पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. मानात् कम्युप्रीवादिमत्त्वस्य जातित्वाभावसिद्धौ तत्र लिङ्गज्ञानविधया तुल्यव्यक्तिकत्वज्ञानस्य हेतुतया एतस्यापि जातित्वज्ञानप्रतिबन्धकज्ञानजनकत्वेन गौणप्रतिबन्धकत्वात् तदभावव्याप्यवत्तानिश्चयत्वेन मुख्य- मञ्जूषा. दर्शिततकस्य कम्बुग्रीवादिमत्त्वं घटत्वसमनियतजातिरिति ज्ञान प्रतिबन्धकत्वसंभवेऽपि कम्बुप्रीवादिमत्त्वं जातिरिति ज्ञानप्रतिबन्धकता न घटत इति वाच्यम् । कम्युप्रीवादि सत्त्वस्य प्रत्येकविश्रान्तत्वाधीनो यो ध. टत्वसमनियतत्वाभावः तस्य जातित्वाभावनिश्चयात् प्राग्दुनिश्चयतया दर्शिततर्कस्य घटत्वसमनियतत्वाभाव इव जातित्वाभावांशेऽपि पर्यवसानसंभवात् एवंचात्र समनियतत्वघटकं व्याप्यत्वं व्यापकत्वं च समवायसं- बन्धावच्छिन्नमेव प्राह्यं तस्य कम्वुग्रीवादिमत्त्वादी बाधेऽपि दर्शितत कमवतारयत्तः पुरुषस्य जातित्वाभाव- निश्चयात्प्राइसम्भावयितुं शक्यत्वात् । अथवा घटत्वं यदि स्वसमनियतजातिकं स्यात्तहि जातिन स्यादिति दिनकरीयम्. त्वं वाच्यं सामान्याश्रयस्य सामान्यरूपेणैव भेदसाधकत्वनियमात् न च सामान्यरूपेण विशेषाणां भेदसा- धकत्वं सम्भवति व्यभिचारात् तादृशनियमानङ्गीकारे परमाणुगतैकत्वानां तत्तद्वयक्तित्वेनैव परमाण्वन्तरभे- दसाधकत्वसम्भवेन विशेषस्य वैयर्यप्रसङ्गादिति तु ज्यायः । असम्बन्धः प्रतियोगितानुयोगितान्यतरस- म्बन्धेन समवायाभावः समवायाभावयोर्जातिमत्त्व इति॥ रामरुद्रीयम्. इत्यादिना ॥ सामान्यरूपेणैवेति । सामान्यावच्छिन्नत्वेनेत्यर्थः । व्यावर्तकत्वं भेदसाधने हेतुत्वम् । न चैवं नियमे सति घटवानितरेभ्यो भिद्यते कम्बुग्रीवादिमत्त्वादित्यनुमितिन स्यादिति वाच्यम् । तादृशनि- यमवादिमते इष्टत्वात् । न चैवमपि महानसीयवह्निसत्त्वावच्छेदेन तदितरभेदसाधने महानसीयवहिरेव हेतुर्वाच्यः महानसीयत्वं च न सामान्यमिति कथमुक्तनियम इति वाच्यम् । तस्य सामान्यत्वाभा- वेऽपि वह्नित्वस्य तथात्वेन व्यावर्तकतायाः सामान्यावच्छिन्नत्वनियमाक्षतेः । अथैवरीत्या तत्ताशिशिष्ट- विशेषत्वेन विशेषस्य हेतुत्वे विशेषत्वस्य जातित्वेऽपि नोक्तनियमक्षतिरिति तथैव स्वीक्रियत इति चेत् न । तस्य तत्तारूपसमानाधिकरणव्याप्यतावच्छेदकधर्मान्तरघटितत्वेन व्याप्यतावच्छेदकत्वासम्भवादिति हृदयम् । ननूक्तनियमे मानाभावः तथा च विशेषस्य जातिमत्त्वे स्वतोव्यावर्तकत्वं न बाधकमित्या- शङ्का निराकरोति । तादृशनियमेति ॥ ज्याय इति ॥ ज्यायस्त्वञ्च मूलकृदभिप्रायानुसारित्वमेव बोध्यम् । प्रतियोगितेति ॥ न चाभावत्वादेः जातिवाङ्गीकारे समवायेनैव तत्सत्त्वमङ्गीकार्यमुक्तलक्ष- णानुसारात् तथा चोक्तान्यतरसम्बन्धेन समवायाभावः अभावादौ नोभयवादिसम्मतः कथं तेन हेतु- नाऽभावादी जातिमत्त्वाभावः सिद्धयतीति वाच्यम् । समवायपदेन जात्यतिरिक्त प्रतियोगिकत्ववि. शिष्टसमवायस्य विवक्षितत्वात् । इत्थं च अनुयोगितासम्बन्धेन तादृशसमवायाभाववति रूपादौ व्य- भिचारवारणाय प्रतियोगित्वनिवेशः गगनादौ व्याभिचारवारणायानुयोगितानिवेशः । केचित्तु समवायपदं जातिप्रतियोगिकसमवायातिरिक्तसमवायपरमित्याहुः । तदसत् । प्रन्थकृता समवायैकत्वस्य व्यवस्थापनी- यतया जातिप्रतियोगिकसमवायेतरसमवायाप्रसिद्धः जातिप्रतियोगिकत्व विशिष्टसमवायस्तु प्रतियोगितया जातावेव तिष्ठति नान्यत्र भूतलवृत्तित्वविशिष्टघटस्य भूतलमाले सत्त्ववदिति नास्मन्मते समवायैक्य- विरोध इति भन्तव्यम् । अथैवमपि जात्यतिरिक्तप्रतियोगिकत्वविशिष्टसमवायस्य प्रतियोगितया अनुयो- गितया चासत्त्वेन जातेातिमत्त्वेऽपि निरुक्तासम्बन्धस्यैव बाधकरवसम्भवादनवस्थायाः जातिबाधक- खेनोक्तियथेति चेत्सत्यम् । जात्यतिरिक्तत्यत्र जातिपदस्यासमवेतवृत्तिजातिपरत्वेन सत्तादौ तस्य जाति- भत्त्वबाधकत्वसम्भवेऽपि रूपत्वादौ तदाधकताया अनवस्थायामेवाभ्युपेयत्वात् । न चासमवेतवृत्तीति व्यर्थ अखण्डाभावघटकतया तत्सार्थक्यात् । वस्तुतस्तु अनुयोगितापदं सत्तावन्निष्टोभयवादिसिद्धं यत्समवाया. नुयोगित्वं तत्परमतत्समवायपदस्य यथाश्रुतार्थकत्वेऽपि न क्षतिरिति ध्येयम् ।।