५९८ कादम्बरी । एव वढा धारय । यथा चानुतापोऽस्य भवति तथा प्रतिविधेयमस्य' इति । तदस्य विनया- येदं विनिर्मितं भैया । सर्वमधुना तत्कर्म परिसमाप्तम् | शापावसानसमयो वर्तते । शापा- वसानेन च युवयोः सममेव सुखेन भवितव्यमिति त्वत्समीपमानीतो मयायम् । अत्रापि यच्चाण्डालजाति: ख्यापिता तल्लोकसंपर्कपरिहाराय । तदनुभवतां संप्रति द्वावपि सममेव जन्मजराव्याधिमरणा दिदुःखबहुले तनू परित्यज्य यथेष्टजनसमागमसुखम् इत्यभिधानैव साझटिति रणद्रूपणारवबँधिरितान्तरिक्षमुत्फुल्लुलोकलोचनोद्वीक्षिता क्षितेर्गगनमुदर्पतत् । अथ राज्ञस्तद्वचनमाकर्ण्य संस्मृतजन्मान्तरस्य 'सखे वैशम्पायनाख्य पुण्डरीक, दिध्या तुल्यकालक्षय मेवावयोः शापावसानं संजातम्' इत्यभिधत एवाकर्णाकृष्टकार्मुको मकरकेतुर- ग्रतः परमात्रं कादम्बरीं कृत्वा जीवितापहरणाय प्रतिरोधक इव निरुद्ध सर्वाशोऽऽन्तरा पदं चकार । तत्पदाक्रान्तिनिर्वासितमिव कादम्बरीशरणमुपजगामन्तःकरणम् | तन्मार्गणाभि- हतिभीता इव देहमुत्सृज्य निर्जग्मुरजडाः श्वासमरुतः । तद्वाणपक्षवाताहतमिवाकम्पत तरलं शरीरम् | तेच्छरश ल्यभरालसोत्कण्टकिनी तनुरजायत । तद्विशिखरजोरूषितमिव नयन- न्धनं कृत्वा धारयावस्थापय | यथा चानुतापः पश्चात्तापोऽस्य भवति, तथा प्रतिविधेयं तथा करणीयमिति । तदस्य वैशम्पायनस्य विनयाय मर्यादायें इदं मया सर्वं विनिर्मितं विहितम् | अधुना सर्वं तत्कर्म तत्कृत्यं परिसमाप्तं परिपूर्णाकृतम् | शापस्यावसानसमयः प्रान्तकालो वर्तते शापावसानेन च युवयोर्भवतोः सममेव सुखेन सातेन भवितव्यमित्यतस्त्वत्समीपं त्वदस्यर्ण मयायमानीतः प्रापितः । अत्रापि यच्चाण्डालजातिः ख्यापिता कथितोक्ता तल्लोकानां जनानां संपर्कः संबन्धस्तस्य परिहाराय दूरीकरणाय | तत्संप्रतीदानीं द्वावपि शुद्रकवैशम्पायनावपि सममेव समकालमेव जन्मोत्पत्तिर्जरा विखसा व्याधिरामयो मरणं मृत्युरेवंभूतं दुःखं तेन बहुले दृढेऽस्मिल्लो के तनू शरीरे परित्यज्यानुभवतां यथेष्टजनानां समागमो मेलापकस्तस्मात्तस्य वा सुखं सातम् । इत्यभिदधानेति ब्रुवाणैव सा चाण्डालदारिका झटिति शीघ्रं रणन्ति यानि भूषणान्याभरणानि तेषां रवः शब्दस्तेन बधिरीकृतम- न्तरिक्षमाकाशं यथा स्यात्तथोत्फुलानि विकसितानि यानि लोकलोचनानि जननयनानि तैरुत्प्राबल्येन वीक्षि- तावलोकिता निरीक्षिता क्षितेः पृथिव्याः सकाशाद्वगनमाकाशमुदपतदुत्पतिता बभूव । अथेति । तदनन्तरं तद्वचनमाकर्ण्य श्रुत्वा संस्मृतं स्मृतिगोचरीभूतं जन्मान्तरं भवान्तरं यस्य स तथा तस्य । हे सखे हे वयस्य हे भ्रातः, वैशम्पायन इत्याख्ययातिनाम्ना पुण्डरीक, दिष्ट्या भाग्येन पुण्येनावयोः पुण्डरीकचन्द्रमसोः तुल्यकालक्षयमेव समकालमेव युगपदेवैककालमेव शापावसानं संजातं शापमुक्तिः संजाते- त्यभिदधत एवेति कथयत एव राज्ञः शूद्रकस्य मकरकेतुः कामः कन्दर्पोऽन्तरा मध्ये | अर्था द्धृदयस्येति बोध्यम् । पदं निवासं चकार निर्ममे । कीदृशो मकरकेतुः | आकर्ण यावदाकृष्टं कर्षितं कार्मुकं धनुर्येन सोऽग्रतः पुरः परमास्त्रमत्युत्कृष्टशस्त्रं कादम्बरीं कृत्वा विधाय शापावसानत्वाद्यज्जीवितस्यापहरणं ग्रहणं तस्मै प्रतिरोधक इव प्रतिबन्धक इव निरुद्धा आवृताः सर्वे अंशा अवयवा येन सः । अथवा संरुद्धा आशा दश दिशो येनेत्यर्थः ।
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति