कादम्बरी। रुणं येन मया जीव्यते, उपकृतमपि नापेक्ष्यते,खलं हि खलु मे हृदयम् । मैया हि लोकान्तर- गतायामम्बायां नियम्य शोकवेगमा प्रसव दिवसात्परिणतवयसापि संता तैस्तैरुपायैः संव- धनक्लेशमतिमहान्तमपि स्नेहवशादगणयता यत्तातेन परिपालितस्तत्सर्वमेकपदे विस्मृतम् । अतिकृपणाः खल्वमी प्राणाः, यदुपकारिणमपि ततिं वापि गच्छन्तमद्यापि नानुगच्छन्ति... सर्वथा न कंचिन्ने खलीकरोति जीविततृष्णा, यदीगवस्थमपि माँमयमायसियति जला- भिलापः । मन्ये चागणितपितृमरणशोकस्य निर्णतैब केवलमियं मम सलिलपानबुद्धिः । अद्यापि दूर एव सरस्तीरम् । तथा हि । जलदेवतानूपुरैरवानुकारि दूरेऽद्यापि कलहंस- विरुतमेतत् । अस्फुटानि श्रूयन्ते सारसरसितानि । विप्रेकर्षादाशामुखबिसर्पणविरलः संच- रति नलिनीखण्डपरिमलः । दिवसस्येयं कैप्टा दशा वर्तते । तथा हि । रविरम्बरतलमध्य- वर्ती स्फुरन्तमातपमनवरतमनलधूलिनिकरमिव विकिरति करैः अधिकामुपजनयति तेषाम् । पितृमरणशोकस्तेन दारुणं भीषणं यथा स्यात्तथा मया जीव्यते तेन वहुकालमुपकृतं तदपि नापेक्ष्यते । तस्या- प्यपेक्षा न क्रियत इति भावः । खल्विति । खलु निश्चयेन । मे मम हृदयं चित्तं खलु पिशुनम्। उपकारान- भिज्ञलादिति भावः । मयेति । हि निश्चितम् । मया तत्पूर्वोक्तं सर्वमखिलमेकपद एकदैव विस्मृतमित्यन्वयः । तकिमित्यत आह-लोकान्तरेति । लोकान्तरगतायां परलोकप्राप्तायामम्बायां जनन्यां शोकवेगं शोचनप्र. वाहं नियम्य निरुध्य प्रसवदिवसान्मजन्म दिनादारभ्य परिणतं वयो यस्यैवंभूतेनापि सता तैस्तैरुपायैः क्षुधानिद्रापिपासोपशमार्थप्रतीकारैः । संवर्धनक्लेशमिति । नवशात्पुत्रप्रातिमाहात्म्यात् अतिमहान्तमपि अलायतमपि मत्संवर्धनक्लेशमगणयता क्लेशेगु तद्गणनामकुर्वता । यदिति हेखर्थे । तातेन पित्रा परि सामस्खेन पालितो वृद्धि प्रापितः । खलु निश्चयेन । अमी में प्राणा अतिकृपणा अतिशयेन जीवितलोलुपा अतितुच्छाः । यदिति हेती । उपकारिणम युपकृतिविधायकमपि तातं पितरं काय निर्दिष्टस्थले गच्छन्तं प्रजन्तमद्यापि सां- प्रतमपि नानुगच्छन्ति नानु ब्रजन्ति । सर्वथा जीविततृष्णा न कंचिन्न खलीकरोति । द्वौ नौ प्रकृतमर्थ सूचयत इति । सर्वमेव खलीकरोनीत्यर्थः । यदीद गवस्थमपि शोकाकुलमपि मामयं जलाभिलापः पानीयन. हणाध्यवसाय आयासयति ग्वेदं जनयति । न पुनरथे । अहं मन्ये जाने । इयं मम रालिलपानबुद्धिजलपा- नधीः केवलं निघृणतैवाननुकम्पिनेव । कीदृशस्य मम । अगणितति । अगणितो न गणनविषयीकृत: पितृमरणशोको येन स तथा तस्य । अद्यापीयतागतेनापि सरस्तीरं कासारतटं दर एवं । तदेव दर्शयति- तथा हीति । जलेति । जलदेवतानां जलाधिष्ठात्रीणां नृपुराणां पादकट कानां यो रवः शब्दस्तदनुकारि तत्सादृश्यभाज्यद्यापि कलहंसविरुतं कादम्बकृजिनमेनहरे। तथा सारगारमितानि लक्ष्मणजितान्यस्फुटान्यव्य- तानि श्रूयन्त आकर्ण्यन्ते । विप्रकर्षादिति। विप्रकपीरादाशामुग्वेषु दिग्वदनेगु बिसर्पणं प्रसरणं तेन विरलो न्यूनो नलिनीखण्डपरिमलः कमलवनामोदाः संचरति इतस्ततः प्रगरति कदाचिद्दारुणघाभावे मार्गसौ- लभ्याट्टरेऽपि गन्तुं शक्यत इत्यत आह-दिवसेति । दिवसस्य वासरस्येयं प्रत्यक्षोपलभ्यमाना कष्टा दशा नीतिति न TET
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/७०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति