________________
२६२ कामन्दकीय नीतिसारे [अष्टादश: दारुणं विग्रहं विद्वान् दानेन प्रशमं नयेत् । इन्द्रोऽपचारे शुक्रस्य दानेन शममेयिवान् ॥ २१ ॥ अपराधेन दुहितुः कुपिते भृगुनन्दने । वृषपर्वा च दानेन दानवेन्द्रोऽभवत् सुखी ॥ २२ ॥ उपच्छन्द्यापि दातव्यं बलिने शान्तिमिच्छता । समूलमेव गान्धारिरप्रयच्छन् गतः क्षयम् ॥ २३ ॥ किञ्चित् प्रयच्छन् भूयस्या तृष्णयाँ विप्रलोभयन् । भिन्द्याच्चतुर्विधान् भेद्यान् प्रविश्योभयवेतनैः ॥ २४ ॥ - श्लोकत्रयेण दानप्रयोगमाह दारुणमित्यादि । यदा साम्ना न सिद्धिस्तदा दारुणो विग्रहो भवति । इन्द्रोऽपचार इति । दानवानामिन्द्रो वृषपर्वा नामासुरो दुहित्रा कृतेऽपचारे शुक्रस्य दानेन स्वदुहितुः शममेयिवान् ॥ २१ ॥ तदेव स्फुटयन्नाह - अपराधेनेत्यादि । वृषपर्वणो दानवेन्द्रस्य दुहिता शर्मिष्ठा नाम तन्मन्त्रिणः शुक्रस्य दुहित्रा देवयान्या सह स्नातुं गता । तत्र स्नाता देवयानी विसंवादानुबद्धवस्त्रया शर्मिष्ठया परुषमभिहिता सञ्जातखेदा च पित्रे न्यवेदयत् । शुक्रोऽपि तच्छ्रुत्वा सञ्जातामर्षस्तद्राष्ट्रादन्यत्र गच्छन्नसुरैः प्रसाद्यमानस्तानाह ‘यद्यस्मद्दुहित्रे वृषपर्वा शर्मिष्ठां दासीत्वेन प्रयच्छति, तदा प्रतिनिवृत्तोऽहमिति । ततोऽसौ दुहितुः प्रदानेनाभवत् सुखीति ॥ २२ ॥ उपच्छन्द्य बलेनानिच्छतेऽपि । गान्धारिः दुर्योधनः । स हि वनवासाज्ञातवासौ यथासमयमुषित्वा स्वमंशं याचमानेभ्योऽपि पाण्डवेभ्योऽप्रयच्छन् समूलमेव ननाश ॥ २३ ॥ अष्टादशभिः श्लोकैर्भेदप्रयोगमाह - किञ्चिदित्यादि । प्रयच्छन् तदात्वे । तृष्णया आगामिन्या । भेदसौकर्यार्थमत्र मात्रया दानप्रयोगः । चतुShardashah (सम्भाषणम्) ०८:०९, २२ नवेम्बर् २०२२ (UTC)विधान् भेद्यान् क्रुद्धलुब्धभीतमानिनः कृत्यान् । प्रविश्योभयवेतनैः द्वारभूतैः ||२४|| १. 'क्रुद्धे च भृ' क. पाठः. २. 'एव' क. पाठः. ३. 'यातिप्र' ख. ग. पाठः. ४. 'त्वा जा' ग. घ. पाठः. ५. 'नयो' ग. घ. पाठः.