पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] सप्तदर्श प्रकरणम् । अनुतिष्ठेत् समारब्धमनारब्धं प्रयोजयेत् । अनुतिष्ठश्च संवृत्त्ये विशेषेणोपपादयेत् ॥ ३७ ॥ प्रचारयेन्मन्त्रविदः कार्यद्वारेषु नैकधा । १७१ यत्र तच्चेतसां साम्यं तेषु साधु समुत्पतेत् ॥ ३८ ॥ यत्र मन्त्रिमनस्साम्यं यत्र चेतो न शङ्कते । यत्र सन्तो न निन्दन्ति तत् परयाच्चिकीर्षितम् ॥ ३९ ॥ धृतेऽपि मन्त्रे मन्त्रज्ञैः स्वयं भूयो विचारयेत् । तथा वर्त्तेत मन्त्रज्ञो यथा स्वार्थ न पीडयेत् ॥ ४० ॥ मन्त्रिणः स्वार्थतात्पर्याद दीर्घमिच्छन्ति विग्रहम् । तेषां च भोग्यतामेति दीर्घकार्याकुलो नृपः ॥ ४१ ॥ मन्त्रव्यापारं दर्शयितुमाह -- अनुतिष्ठेत् समापयेत् । प्रयोजयेद् आरम्भयेत् । संवृत्येति इदमनेन विशिष्टं भवतीति कुशलैः सं (पा ? वा द्य ॥ ३७ मन्त्रोत्पत्तिक्रममाह --- प्रचारयेन्मन्त्रविद इति । इदं कार्यमुपस्थितं, तत्र किमाहुर्भवन्त इति कार्योंपायेषु प्रवर्तयेत् । मन्त्रशुद्धिमाह -- यत्रेति मन्त्रे । तच्चेतसां साम्यं मन्त्रिणामेकाभिप्रायता । तेषु समुत्पतेत् तेषु कार्येषु प्रवर्तेत ॥ ३८ यथा मतिसाम्यं शुद्धिप्रवृत्त्योर्निबन्धनं (तथा) शङ्कानिन्दा (भ्युपगमा ! भ्याम)शुद्धिर्निवृत्तिश्चेत्याह ---- यत्रेत्यादि । चिकीर्षितमिति कार्यद्वारेण मन्त्र बुद्धिरुक्ता ।। ३९ ।। इदमपरं शुद्धिकारणं, यत् स्वयमेव पुनर्विमर्शनमित्याह -- धृतेऽपीत्यादि । इदमेव कर्तव्यमित्यवधारितेऽपि तथा वर्तेत, यथा स्वार्थ न पीडयेदिति । इदमुक्त भवति --- नहि मन्त्रिमतेनैव तज्ज्ञो वर्तेत, स्वार्थतात्पर्या (प्य ? ह्य) न्य- थाप्युपदिशेयुरिति ॥ ४० ॥ यदाह ---- मन्त्रिण इत्यादि । दीर्घकार्याकुलः दीर्घविग्रहादिकार्यव्याकुलः ॥ ४१ ॥ १. 'त्या' ख ग. पाठः. ४. 'तू तु स' ख. ग. पाठः, २. 'ध्वनेकशः' क पाठ:. ३. 'तत्र सा' मूलकोशपाठः. ५. 'नीतिज्ञः' क. पाठः. ६. 'तू पुनः स्व' क. ख. पाठः,