पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळा-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. गयोः निरुक्तलक्षणाकान्तत्वादिति भावः । यदि त्रित्वादिरूपानेकत्वघटितं सामान्यलक्षणं तथाप्यादिपद- ग्राह्यत्रित्वादिष्वतिव्याप्तिर्वाध्या । न चानेकशब्दम्य एकत्वान्यसंख्यावत्परत्वपक्षे नित्यत्वविशेषणेऽपि नित्य- संयोगेऽतिव्याप्तिस्तदवस्थैवेति वाच्यं । नित्यसंयोगे प्रमाणाभावात् । नचात्मा गगनसमवेतसंयोगनिष्टसम- वायसंबन्धावच्छिन्नाधेयत्वनिरूपक्रत्ववान् द्रव्यत्वात् घटवदित्यनुमानेनाकाशात्मनोस्सयोगसिद्धौ तयोनाशा. संभवात् विभागाभावाच्च तत्संयोगस्य नाशकाभावेन नित्यत्वमपि सिध्यतीति वाच्यं विपक्ष- बाधकतर्कविरहेणाप्रयोजकत्वादुत्पन्नविनष्टघटाङ्गीकर्तृमते तन्त्र हेतोयभिचारित्वापत्तेः किंचात्मा आकाशसन- वेतसंयोगनिष्ठसमवायसंबन्धावच्छिन्नाधेयत्वनिरूपकत्वाभाववान् क्रियानधिकरणत्वात् रूपवदिति सत्प्रतिप - क्षसत्त्वात् । नचेदमप्रयोजक संयोगं प्रति साक्षात्परंपरया वा क्रियाया हेतुत्वेन कार्यकारणभावरू- पानुकूलतर्कसत्त्वात् ईदृशानुमाने नाकाशात्मनोस्संयोगाभावसिद्धी कुतस्संयोगस्य नित्यत्वमिति । फेचित्त नित्यसंयोगाङ्गीकारे संयोगत्वस्य नित्यवृत्तितया द्रव्यनिरूपितसंयोगनिष्टकार्यतावच्छेदकत्वासंभवेन जन्यत्व- विशिष्टसंयोगत्वस्य कार्यतावच्छेदकत्वे गौरवात् तुल्ययुक्त्या नित्यविभागसिद्धयापत्तेवेति दूषणमाहुः तदसत् प्रमाणेन नित्यसंयोगसिद्धो कार्यतावच्छेदक कोटी जन्यत्वनिवेशस्यावश्यकत्वात् । अन्यथा प्रम। करणं प्रमाणमिति सूत्रसिद्धन्द्रियनिष्ठप्रत्यक्षप्रमाकरणत्वमीश्वरप्रत्यक्षव्यावृत्तजन्यत्वनिवेशनं विना न नि. वहाति तादशगौरवाभिया ईश्वरप्रत्यक्षस्वीकारानुपपत्तेः । यचात नित्यविभागसिद्धिरिति तदपि न ना- श्यनाशकयोयुगपदेकत्रावस्थानासंभवादिति । अत्र निलत्वं न ध्वंसाप्रतियोगित्वरूपं ध्वंसत्वस्योत्पत्ति. विशिष्टाभाववरूपस्य क्षणभेदेन मिन्नस्य एकरूपाभावेन तद्धठितध्वंसप्रतियोगित्वस्याषि अननुगततया तदवच्छिन्न प्रतियोगिताकामावरूपानुगतनित्यत्वाभावात् ध्वंसप्रतियोगित्वव्यक्त यभावरूपनित्यत्वस्य तु घटनि- छतादृशप्रतियोगित्वव्यक्तयभावमादाय द्वित्वादावतिव्याप्तधापत्तेः । नच ध्वंसप्रतियोगित्वव्यक्तयो या- वत्सः तत्तव्यक्तित्वावच्छिन्न प्रतियोगिताकभेदकूटवत्त्वरूपं तावदन्यतमत्त्वावच्छिन्न प्रतियोगिताकैकमेदवत्त्व। रूपं वा नित्यत्व लक्षणघटकमिति नोक्तदोष इति वाच्यं कूटनिवेशे गौरवात् असर्वज्ञः ज्ञातुमशक्यत्वान मञ्जूषा. रो वा लक्षणस्य प्रयोजनामति । लक्षणप्रयोजनवं लक्षणज्ञानजन्यत्वं । अत्रच पृथिव्याः पृथिचीत्वं व्यावहारिक लक्षणं गन्धवत्वं तु व्यावर्त कलक्षणं तथाहि पृथिवीति व्यवहारे पृथिवा त्वज्ञानं कारण व्यवहारे व्यव- हृर्तव्यतावच्छेदकज्ञानस्य कारणत्वात् व्यावर्तकत्वं तु तस्य न संभवति ५क्षतावच्छेदकहेत्वोरक्येन सिद्धसाधनापत्तेः । गन्धवत्वं तु यावर्त तन पृथिव्यामितरमेदानुभितिजननात नतु व्यावहारि- करवं तस्य सम्भवति व्यवहर्तव्यतावच्छेदकत्वाभावात् एवं चोद्देश्यवाचकपदप्रतिपाद्यतावच्छेदकधर्मः णं व्यावहारिक अन्यद्वयावर्तकमिति निष्कर्षः अयं च गदाधर भट्टाचार्यस्याप्यभिप्रेतः पक्षः । व्यावहारिकत्वेनाभिप्रतस्य दुष्टहेतुलक्षणस्य दुष्टपदप्रतिपाद्यत्वमुपपाय तदुपरि तल्लक्षणस्य तत्पदप्रातपाद्य- स्वाभावमाशङ्कथेतरभेदानुमापकमेवेदं लक्षणमित्यभिधानात् अत्र चेतरभेदानुमापकमेव लक्षणं तस्य व्या- वहारिकत्वं तु कादाचित्कं आस्तां वा मावा न चैवं प्रमेयत्वस्थैव लक्षणत्वानुपपात्तरिष्यत्वात् नचैवं पृथिवी. त्वस्य पृथिवीलक्षणत्वं न स्यात् पक्षतावच्छेदकहेत्वोरक्येन तस्य व्यावर्तकत्वासंभवादिति वाच्य तत्र पृथिवीपदवाच्यत्वस्थैव लक्ष्यतावच्छेदकत्वस्वीकारात् अतएव प्रमाकरणं प्रमाणमित्यादिलक्षणेषु प्रमाणपदवाच्यतादिकमेव लक्ष्यतावच्छेदकत्वेनाभिहितं ग्रन्थकारैः । नच प्रमाणप्रमेयेत्याद्यद्देशवाक्यघट दिनकरीयम्, नवच्छेदकत्वात् । तुल्ययुक्त्या नित्यविभागसिद्धयापत्तेश्च । नन्वाकाशत्वरूपजातावव्याप्तिस्तस्या अनेकसमवे रामरुद्रीयम्. तेनिरवच्छिन्नत्तित्वादिति दूषणमपास्तम् । नित्यविभागेति ॥ कदापि परस्परासंयुक्त परमावोः नित्यवि. .