________________ [अष्टादशः २७२ कामन्दकीय नीतिसारे अन्याये व्यसने युद्धे प्रवृत्तस्यानिवारणम् । इत्युपेक्षार्थकुशलैरुपेक्षा त्रिविधा स्मृता ॥ ५७ ॥ अकार्ये सज्जमानस्तु विषयान्धीकृतेक्षणः । कीचकस्तु विराटेन हन्यतामित्युपेक्षितः ॥ ५८ ॥
संरब्धो भीमसेनेन स्वार्थविच्छेदभीतया । हिडिम्बया निजो भ्राता हन्यतामित्युपेक्षितः ॥ ५९ ॥ मेघान्धकारवृष्ट्यग्निपर्वताद्भुतदर्शनम् । दूरस्थानां च सैन्यानां दर्शनं ध्वजमालिनाम् ॥ ६० ॥ प्रतिपद्य शत्रुं च विजित्य सुखी भविष्यसीति । ततः स दिव्यमायया प्रच्छन्नरूपः ऋतुपर्णस्य राज्ञो गृहे सूदकर्मणा वसन् दमयन्त्या परिज्ञातः स्वयंवरव्याजात् सहर्तुपर्णेन विदर्भपुरमानीयमानो मध्येमार्ग कलिना विमुक्तस्तया समेतस्तत्पित्रा विदर्भराजेन सह दमयन्त्या स्वमेव राज्यं प्रापितस्तत्रैव सुखं न्यवसदिति ॥ ५६ ॥ अन्याये अदण्ड्यदण्डनादौ । व्यसने मृगयादौ । युद्धे ज्यायसा सह ॥ 'कीचको विराटेनेति । स हि शौर्याद् राजवाल्लभ्यादन्याये व्यसने च प्रवृत्तो भीमसेनेन हन्यतामिति मत्स्यराजेनोपेक्षित: । तथा च महाभारते श्लोक : इति ॥ ५८ ॥ 'शौर्यादिवल्लभो राज्ञो महासत्त्वश्च कीचकः । आसीत् प्रहर्ता च नृणां नामशेषैः सुदुर्मतिः " ॥ स्वार्थविच्छेदभीतयेति । हिडिम्बस्य रक्षसो वनमुपगतेषु पाण्डवेषु तद्भगिनी हिडिम्बा भीमसेनं दृष्ट्वा दोलाव्यतिकरात् Shardashah (सम्भाषणम्) ११:१६, २२ नवेम्बर् २०२२ (UTC)सञ्जातरागा स्वयं पाणिमग्राहयत् । तद्भ्राता च क्रुद्धो युयुत्सुर्भीमसेनेन हन्यतामित्यनयोपेक्षितो मा भूदनेन संप्रयोगविच्छेदो ममेति ॥ ५९ ॥ पाठ: सैन्यानां हस्त्यश्वरथपदातीनाम् ॥ ६० ॥ १. 'तु' क, पाठ, २. 'क्षास्त्रि' क. पाठः ३. 'म' क. पाठः. ४. 'पश्च दुर्म' ग.घ.