पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूपा-दिनकरीय-राम रुद्रीयसमन्विता । तथा चोक्तम् । व्यक्तरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः । रूपहानिरसम्बन्धी जातिबाधक- प्रभा. शत्वस्यानेकसमवेतत्वासिद्धेः अनेकसमवेत्तत्वघटित जातित्वासंभवादिति भावः । नन्वाकाशत्वस्य तादृशत्वेऽपि न क्षतिः निस्सामान्यत्वे सति विशेषान्यत्वे सति समवेतत्वरूपजातित्वसंभवादिति चन्न । अनेकव्यक्तिविशे- ध्यककाकारप्रत्ययस्यैव जातिसाधकत्वात् । एकाकारप्रत्ययमानस्य जातिसाधकत्वे परमाणुनिष्टतव्यक्तित्वाना- मपि जातिरूपत्वापत्तेः तेष्वपि निरुक्त जातिलक्षणसत्त्वात् । एवंचाकाशस्थकव्यक्तित्वेनानेकव्यक्तिविशेष्यकै- काकारप्रत्ययानसिद्ध्या प्रमाणाभावेनाकाशत्वस्य जातिरूपत्वासंभवादिति । उक्तार्थे भाष्यकारसम्मतिमाह । तथाचोक्तमिति ॥ द्रव्यकिरणावल्यामुयनाचारिति शेषः । उक्तिप्रकारमाह। व्यक्तेरभेद इत्यादिना ॥ मञ्जूपा. वस्तु व्यावहारिकत्वं न व्यवहर्तव्यतावच्छेदकानिधया व्यवहारप्रयोजकत्वं किंतु लक्ष्यवाचकपदव्यव- हर्तव्यतानुभितिजनकज्ञानविषयत्वं तच्च पृथिवीत्व इव गन्धयत्त्वेऽप्यक्षतं पृथिवीत्वस्य पृथिवीपद- व्यवहर्तव्यतायां अवच्छेदकत्वेन तद्व्याप्यताज्ञानवत् तद्वयाप्यतया गन्धवत्त्वेऽपि पृथिवा पदव्यवहृर्तव्यता- व्याप्यत्वज्ञानसंभवात् एवंच ज्ञेयत्वादरपि लक्षणत्वमक्षतमिति मन्यते एवं सर्वत्रोद्देशवाक्यघटकविधेयपदानि स्वशक्यतावच्छेदकावच्छिन्न गराण्येव नतु ततत्पदवाच्यत्वावच्छिन्नपराणि ततश्च तत्तत्पदशक्यतावच्छेद - धोगामेव विभाजकत्वम् । लक्षण। काला च द्वेवापि संभवति । क्वचित्तत्तत्पदवाच्यत्वावच्छिन्ने कचिदुद्दे. शवाक्य घटकपदशक्यतावच्छेदकावच्छिन्ने च अनुभवसिद्धं चैतत् । तथाहि क्षित्यप्तेज इत्याद्युद्देशवा- क्यश्रवणानन्तरं यथा शितित्वावच्छिन्नस्य कि लक्षणमिति जिज्ञासा स्वारसिकी तथा क्षित्यप्तेजइत्यत्र क्षिति- शब्दनिर्दियस्य कि लक्षणमिति जिज्ञासापि । ततोऽभिधीयमानेषु लक्षणेषु तत्तत्पदशक्यतावच्छेदकधर्मस्य तत्तत्पदवाच्यत्वस्य च यथायोगं लक्ष्यतावच्छेदकत्वसंभवः । यत्रच लक्षणलक्ष्यतावच्छेदकयोरभेदप्रसक्तिः तत्र तत्तत्पदवाच्यत्वमेव लक्ष्यतावच्छेदकं यत्र च भेदस्तलोभयमपि यथाकाम संभवतीत्यपि महादेवो मन्यते । ननु समितऽपि सामान्यधर्मज्ञानं विना विभागो न संभवतीत्यविशिष्टं तत्र द्रव्यं गुण इत्यादि. विभागे का गतिरिति चेत्तत्र प्रथम सूर्यः पदार्थ इति वाक्यमध्याहृत्यैव तदुपरि द्रव्यं गुण इत्यादिविभाग- वाक्यमवतरणनिति मन्महे इत्यास्तां विस्तरः । अनेकेति ॥ किमिदमनकत्वं एकमिनत्वमिति महादेवः युक्त तत् एकं न भवतीति व्युत्पत्त्या तदर्थसिट न पैकत्वस्य केवलान्वयितया तदवच्छिन्नभेदोऽप्रसिद्ध इति वाच्यम् । एकत्वपर्याप्त्यनवच्छेदकाभयत्वायवच्छेदेनेकत्वावच्छिन्न प्रतियोगिताकभेदस्वीकारे बाधका- दिनकरीयम्. शेषः अनुगतधिया जातिकलिकाया अभावादिति भावः । ननु व्यक्त्यभेदस्य जातिबाधकत्वमेवासिद्धं नि:- रामरुद्रीयम्. पटयर्थः । आश्रयनिष्ठभेदप्रतियोमिकाभाव इति समुदायार्थः । न च घटत्वादेरपि जातित्वं न स्यात्तदा. श्रये यत्किचिद्भेदप्रतियोगिकाभावसत्त्वादिति वाच्यम् । भेदपदेन स्वाश्रय प्रतियोगिकभेदस्य विवक्षितत्वात् स्वाश्रयनिष्ठस्वाश्रयप्रतियोगिकभेदसामान्याभावः स्वनिष्ठजातित्वे वाधक इत्यस्य समुदायार्थत्वात् । नव गग- नत्वाययेऽपि स्वस्वैव द्वित्वादिना भेदखत्वाद्गनवादावपि जातित्वबाधो न स्यादिति वाच्यम् । स्वाश्रय- निष्ठप्रतियोगितायाः व्यासज्यवृत्तिधमनिवाच्छन्नत्वेन विशेषणीयत्वादिति भावः । ननु स्वाश्रयनिष्टस्य स्वा- श्रयनिष्टव्यासज्यवत्तिधर्मानवच्छिन्न प्रतियोगिताक्रभेदसामान्याभावस्य स्वस्मिन् जातित्ववाधकत्वे किं मान- मित्याशङ्कायामाह । अनुगतधिय इति ॥ नानाधामधु एकप्रकारकधिय इत्यर्थः । नानाघटाादिव्यक्तिषु एक- धर्मप्रकारकबुद्धयपपत्तये हि घटत्वादिजातिः कल्प्यते एकव्यक्तौ तु तथा प्रत्ययः तद्वयाक्तित्वमादायापि उ. पपद्यत इति तदतिरिक्तजातिकल्पने प्रमाणाभाव इति भावः । आसिद्धमिति । घटत्वं जातिरिति प्रत