उत्तरमा महाश्वेतां पुण्डरीकागमनमहोत्सवेन यावन्न वर्धयत्येव तावदवतीर्थ पुण्डरीकः परोपकारिणे चन्द्रापीडवपुषे शशाङ्कायाढौकत | चन्द्रापीडस्तु तं कण्ठे गृहीत्वाब्रवीत् – 'सखे पुण्डरीक, यद्यपि प्राग्जन्मसंवन्धाज़ामातासि तथाप्यनन्तरजन्माहृत सुहृत्स्नेहसद्भावेनैव मया सह वर्ति- तव्यं भवता' इत्येवं च वदत्येव चन्द्रापीडे चित्ररथहंसौ दिष्ट्या वर्धयतुं केयूरको हेमकूट- मगमत् । मदलेखापि धावमाना निर्गत्य मृत्युंजयजपव्यग्रस्य तारापीडस्य विलासवत्याश्च पादयोः पतित्वा 'देव, देव्या सह दिव्या वर्धसे । प्रत्युज्जीवितो युवराज: समं वैशम्पायनेन, इत्यानन्दनिर्भरमुचैर्जगाद । राजा तु तच्छ्रुत्वा शरीरसंस्कार विरहोद्गताविरलदीर्घपरुषपलि- तलोमशप्रकोष्ठाभ्यां दोर्भ्यां परिष्वज्य तां तदनु हर्षपरवशो विलासवतीं कण्ठेऽवलम्ब्य जरामङ्गवलिपरिशिथिलितमूलेन वाहुनोत्क्षिप्तोत्तरीयांशुकाञ्चलः स्वयमेवा शिक्षितलयविसं- इव मलयमारुतमे बोलनावि- लैः पदैर्नृत्यन्निवोत्फुलवदननरपति सहस्रपरिवृतोऽम्भोजाकर वर्तितो मदलेखां 'कासौ क्कासौ' इति पुनः पुनः पृच्छन्पुनः पुनर्निर्विशेषहर्षवृत्ति शुकनासं कण्ठे संभावयंस्तत्रैवागच्छत् । दृष्ट्वा च तथा पुण्डरीककण्ठे लग्नं चन्द्रापीडमानन्दनिर्भरः शुकनासमवादीत् –'दिष्ट्या मया नैका किना तनयप्रत्युज्जीवनोत्सवसुखमनुभूतम्' इति । च- न्द्रापीडस्तु तथा हर्षपरवशं पितरमालोक्य ससंभ्रमोन्मुक्तपुण्डरीकः, पुर एव पृथ्वीतलनिवे- शितशिराश्चरणयोरपतत् । अथ सत्वरोपसृतस्तं तथा प्रणतमुन्नमय्य तारापीडोऽभ्यधात्- 'पुत्र, यद्यपि पिताहं तव शापदोपात्स्वपुण्यैर्वा संजातः, तथापि जगद्वन्दनीयो लोकपालस्त्वम् । अपि च मय्यपि नमस्यो योंऽशः सोऽपि मया त्वय्येव संक्रामितः । तदुभयथापि त्वमेव नमस्कार्यः' इत्यभिदधदेव समं राजपुत्रलोकसहस्रैः प्रतीपमस्य पादयोरपतत् । विलासवती १ भूता कादम्बरी स्वयमेवात्मनैव धावित्वा धावनं कृत्वा दत्तः कण्ठग्रहो यस्या एतादृशीं महाश्वेतां पुण्डरीक- स्यागमनमहोत्सवस्तेन यावन्न वर्धयत्येव वर्धापनं न करोत्येव तावत्तस्मिन्समये पुण्डरीकोऽवतीर्योत्तरणं कृत्वा परमोपकारिणे परमोपकृतिविधायिने चन्द्रापीडस्य वपुः शरीरं यस्य स तथा तस्मै शशाङ्काय चन्द्रमसे चन्द्रायाढौकत | चन्द्रापीडस्तु तं पुण्डरीकं कण्ठे गृहीत्वा कण्ठग्रहं कृत्वा कण्ठाश्लेषं गृहीत्वाब्रवीदवोचत् । एतदेव दर्शयन्नाह -- सखे इति । हे सखे हे वयस्य पुण्डरीक, यद्यपि प्राग्जन्म संबन्धाद्भवान्तरसंबन्धात्त्वं जामातासि, महाश्वेतायाश्चन्द्रवंशोत्पन्नेन चन्द्रमसः पुत्रीत्वादस्याः पतित्वेन चास्य जामातृत्वमिति भावः । तथाप्यनन्तरजन्मनि शुद्रकभव आहृतोऽर्जितो यः सुहृत्स्नेहो मित्रप्रेम तस्य सद्भावेनैव मया सह वर्तितव्यं चलितव्यं भवता । एवं च वदति कथयति चन्द्रापीड़े चित्ररथहंसौ कादम्बरीमहाश्वेतापितरौ दिष्ट्या भाग्येन वर्धयितुं वर्धापनं कर्तुं केयूरको हेमकूटमगमद्ययौ | मदलेखापि निर्गत्य धावमाना धावनं कुर्वाणा मृत्युंजयो महादेवस्तस्य जपो जापस्तेन व्यग्रस्य व्याकुलस्य तारापीडस्य विलासवत्याश्च पादयोश्चरणयोः पतित्वाभिवा- दनं कृत्वा हे देव, देव्या सह दिष्ट्या वर्धसे । समं वैशम्पायनेन युवराजः प्रत्युज्जीवित इत्यानन्दनिर्भरं यथा स्यात्तथोच्चैर्गाढस्वरेण जगादात्यर्थमवोचत् । तच्छ्रुत्वाकर्ण्य शरीरस्य संस्कारविरहोऽधिवासनराहित्यं
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६०२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति