पूर्वभागः । ६३ प्यसुदर्शनम् , स्वच्छन्दचारमपि दुगैकशरणम, क्षितिभृत्पादानुवर्तिनमपि राजसेवानभिज्ञम, अपत्यमिव विन्ध्याचलस्य, अंशशावतारमिव कृतान्तस्य, सहोदरमिव पापस्य, सारमिव कलिकालस्य, भीषणमपि महासत्वतया गम्भीरमिवोपलक्ष्यमाणम्, अभिभवनीयाकृति गातङ्गानामानं शवरसेनापतिमपश्यम् । अभिधानं तु पश्चात्तस्याहमश्रौषम् । आसीच मे मनसि---'अहो, मोहायमेतेषां जीवितं साधुजनगर्हितं च चरितम् । तथा हि । पुरुपपिशितोपहारे धर्मबुद्धिः, आहारः साधुजनगैर्हितो मधुमासादिः, श्रमो मृ- गया, शैखं शिवारुतम् , समुपदेष्टारः सदसतां कौशिकाः, प्रज्ञा शकुनिज्ञानम्, परिचिताः शानः, राज्यं शून्यास्वटवीपु; आपानकमुत्सवः, मित्राणि क्रूरकर्मसाधनानि धषि, सहाया कृष्णेति । कृष्ण विष्णुमपि सुदर्शनेन रहितमिति विरोधः । परिहारपक्षे कृष्णं श्यामवर्णमत एवासुदर्शनं भीमदर्शनम् । भयोत्पादकलादिति भावः । स्वच्छन्देति । स्वच्छन्देन स्वेच्छया चारश्चरणं यस्यैवंभूतमपि दुर्ग कोट्टमेकमद्वितीयं शरणमाश्रयो यस्येति विरोधः । परिहारपक्षे दुर्गा भवान्येकं शरणं यस्येति विग्रहः । क्षिति- भूदिति । क्षितिभृद्राजा तस्य पादाश्चरणास्तदनुवर्तिनमपि तत्समीपस्थायिनमपि राजसेवा नृपसपर्या तस्या अनभिज्ञमकुशलमितिविरोधः । तत्परिहारपक्ष क्षितिगृत्पर्वतस्तस्य पादाः पर्यन्तपर्वतास्तदनुवर्तिनं तत्र स्थायि- न गिति विग्रहः । अपत्येति । विन्ध्याचलस्य जलवालकानेरपत्य मिव प्रसूतिमिव । अंशेति । कृतान्तस्य यमस्या- शावतारमिवैकदेशावतारमिव । लहोदरेति । पापस्यै नसः सहोदरमिव सोदर्यमिव । सारेति । कलिकालस्य कलियुगस्य सारमिव सर्वस्वमिव । भीषणेति । भीषणमपि गयजनकमपि महच तत्सत्त्वं च महासत्त्वं तथ्य भावस्तत्ता तथा गम्भीरमिव गाम्भीर्यगुणयुक्त मिवोपलक्ष्यमाणं परिदृश्यमानम् । परैरिति शेषः । अभीति । अभिभवनीया तिरस्करणीयाकृतिराकारो यस्येति स तम् । अन्वयस्तु प्रागेवोक्तः । अभिधानं तु पश्चात्तस्याह- मश्रीपं तस्य रोनापतेरभिधानं नामाह पश्चात्तद्दर्शनानन्तरमश्रौषमाकर्णयम् । अनुबरमुखादिति शेषः । आसीच्चेति । मे मम मनसि चित्त आसीद्धभूव । खेद इति शेषः । तदेव दर्शयति-अहो इत्यादिना। अहो इत्याश्चर्ये । एतेषां भिल्लानां जीवितं प्राणितं मोहोऽज्ञानं प्रायः प्रचुरं यत्र तादृशम् । वः पुनरर्थे । चरि- तमाचरणं साधुजनैः सजनजनहितं निन्दिनम् । तदेव विशेषतो दर्शयति-तथा हीति । पुरुषेति । पुरुषस्य पुंसो यत्पिशितं मांस तस्थ य उपहारो भगवत्यै नैवेद्य दर्शन तस्मिन्धर्मबुद्धिः श्रेयोधीः । आहार इति । आहारः प्रत्यवसानं साधुजनैहितो निन्दितो मधुमांसादिमधु मद्यं माक्षिकं वा । मांसं प्रतीतम् । ते आदौ यस्येति बहुव्रीहिः । आदिशब्दाकन्दादिपरिग्रहः। श्रम इति । श्रमः शक्तिसाधनायासः मृगयाखे- टकः । शास्त्रमिति। शिवा सृगाली तस्या रुतं शब्दितं शास्त्रमुच्चवरवेदपाठः । प्रबोधजनकलसाम्यात्तदुप- गानम् । सदिति । सदसतां शुभाशुभानां समुपदेष्टारो वोधकाः कौशिका उलूकाः । प्रक्षेति । शकुनयः पत. त्रिणस्तो स्थलमहत्त्वादिना ज्ञानं तदेव प्रज्ञा विवेकवुद्धिः। परीति । श्वानः सारमेयाः परिचिता विश्वासपा.
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति