पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्विता । ९३ चन्ने । आवश्यकतेजोऽभावेनैवोपपत्तौ द्रव्यान्तरकल्पनाया अन्याय्यत्वात् । रूपवत्ता- प्रभा. व्यभिचारित्वेन निरुक्तसाध्यसाधकत्वासंभवादिति भावः । आवश्यकतेजोऽभावेनैवेति ॥ महाप्रभा- त्वावच्छिन्न प्रतियोगितामाभावेनैवेत्यर्थः । तमसोऽभाव एव तेजः किन्न स्यादित्याशङ्का वारयितुं तेजस्या- वश्यकत्वविशेषणम् । तेने।णस्पर्शान्यथानुपपत्त्या तेजसः भावरूपत्वमावश्यकर्मिति लभ्यते । उपपत्तावि- ति ॥ इदं तम इति प्रत्यक्षनिर्वाह इत्यर्थः । द्रव्यान्तरेति ॥ कृतद्रव्यातिरिक्तद्रव्यस्य कालसंवन्धिताया इत्यर्थः । अन्याय्यत्वादिति ।।अप्रामाणिकत्वादित्यर्थः । तथाच मानाधीना मेयसिद्धिर्मानसिद्धिश्च लक्षणा दिति नियमेन इदं तम इति प्रत्यक्षमेव तमसि प्रमाणं वाच्यं क्ल्टप्तनिरुक्ताभावस्य तादृशप्रत्यक्षविषयत्वे बा. धकाभावात् नेदं द्रव्यान्तरसाधकामेति तदलीकमेवेति भावः । ननु कथं तर्हि नीलं तम इति प्रतीतिः अत आह । रूपवत्तेति ॥ तुरवधारणे । भ्रमरूरत्वादिति योजना । भ्रमरूपैवेत्यर्थः । तथाच नीलनम- मञ्जूषा. ग्र्या तमश्चाक्षुषजननेन आलोकसंयोगादेविशेषसानीत्वासंभवादिति चेन्न । अभावचाक्षुषनिष्ठकार्यता- वच्छेदककोटावालोकाभावभिन्नत्वं निवेशयतस्तवाप्येतद्दोषस्याविशिष्टतयाऽऽलोकाभाव चाक्षुषं प्रत्यालोकाभाव- स्य तादात्म्येनालोकाभाववृत्तिचक्षुस्संयुक्त विशेषणताया वा कारणतान्तरं परिकल्प्य सामान्यसामग्या द्रव्याधिकरणकाभावचाक्षुषरूपफले जननाये आलोकसंघोगालो काभावान्यतरस्यालोकसंयोगावच्छिन्नचक्षु- संयुक्त विशेषणतालोकाभाववृत्तिचक्षुस्संयुक्तविशेषणतान्यतरस्य वा विशेषसामग्रीत्वस्वीकारणोक्तदोषस्य चा- रणीयतया तमापदेनवालोकाभावं व्यवहरतामस्माकमप्युक्तदोपवारणसंभवात् । तमोऽतिरिक्तत्ववादिनस्तु आलोकसंयोगाद्यभावदशायां सामान्यसामग्रीवलाद्धटादिचाक्षुषं दुर्वा रामति दूषणमवाशिष्यत इत्यत आह । तत्प्रत्यक्षे चेति । तमःप्रत्यक्ष चेत्यर्थः । आलोकनिरपेक्षमिति ! आलोकसंयोगासह कृतमित्यर्थः । चक्षुरिति । चक्षुस्संयोगाविघटित सामान्य सामप्रीत्यर्थः । कारणमिति ॥ उत्पादप्रयोजकमित्यर्थः । अय- माशयः । तमोभिन्नद्रव्यचाक्षुषं प्रति आलोकसंयोगस्य समवायेन तमश्चाक्षुषं प्रति च तादात्म्येन तमसः का- रणत्वं कल्पयित्वा चक्षुस्संयोगोद्भूतरूपादिघाटितसामान्यसामग्या फले जननीये आलोकसंयोगतमोऽन्यतरस्य दिनकरीयम्. क्षेचेत्यर्थः । तमोभिन्नद्रव्यचाक्षुषत्वावच्छिन्नं प्रत्येव संयोगसम्बन्धेनालोकत्वेन कारणत्वावधारणादिति भावः । आवश्यकतेजोऽभावेनेति ॥ प्रकृष्टमहत्त्वोद्भूतानभिभूतरूपवत्तेजस्त्वावच्छिन्नाभावेनेत्यर्थः । अन्धकाराभाष एव तेजः किन्न स्यादिति तु न सम्यक् , उष्णस्पर्शभास्वररूपबुद्धेरनुपपत्तेरिति सूचनायावश्यकपदम् । उपपत्तौ तमोव्यवहारोपपत्तौ । ननु तमसस्तेजोऽभावत्वे रूपवत्ताप्रतीतिः कथं अभावे रूपाभावादित्यत आह । रूपव. रामरुद्रीयम्. उत्त तद्विशेषाभावः नाद्यः गाढतरतमस्यपि तमःप्रतीत्यनुपपत्तेः सर्वदेव सर्वत्र तेज परमाणूनां सत्त्वात् न द्वितीयः सौरालोकसत्त्वेऽपि यत्किञ्चित्तेजोऽभावसत्त्वेन तमःप्रतीत्यापत्तेरित्यतो यादृशतेजोऽभावस्य तमशब्दा- थता तादृशं तेजोऽभावं दर्शयति । प्रकृप्टेति ॥ तेजस्यणुकसत्त्वेऽपि तमःप्रतीतेरनुभवसिद्धत्वात् महत्त्वे प्रकृष्टत्वविशेषणं चक्षुरादितेजस्सत्त्वेऽपि तमःप्रतीतेः उद्भूतत्वनिवेशः हिरण्यादितेजःसत्त्वेऽपि तमःप्रतीतेः अनभिभूतत्वस्यापि निवेशः तथा चैतादृशविशेषणविशिष्टतेजस्सामान्याभावस्य तमश्शब्दार्थतया नोक्ताप. त्तिरिति भावः । ननु तेजोऽभावे आवश्यकलं अवश्यक्लप्तत्वं तच्च घटो नास्तीत्यादिप्रतीत्या यथा घटाभावा- दिरवश्यं क्लप्तः तथा तेजो नास्तीति प्रतीत्या तेजोऽभावोऽपीत्युपपदनीयं तच्च न सम्भवति तेजोरूपद्रव्ये मां- नाभावात् तमोरूपद्रव्याभाव एव तेज़स्त्वप्रतीतेरुपगमसंभवादित्याशङ्कामपनेतुं तेजोरूपद्रव्यस्यावश्यकतां प्रद. र्शयति । अन्धकारभाव एवात । आवश्यकपदमिति ॥ तथाच तमोऽभाव एव तेजः किं न स्थान