्विधाकृता जीर्णवागुरा HERE F
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति