उत्तरभागः । ६०३ ककर्णपूरं कर्पूरकुसुमप्रचुरैः प्रसाध्याभरणविशेषैर्विस्मृत निमेषापिबन्तीव भावार्द्रया ईशा सुचिरमालोक्योत्कण्ठानिर्भरा पुनःपुनर्निश्वस्योत्कम्पमाना साध्वसेन स्विन्नसर्वाङ्गी समुत्क- ण्ट किततेनूरुच्छुष्यदधरवदना महाश्वेतावलोकनभयान्मुहुर्मुहुर्दिक्षु विक्षिप्तोञ्चकितदृष्टिरतिचि- रमिवोपसृत्य पुनःपुनः स्थित्वाविष्टेव पैरवती परित्याजिता बलाल्लज्जया सहाबलाजनसहजां भीति भगवता भुवनयोन्मादकारिणा मन्मथेनात्मानमपारयन्ती संधारयितुमेकान्ते नि:सहा सहसा तमभिपद्य मुकुलितनयनपङ्कजा जीवन्तमिव निर्भरं कण्ठे जग्राह । " चन्द्रापीडस्य तु तेनामृतसेकाह्लादिना कादम्बरीकण्ठग्रहेण सद्यः सुदूरगतमपि कण्ठस्थानं पुनर्जीवितं प्रत्यपद्यत | दिवेसक्कुमामीलितं कुमुदमिव शरज्योत्स्नानिपातादुच्छुसितमाँ बन्ध- नाद्धृदयम् । उष:परामृष्ठेन्दीवरमुकुललीलयोदमीलत्कर्णान्तायतं चक्षुः | अम्भोरुह विभ्रमेण वाजृम्भत वदनम् । एवं च सुप्तप्रतिबुद्ध इव प्रत्यापन्न सर्वाङ्ग चेष्टश्चन्द्रापीडस्तथा कण्ठलमां कादम्बरी चिरविरहदुर्बलाभ्यां दोस्यो गाढतरं कण्ठे गृहीत्वा वाताहतां बालकदलीमिव भयोत्कम्पमानाङ्गयष्टिमुद्गाढतरामीलिताक्षीं वक्षस्येव प्रवेष्टुमीहमानां न मोक्तुं न ग्रहीतुमा- यस्मिन्नेवभूतोऽशोकस्तबकः कलिगुच्छकः स एव कर्णपूरो यस्य स तम् । कर्पूरकुसुमप्रचुरैराभरणविशेषैः प्रसाध्य प्रसाधनं कृत्वा विस्मृतनिमेषा व्यक्तनिमेषोन्मेषापिबन्तीव । अत्यादरेणावलोकनं पानमुच्यते । भावेन चित्तसमुद्भवेनाईया सजलया दृशा सुचिरं बहुकालं चिरकालमालोक्य निरीक्ष्योत्कण्ठाया निर्भरोऽतिशयो यस्यां सा । पुनःपुनर्निश्वस्य निश्वासं मुक्त्वोत्प्राबल्येन कम्पमानातिवेपमाना साध्वसेन भयेन खिन्नं प्रविन्नं सर्वाङ्गं यस्याः सा | समुत्कण्टकिता तनूः शरीरं यस्याः सा | उच्छुण्यन्ती शोषं प्राप्यमाणेऽधरवदने दन्तच्छदमुखे यस्याः सा । महाश्वेताया अवलोकनं तस्माद्भयं भीतिस्तस्मान्मुहुर्मुहुर्वारंवारं दिक्षु विक्षिप्ता प्रेरितोच्चकितोत्रस्ता दृष्टिर्यया सा | अतिचिरमिव बहुकालमिवोपसृत्य समीपमागत्य पुनः पुनः स्थिवावस्थानं कृत्वानिष्टा भूतग्रस्तेव | परवती परायत्ता वलाठाल्लजया त्रपया परित्याजिता परित्यक्ता अबलाजनः स्त्रीज- नस्तस्य सहजां सहोत्पन्नां भीतिं भगवता माहात्म्यवता भुवनत्रयस्योन्मादकारिणा चित्तविलवजनकेन मन्म- थेन कंदर्पेणात्मानं संधारयितुं धारणां कर्तुमपारयन्त्यसमर्था एकान्ते विजने निःसहा परिश्रान्ता सहसा एकपदे तमभिपत्य गत्वा मुकुलिते संकुचिते नयनपङ्कजे यस्याः सा | जीवन्तमिव श्वसन्तमिव निर्भरं यथा स्यात्तथा कण्ठे निगरणे जग्राह गृहीतवती । चन्द्रापीडस्य तु तेनामृतस्य सेकः सिञ्चनं तद्वदाह्लादिना प्रमोदजनकेनैवंविधेन कादम्बरीकण्ठग्रहेण सद्य- स्तकालं सुदूरगतमपि दविष्ठदेशप्राप्तमपि जीवितं प्राणितं पुनः कण्ठस्थानं निगरणदेशं प्रत्यपद्यत स्त्री- चक्रे | दिवसक्लमं वासरसंबन्धि (?) आमीलितं संकुचितं शरत्कालीना या ज्योत्स्ना चन्द्रिका तस्या निपाता- त्पतनादाबन्धनादावृन्तात्कुमुदमिव कैरव मिवोच्छ्रसितमुल्लसितं हृदयं भुजान्तरम् | उषसा प्रत्यूषेण परामृष्टं कृतस्पर्श यदिन्दीवरमुकुलं नीलसरोजकुङ्मलं तस्य लीलयेवेति लुप्तोपमा । कर्ण यावदायतं विस्तीर्ण
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६००
एतत् पृष्ठम् अपरिष्कृतम् अस्ति