पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा. तुल्यव्याक्तिकत्वेन न तस्य जातित्वमिति । एवंच कम्युग्रीवादिमत्त्वं न जातिः स्वभिन्न जातिसमनिय- तत्वात् । यद्यत्वभिन्न जातिसमनियतं तन्न जाति: द्रव्यत्वसमनियतपृथिव्यादिमनोऽन्तान्यतमत्ववदित्यनु- मजूपा. नानाशब्दाना द्वे शक्यतावच्छेदके स्याताम् दण्डादिजन्यतावच्छेदके च द्वे विनिगमनाविरहात् तथाच कम्बुप्रीवादिमत्त्वतावदन्यतमत्वादी जानित्वाभावव्याप्य जात्यन्तरसमनियतत्त्ववत्ताज्ञानात् जातित्वज्ञानं प्र. तिबध्यते धर्मितावच्छेदकधर्मश्च अत्र घटवभिन्नत्वविशिष्टघटत्वसमनियतधर्मत्वं कम्बुप्रीवादिमत्त्वत्वा- दिकं कम्बुप्रीवादिमानित्यादिप्रातिप्रकारतावच्छेदकं वा यदि चान्यतमत्वस्याखण्डे कभेदरूपस्य घटत्व. व्यापकत्वसंभवेऽपि कम्बुप्रीवादिमत्वस्य कम्बुसदृशग्रीवासमवेतत्वरूपस्य प्रत्यकविश्रान्ततया कथं घटत्व- व्यापकत्वं तत्समानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वस्य व्यापकत्वरूपत्वे द्रव्यत्वव्याप्यस्य द्रव्यत्वसमानाधिकरणात्यन्ताभावप्रतियोगितान वच्छेदकसमवेततादिमतः पृथिवीत्वादेरपि द्रव्यत्वादिना तुल्यत्वापत्तिवारणाय स्वानाधिकरणतज्जालधिकरणकमिन्नत्वस्य तत्समानाधिकरणात्यन्ताभावप्रतियोगितान- वच्छेदकतयक्तित्वकत्वस्य वा वाच्यत्वादिति विभाव्यते । तदा तुल्यत्वंन साक्षाजातित्वमहप्रतिबन्धकम् । किंतु जातित्वग्रहप्रतिवन्धकतकोत्थापकतया जातित्ववाधकम् । तथाहि तद्विशिष्टयुद्धि प्रति तदापादककाप- तेः प्रतिबन्धकतया कम्बुनीवादिमत्त्वं यदि घटत्वसमनियत जातिस्स्थातहि घटत्ववत्कम्बुनीवादिमत्त्वस्या- पि घटत्वसमनियतकार्यतावच्छेदकत्वं स्यादिति तर्कः कम्युग्रीवादिमत्त्वं घटत्व रामनियतजातिरिति ज्ञान प्रति प्रतिबन्धकः तादृशतकै च आपाद्यव्याप्यापादकवत्ताज्ञानमुद्रया घटत्वसमानयतत्वविशिष्टजातित्वव. ताग्रहो हेतुः । एवंच घटत्वसमनियतत्वविशिष्ट जातित्वप्रहप्रतिबन्धकीभूतो यो विनिगमनाविरह प्रयुक्त- गौरवसंपादकत यानिटभूतघटत्वसमनियतकार्यतावच्छेदकत्व प्रसञ्जनात्मकतकः तजनकसम्भावनाविषयत्वेन घटत्व समनियतत्वं जातित्ववाधर्क सम्भावना च अप्रामाण्यज्ञानविषयी भूतं ज्ञानं तक प्रति हि अप्रामाण्य- शकास्कन्दितमेवापादकवत्ताज्ञानं कारणं तत्र च जातित्वांश इव घटत्वसमनियत वांशेऽपि यद्यप्रामाण्यशङ्का स्यात्तदा किनः प्रच्छिन्नं न च विपर्ययपर्यवसायिनस्तकस्य घटत्व समनियतत्वाभावांश पर्यवसानसम्भवेऽपि दिनकरीयम्. घातरूपा विशेषस्य जातिमत्त्वे । यदा रूपस्य स्वतोव्यावर्तकत्वस्य हानिः । तत्र जातिस्वीकारे तयैव व्यावर्तक. रामरुद्रीयम्. म्तरनिरासो न स्यादित्यभिप्रायेण जातिबाधकशब्दस्य विशेष जातिमत्त्वबाधकतां सूचयति ।। विशेष- स्य जातिमत्त्व इति ॥ वाधकमिति पूर्वेणान्वयः । एतच्चापाततः एकशब्दस्य एकदा नानार्थक- त्वासम्भवेन विशेषवृत्तीनां जातित्वे इत्यस्येव वक्तुमुचितत्वात् । ननूतं विशेषलक्षणं अन्धकृता नो. कमिति तयाघातस्य विशेषे जातिमत्त्वबाधकत्वं न प्रन्थकृदाभप्रेतं अन्यथा तादशलक्षणाभिधानस्य प्रन्थकर्तुरावश्यकत्वापत्तिः किं तु परमाणूनां परस्परभेदसिद्धयर्थमेव विशेपा कार इति वदतो मूल- कारस्य भेद साधकत्वमेव तल्लक्षणमित्यभिप्रायो लभ्यते स च न सम्भवति घटभेदसाधकपटत्वादाव- तिव्याप्तः अतः स्वतो भेदसाधकत्वं तल्लक्षणमित्यर्थे मूलतात्पर्यमशीकरणीयं तथाच रूपहानिशब्दस्य तादशलक्षणव्याघातपरतैव युक्तेत्यभिप्रायेणाह। यद्वेति ॥ स्वतः स्वेन रूपेण । व्यावर्तकत्वं भेदानुमापकत्वम् । विशेषस्य परमाणो परमाण्वन्तरभेदसाधने तव्यक्तित्वेनैव हेतुता वाच्या, विशेषत्वेन हेतुत्वे परमाण्व. न्तरेऽपि विशेषान्तरसत्त्वेन व्यभिचारित्वापत्तेः, विशेषनिष्टं तब्यक्तित्वं च तादात्म्यसम्बन्धेन सैव व्याक्तिः अन्यस्य दुर्वचत्वात्, तन्मात्रविषयकज्ञानव्यक्तेः तत्त्वे तादृशजन्यज्ञानव्यक्त्यभावदशायां तब्यको तद्य- कित्वं नास्तीति प्रत्ययापत्तेः, तस्याश्चानवस्थाभयेन तन्मात्रविशेष्यकज्ञाने स्वरूपत एक प्रकारत्वमभ्यु- पगम्यते, तथा च विशेषस्य स्वेन रूपेणैव भेदानुमापकता निराबाधव, इदञ्च विशेषत्वस्य जातित्वे न सम्भवतीति, विशेषस्य जातिमत्त्वे भवति तादशलक्षणव्याघात इत्याह । तत्र जातिस्वीकार