________________ २७७ सर्गः ] अष्टाविंशे प्रकरणम् । प्रकृत्याधार्मिका लुब्धा अनार्याः सत्यभेदिनः । तस्मादारण्यकतया तेभ्यः शत्रुबलं गुरु ॥ ८ ॥ उभयं तद् विलोपार्थं कालापेक्षं व्यवस्थितम् । विलोपेऽव्यसने चैव तत्रास्य विजयो ध्रुवः ॥ ९ ॥ उपजापकृतात् तु स्याद् भयमस्माद् विशेषतः । परस्य चाप्युपजपेदुपजापाद् ध्रुवो जयः ॥ १० ॥ स्फीतसारानुरक्तेन मौलेनोपचितः परः । तत्तुल्येनैव यातव्यः क्षयव्ययसहिष्णुना ॥ ११ ॥ प्रकृष्टेऽध्वनि काले वा गच्छेन्मौलैः सुमानितैः । मौलास्तु दीर्घकालत्वात् क्षयव्ययसहिष्णवः ॥ १२ ॥
लुब्धाः आटविकाः । अनार्याः स्वयमार्याः न भवन्ति, आर्याधिष्ठिता अपि न भवन्ति । आरण्यकतयेति । यस्मादाटविकानामेते दोषास्तस्मात् तेभ्यः शत्रुबलं गुरु तद्विपरीतत्वात् ॥ ८ ॥ उभयमितेि अमित्रबलमाटविकबलं च । तदपरराष्ट्रं विलोपयिष्यामीति कालापेक्षया विलोपार्थं स्थितम् । तत्र विलोपे अव्यसने वा अस्य विजिगीषोः शत्रोर्जयो ध्रुवः । अन्यथा ह्यविलोपे व्यसने च ताभ्यामरिभयं स्यात्, परोपजापShardashah (सम्भाषणम्) ११:३२, २२ नवेम्बर् २०२२ (UTC)भयं च ॥ ९ ॥ तदाह - उपजापकृतादिति । परस्य चाप्युपजपेदिति तदुभयमपि ॥ १० ॥ उपादानकालतो बलाबलं त्रयोदशभिः श्लोकैराह -- स्फीतेत्यादि । यदा प्रभूतसारानुरक्तमौलबलः प्रतियोद्धा, तदा तत्तुल्येनैव मौलबलेन यातव्यः । क्षय- व्ययसहिष्णुनेति । यदा व्यायामेन योद्धव्यं, न मन्त्रेण, तदा क्षयसहिष्णुत्वाद् मौलमेव कर्मण्यम् ॥ ११ ॥ प्रकृष्टेऽध्वनि दूरे यातव्ये । काले दीर्घे प्रेषयितव्ये । गच्छन्मौलैः, क्षयव्य- 1 १. 'क्षाव्य' क. पाठ:. २. 'ने वास्यत' ख. पाठः.