पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ६५ मेयं हिमजडम्, अरविन्दकोशरजःकपायमम्भः कमलिनीपत्रटेन प्रत्ययोद्धृताश्च धौतपङ्क- निर्मला मृणालिकाः समुपाहरन् । आपीतसँलिलश्च सेनापतिस्ता मृणालिकाः शशिकला इव सैंहिकेयः क्रमेणादशत् । अपगतनमश्चोत्थाय परिपीताम्भसा सकलेन तेन शवरसैन्येनानुग- म्यमानः शनैः शनैरमितं दिगन्तरमयासीत् । ऐकतमस्तु जरच्छबररतस्मात्पुलिन्दवृन्दादनासादितहरिणपिशितः पिशिताशन इव वि- कृतदर्शनः पिशितार्थी तस्मिन्नेव तरुतले मुहूर्तमिव व्यलम्बत । अन्तरिते च शवरसेनापतौ स जीर्णशवरः पिबन्निवास्माकमायूंषि रुधिरबिन्दुपाटलया कपिलधूलतापरिवेषभीषणया दृष्ट्या गणयन्निव शुककुलकुलायस्थानानि श्येन इव विहंगा मिषस्वादलालसः सुचिरमारुरु- क्षुस्तं वनस्पतिमा मूल । उत्क्रान्तमिव तस्मिन्क्षणे तदालोकनभीतानां शुककुला- नामसुभिः । किमिव हि दुष्करमकरुणानाम् । यतः स तमनेकतालतुङ्गमभ्रंकपशाखाशिखर. प्रत्यग्नेति । प्रत्यनं तत्कालमुद्धता उत्खाताः । आपीतेति । आपीतं पानविपयीकृतं सलिलं येनैवंभूतः सेनापतिः सैन्यनायकः । क्रमेण जलपानानन्तरं ता मृणालिका अदशदभक्षयत् । कः कामिव । सैहिकेयो राहुः स यथा शशिकलाश्चन्द्रकला अश्वाति । अपेति । अपगतो दुरीभूतः श्रमः खेदो यस्य स उत्थायोत्थान कृत्वा परिपीताम्भसा कृतजलपानेन सकलेन सगग्रेण तेन पूर्वोक्तेन शवरसैन्येन भिल्लवलेनानुगम्यमानः शनैःशनैः कृताखेटकवृत्तित्वेन त्वराभावादभिमतं समीहितम् । एकरया दिशः सकाशादन्या दिशो दिगन्त- रमयासीदगमत् । 'या प्रापणे' इत्यस्य लुङि रूपम् । एकतेति। तु पुनरर्थे । एकतमः कश्चिजरच्छबरः स्थविरभिल्लरतस्मात्पुलिन्दवृन्दाच्छवरसमुदायादनासा- दितमप्राप्तं हरिणपिशितं मृतमांसं येनैवंभूतः पिशितार्थी मांसार्थी । पिशितेति । पिशितमश्नातीति पिशिताशनो व्याघ्रस्तद्वदिव विकृतं दर्शनं यस्य स तस्मिन्नेव तरुतले पूर्वोक्तवृक्षाध एकमुहूर्त मिव घटिकाद्व- यमिव व्यलम्बत तद्गमनानन्तरं विलम्वं चकार । तथा शबरसेनापतौ भिल्लनायकेऽन्तरिते वृक्षादिना व्यवहिते सति स पूर्वोक्तो जीर्णशबरोऽस्माकं पक्षिणामायूंषि जीवितानि पिवन्निव पानं कुर्वनिव शुकानां कीराणां यानि कुलानि तेषां कुलाया नीडानि तेषां स्थानानि स्थलविशेषाणि गणयनिव तत्संख्यां कुर्वनिव । कया। दृष्टया । इतो दृष्टिं विशेषयन्नाह---रुधिरेति । रुधिररय रक्तस्य यो विन्दुः पृपत्तद्वत्पाटलया श्वेतरक्तया। कपिलेति। कपिला पिङ्गला या भ्रूलता तस्याः परिवेपः परिधिस्तेन भीपणया भयकारिण्या । पुनः प्रकारान्तरेण तमेव वि. शेपयनाह-श्येनेति । इयेन इव शशादन इव विहागनां पतत्रिणां यदा मिषं मोसं तस्यास्वादो भक्षणं तत्र लालसो लम्पटस्तं वनस्पति शाल्मलीवृक्षमारुरुक्षुरारोढुमिच्छुः सुचिरं चिरकालं यावत् । आ मूलान्मूलं मर्या- दीकृत्यामूलं तस्मात्प्रान्तपर्यन्तमपश्यद्यलोकयत् । उत्क्रान्तमिवेति । तस्मिन्क्षणे तस्मिन्प्रस्तावे तरय यदालोकनं वीक्षणं तेन भीतानां भयप्राप्तानां शुककुलानामसुमिः प्राणैरुत्क्रान्तमिव निर्गतमिव । हीति।दि यस्याकारणात नियामिकामा -- -A