पूर्वभागः। मामवष्टभ्य तस्थौ । असावपि पापः शाखान्तरैः संचरमाणः कोटरद्वारमागत्य जीर्णासित- भुजंगभोगभीषणं प्रसार्य विविधवनवराहवसावित्रंगन्धिकरतलं कोर्दैण्डगुणाकर्षणव्रणाति- तप्रकोष्ठमन्तकदण्डानुकारिणं वामबाहुमतिनृशंसो मुहुर्मुहुर्दत्तचञ्चप्रहारभुत्कूजन्तमाकृष्य तातं गतासुमकरोत् । मां तु स्वल्पत्वाद्यसंपिण्डिताङ्गत्वात्सविशेषत्वाचायुपः कथमपि प॑क्षसंपुटान्तरगतं नालक्षत् । उपरतं च तमवनितले शिथिलशिरोधरमधोमुखमभुञ्चत् । अ- हमपि तञ्चरणान्तरे निवेशित शिरोधरो निभृतमङ्कनिलीनस्तेनैव सहापतम् । अवशिष्टपुण्य- तया तु पैवेनवश्येन पुञ्जितस्य महतः शुष्कपत्रराशेरुपरि 'पतितमात्मानमपश्यम् । अङ्गानि येन मे नौशीर्यन्त । यावच्चासौ तस्मात्तरुशिखरान्नावतरति तावदहमवशीर्णपत्रसवर्णत्वाद- स्फुटोपलक्ष्यमाणमूर्तिः पितरमुपरतमुत्सृज्य नृशंस इव प्राणपरित्यागयोग्येऽपि काले बाल- विमूढो भ्रष्टमतिः । असावपीति । असौ जरच्छवरोऽपि पापः पापिष्टः शाखान्तरैः शालान्तरैः संन्चरमाणः प्रवर्तमानः कोटरद्वारं निष्कुहद्वारमागत्यैत्य तातं मत्पितरं गतामुं विगतप्राणमकरोदसृजदित्यन्वयः । किं कृत्वा । प्रसार्य विस्तार्य । कम् । वामवाहुं सव्यभुजम् । अथैनं विशेषयन्नाह-जीणेति । जीर्णो जरीयानसितः कृष्णो यो भुजंगः सर्पस्तस्य भोगः कायस्तद्वद्भीपणं भयजनकम् । विविधेति । विविधा अनेके ये बनवराहा अरण्यकोडास्तेषां वसा स्नायुस्तया विस्रगन्ध्यामगन्धि करतलं हस्ततलं यस्य स तथा तम् । कोदण्डेति । कोदण्डस्य धनुषो ये गुणाः प्रत्यञ्चास्तेषामाकर्षणमाक्षेपतेन व्रणं किणं तेनातिविहितः प्रकोष्ठः कलाचि का यस्य स तम् । अन्तकेति । अन्तकस्य यमस्य यो दण्डो लगुडस्तदनुकारिणम् । तत्सादृश्यधारिणमि- त्यर्थः । कीदृक्सः । अतिनृशंसोऽतिक्रूरः । कीदृशं तातम् । मुहुरिति । मुहुर्मुहुर्वारंवारं दत्तश्च प्रहारस्नो- टीप्रघातो येन स तथा तम् । किं कुर्वन्तम् । उत्प्रावल्येन कूजन्तं शब्दं कुर्वन्तम् । किं कृत्वा । आकृष्य कोट- राद्वहिरानीयेति शेषः । मां तु वैशम्पायनं कथमपि महता कष्टेन पक्षसंपुटान्तरगतं नालक्षयन ज्ञातवान् । अत्र हेतुमाह---स्वल्पत्वादित्यादि । स्वल्पखादत्यल्पखाद्भयसंपिण्डिताङ्गलाबाससंकुचिताङ्गलादायुपो जीवित- व्यस्यावशेषेणोद्धरितभागेन सहवर्तमानलात् । उपेति । उपरतं मृतं तं पितरमवनितले पृथ्वीतले शिथिला श्लथा शिरोधरा कन्धरा यस्य स तमधोमुखमवाङ्मुखममुञ्चचिक्षिपत् । अहमपि तस्य पितुश्चरणा- न्तरे कमणमध्ये निवेशिता स्थापिता शिरोधरा ग्रीवा येन सः १ निभृतमत्यर्थमक उत्रा निलीनो लगः । यथा पितुर्दहाद्भिन्नतया नोपलभ्यते तथा स्थित इत्यर्थः । तेनैव जनक व सहापतम् । अधः संयोगफलिका क्रियामकरवम् । 'पल पतने' इत्यस्य लुङि रूपम् । अवेति । अवशिष्टमुर्वरितं यत्पुण्यं श्रेयरतस्य भावस्त- त्ता तया । पचनेति । पवनः समीरणस्तस्य वश्यस्तदायत्तता तेन पुषितस्य पिण्डितस्य महतो महीयसः शुष्कपत्रराशेः शुष्काणि वानानि यानि पर्णानि पत्राणि तेषां राशिः समुदायस्तस्योपरि पतितं खस्तमात्मानं खमपश्यमद्राक्षम् । येनेति । येन पुण्येन शुष्कपत्रराश्युपरिपातेन वा मे समाजानि नाशीयन्त न विगलितानि नाकातोमवार को निशाना
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति