पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रतीतिस्तु भ्रमरूपा । कर्मवत्ताप्रतीतिरप्यालोकापसरणोपाधिकी भ्रान्तिरेव । तमसो- प्रभा. इतिवत् नालं तम इति प्रतीते. भ्रमत्वे वाधकाभाव इति भावः । ननु नभसि कस्यचित् पदार्थस्य चाक्षुषाभा. वोपाधिकनीलन्नभ इतिवत् अन्धकारे ऽपि कस्यचित्पदार्थस्य चाक्षुपाभावोपाधिकतया नीलं तम इति प्रतीते- रपि भ्रमत्वमस्तु तमश्चलतीति प्रतीतेनिरुपाधिकतया प्रमात्वमस्त्वित्यत आह । कर्मवत्ताप्रतीतिरपीति॥ अपिशब्दः उक्तप्रतातिसमुच्चायकः । आलोकापसरणेति ॥ आलोकसमवेतापसरणात्मक क्रियाविषयिणी- त्यथः । तथाच स्फटिक जपाकुसुमसंबन्धात् यथा लौहित्य प्रत्ययः तथा प्रतियोगिरूपालोकसंबन्धात् तमसि आलोकसमवेतक्रियाविषयिण। तादृशप्रतीतिरिति भावः । ननु विशिष्टबुद्धित्वलिङ्ग काविशेषणविशेष्यसंबन्ध- विषयकत्वविधेयकानुमिती स्वरूपाणां संसर्गतया विषयत्वसंभवेऽपि तदपहाय अनुमितिविषयताया अतिरिक्तसमवायो यथा अङ्गीकृतः तथा इदं तम इति प्रत्यक्षेऽपि उक्ताभावस्य विषयत्वसंभवेऽपि तमपहा- य तादृशप्रत्यक्षविषयतयातिरिक्तद्रव्यत्वं स्वाक्रियेत तत्स्वीकारे उक्तप्रतीत्योः भ्रमत्वाकल्पनलाघवस्यापि संभ- वादत आह । तमस इति ॥ तथाचोक्तानुमिता अनन्तस्वरूपाणां संसर्गतया विषयत्वकल्पने गौरवात् एक- मम्जूपा. विशपसामग्रीत्वं स्वाक्रियते । एवं च नालोकासंयुक्त घटादिचाक्षपापत्तिः । तत्र समवायेनालोकसंयोगस्य तादात्म्येन तमसो वाऽभावात् । तमश्चाक्षयं तु तमोरूपविशेषसामप्रीवलादेवोपपद्यत इति न तत्र चक्षुस्सं- योगादिधटितसामान्यसामय्या आलोकसंयोगसापेक्षत्वमिति । एवञ्चालोकसंयोगस्य स्वातन्त्र्येणैव चाक्षुप. कारणत्वं नतु चक्षुस्संयोगनिकारणतावच्छेदकघटकत्वमिति मताभिप्रायेण स्वारसिकोऽयं प्रन्थः । तन्मत- स्यैव प्रसिद्धत्वात् । आलोकसंयोगस्य चक्षुस्संयोगविशेषणत्वमेवेति वक्ष्यमाणसिद्धान्तपक्षे तु तमोभिन्नद्रव्य- चाक्षयं प्रति आलोकसंयोगावच्छिनचक्षस्संयोगस्य तमश्चाक्षुपं प्रति तमोवृत्तिचक्षुस्संयोगस्य च कारणताद्वयं परिकल्प्य उद्धृतरूपादिघटित सामान्यसामथ्या पले जननाये दर्शितचक्षसंयोगद्वयान्यतरस्य सहकारित्व- मिति रीत्या उपपादनीयम् । एतन्मते चक्षस्संयोगस्य विशेषसामग्रीत्वेन सामान्यसामग्रीत्वाभावात् अथ. दिनकरीयम्. त्तेति ॥ ननु रूपवत्ताप्रतीतान्तित्वेऽपि चलतीति प्रत्ययासद्धकर्मवत्त्वहेनुना द्रव्यत्वं सेत्स्यतीत्यत आह । कर्मवत्ताप्रतीतिरपीति ॥ नहि द्रव्येऽन्योपाधिकी कर्मवत्ताप्रतीतिरिति भावः । ननु प्रतीतान्तित्वं तत्रैव स्वीक्रियते यत्रोत्तरकाले बाधज्ञानं प्रकृते च तमो न चलतीति उत्तर काले बाधज्ञानाभावात्कथं प्रतीते. भ्रान्तित्वभिलतो दूषणान्तरमाह । तमस इति ॥ अवयवादीत्यादिना उत्पत्तिध्वंसपरिग्रहः । यत्वारोपितं रामरुद्रीयम् दित्याशङ्कानिरासाय मूले तेजस एवावश्यकत्वं प्रदर्शित मिति भाव: । यत्रोत्तरकाल इति ॥ इदं रजतमि- ति भ्रमानन्तरं नेदं रजतमिति वाधनिश्चयादेव पूर्वतनप्रतीभ्रंमत्वं कल्प्यते न तूत्तरकाले बाधनिश्चयाभावे अन्यथा घटादिविषयकप्रतीतीनामपि भ्रमत्वकल्पनापत्त्या शून्यवादापत्तेरिति भावः । दूषणान्तर- माहेति ॥ तथाच धूमो यदि वहिव्यभिचारी स्यात्तहि वहिजन्यो न स्यादिति तर्केण व्यभिचारज्ञानप्रतिवन्ध, वत्तमो यदि द्रव्यं स्यात्तक्लृिप्तानन्तावयवसमवेतं स्यादिति तर्केण द्रव्यत्वज्ञान प्रतिबन्धसभ्भवात् क्रि. यादिहेतुनापि तमसो न द्रव्यत्वसिद्धिरिति भावः । न चैवं धूमेन वहयनुमितिरपि न वहियदि पर्वतवृत्तिः स्यात् तीक्लप्तानन्तावयवसमेतः स्यादिति तण वयनुमितिप्रतिबन्धसम्भ- वादिति वाच्यम् । प्रत्यक्षसिद्धमहान सीयवहयारम्भकपरमाणूनां क्लप्तत्वात् । न च वह्नयारम्भकपरमाणूनां क्लप्तत्वेऽपि पर्वतीयवलयारम्भाकाणां तेषामक्लप्तत्वात्त्वदुक्ततावतारः सम्भवतीति वाच्यम् । महानसीय- वह्वयारम्भकपरमा गुभिरेव पर्वतीथवढ्यारम्भसम्भवात् तम परमाणूनां क्वाप्यकुप्तत्वात् । न च तमोऽस- स्यात्