पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] प्रथम प्रकरणम् । पौलस्त्यो राक्षसो मानान्मदाद दम्भोद्भवो नृपः ।

प्रयाता निधनं ह्येते शत्रुषड्वर्गमाश्रिताः ॥ ५९ ॥
शत्रुषड्वर्गमुत्सृज्य जामदग्न्यो जितेन्द्रियः । 
अम्बरीषश्च नाभागो बुभुजाते चिरं महीम् ॥ ६० ॥

( इतीन्द्रियजयो नाम प्रथमं प्रकरणम् ) २१ दबलां चकमे । ततो राजा श्रुत्वा ऋत्विक्षु शङ्कमानः क्रोधाद् वाग्भिः कशाभिश्चात्यर्थं विचक्राम । ततः ऋत्विग्भिर्योऽस्मामसु शुद्धभावेषु विक्रान्तः स नश्यत्विति शप्तस्य राज्ञो मूर्धा व्यशीर्यत । लोभादैल इति । ऐलः पुरूरवाः । स किल नैमिशारण्यवासिभिर्यज्ञसंरक्षणार्थमुपनिमन्त्रितः सर्वानेव सौवर्णान् भाजनविशेषान् दृष्ट्वा लोभादाहर्त्तुमारब्धः । ततस्तैरस्य यज्ञक्रियाविरोधोद्विग्नैर्वज्रगर्भैः कुशैरभिहतो ननाश । वातापिर्हर्षतोऽसुर इति । सोऽतिक्रीडापरो मायया भ्रातरमिल्वलं छागीकृत्य तन्मांसेन मुनीन् भोजयित्वा 'आगच्छेल्वल!' इति त्रिः प्लुतेन स्वरेणाजुहाव । असावपि तेषां कुक्षिं विदार्य निरक्रामत् । अथ कदाचित् तच्छ्रुत्वा समागतायागस्त्यमहर्षये तथैवोपहृत्यैनमाह्वयत् । ततश्चिरजीर्णोऽसाविति मुनेरुपलभ्य तद्विदारणाय सूक्ष्मीभूय प्रविष्टोऽजीर्यत ॥ ५८ ॥ पौलस्त्यो राक्षसो मानादिति । पौलस्त्यो रावणः । स हि रामवानराणां स्वरदूषणादिवधसागरबन्धादिना महान्तं पराक्रमं बुद्धापि मानात् सीतां सुवेल- प्राप्ताय रामायाप्रयच्छन् ननाशेत्यतिप्रतीतमेतत् । मदाद् दम्भोद्भवो नृप इति । स किल शौर्यावलेपाद योद्धुं किञ्चिदनासादयन्नधिक प्रभावो बदरिकाश्रमे तपस्यन्तौ नरनारायणौ नारदादुपश्रुत्य गत्वा तावभिभवन् नरेणैषीकास्त्रैश्छादितः सबलो विननाश ॥ ५९ ॥ ( इतीन्द्रियजयो नाम प्रथमं प्रकरणम् )