पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. पृथिवीत्वस्य सांकर्यापत्तिः । स्वसमानाधिकरणत्यविशेषणानुपादाने घटत्वेन पटत्वस्य सांकर्यापत्तिः । स्वाभा. ववद्वृत्तिस्वसमानाधिकरणधर्मकत्वमात्रोक्तो पृथिवीत्वेन घटत्वस्य सांकर्यापत्तिः। अतस्तादृशधर्मकत्वमपहाय तादृशधर्माभाववद्वृत्तित्वमुक्तम् । स्वाभावेत्यत्र तादृशधर्माभावेल्यत्र च प्रतियोगितयोः वैशिष्टयव्यासज्यवृत्ति- धर्मानवच्छिन्नत्वविशेषणं देयम् । तेन विशिष्टाभावादिकमादाय पृथिवीत्वस्य घरत्वेन घटत्वस्य पृथिवीत्वेग न सांकापत्तिः । एवं प्रतियोगित्वे सर्वाधारदाप्रयोजकसंबन्धभिन्न समानाधिकरणसंबन्धावच्छिन्नत्वेन वि, शेषणीये तेन कालिकसंवन्धावच्छिन्न प्रतियोगिताकाभावमादाय व्यधिकरण संबन्धावच्छिन्न प्रतियोगिताका- भावमादाय च द्रव्यत्वस्य पृथित्वेिन पृथिवीत्वस्य द्रव्यत्वेन न सांकापत्तिः । म्वाभाववद्वृत्तित्वं स्वसामा-- नाधिकरण्यघटकवृत्तितायं तादृशधर्माभावचद्भुत्तित्वं च सर्वाधारताप्रयोजकसंबन्धभिन्नसंबन्धावच्छिन्नं प्रा. छम् । नातः कालिकसंबन्धावच्छिन्नवृत्तित्वान्यादाय दोषः । उभयत्र अभाववत्त्वं दैशिकविशेषणतासबन्धन बोध्यम् । नातः कालिकसंवन्धेन तादृशाभाववत्त्वमादाय दोषः । तथाच सर्वाधारताप्रयोजकसंघन्धभिन्नसमा- नाधिकरणसंबन्धावच्छिन्ना वैशिष्टयव्यासज्यवत्तिधर्मा नवच्छिन्ना च या प्रतियोगिता तन्निरूपकाभाव- निष्ठदेशिकविशेषणतासंबन्धावच्छिन्नाधेयतानिरूपकाधिकरणनिरूपित सर्वाधारताप्रयोजकसंबन्धभिन्नसंबन्धाव च्छिन्नवृत्तिताश्रयः तादृशसंबन्धभिन्न संबन्धावच्छिन्नस्वनिष्टाधेयतानिरूपकाधिकरणनिरूपितनिहतसंबन्धाव- च्छिन्नवृत्तिताश्रयश्च यो धर्मः तन्निष्ठतादृश संबन्धभिन्नसमानाधिकरणसंवन्धावच्छिन्ना वैशिष्ट्यव्यासज्य. त्तिधमानवच्छिन्ना च या प्रतियोगिता तन्निरूपकाभावनिष्टदेशिकविशेषणतासंबन्धावच्छिन्नाधेयतानिरूपका. धिकरणनिरूपिततादृशसंबन्धावच्छिन्नवृत्तित्वं स्वनिष्ठसांकर्यमिति न कोऽपिं दोषः । वस्तुतस्तु स्वपदार्थे तादृश- धर्माभावचढुत्तित्वोक्त्या तादृशधर्मे तुल्यवित्तिवेद्यतया स्वसमानाधिकरणाभावप्रतियोगित्वं लभ्यत इति लाघ. वात् त्रयाणां संसर्गत्वमङ्गीकृत्य स्वसमानाधिकरणत्वस्वाभावकद्वृत्तित्वस्वसमानाधिकरणाभावप्रतियोगित्वैतस्त्रि- तयसंबन्धेन किंचिद्धर्मसंबन्धित्वं मूर्तत्वस्य जातित्वपक्षे निरुक्ततत्रितयसंबन्धेन जातिसंवन्धित्वं वा स्वनिष्टसा- यम् । संबन्धत्रयघटकप्रतियोगित्वादीनां तत्तत्संबन्धावच्छिन्नत्वं तत्तद्धर्मानवच्छिन्नत्वं च निरुक्तदोषवारणाय निवेशनीयमित्यत्र न कोऽपि दोष इति प्रतिभाति । ननु तादृशसांकर्यम्य कथं जातिबाधकत्वमिति चेन्न लिङ्गविधयैव तम्य जातिबाधकत्वात्तथाहि भूतत्वं न जातिः निरुक्तत्रितयसंबन्धेन मूर्तत्वजातिमत्त्वात् यद्यत् निरुक्तत्रितयसंवन्धेन मूर्तत्व जातिमत् तन्न जातिः यथा गगनमनस्संयोग इति अनुमानात् भू- तत्वस्य जातिवाभावसिद्धी बाधज्ञानविधया जातित्वज्ञान प्रतिबन्धिका या निरुक्तानुमितिः तजनकल्या. प्यादिज्ञाने निरुक्तसांकर्यस्य विषयत्वात् साक्षात्प्रतिबन्धकज्ञानविषयस्येव प्रतिवन्धकज्ञानजनकज्ञानविष- मञ्जूषा. जातिवाचकान्तरविलोपप्रसङ्गात् । तथाहि कम्बुप्रीवादिमत्त्वगगनत्वयोस्समवेतत्वाभावेन निरुक्तत्रितयसं- बन्धेन जातिविशिष्टान्यत्वमव्याहतं एवं सामान्यादिवृत्तिधर्म सामान्यस्यैव समवेतत्वाभावेन निरुक्तत्रि- तयसंवन्धेन यत्किंचिजातिमत्त्वरूपवाधकात् जातित्वाभावे सिद्धे सामान्यादीनां जातिशुन्यत्वमप्यर्थात् सिद्धामिति अनवस्थित्यादीनामपि जाति बाधकता न स्यादिति तत्र विचारसहम् । तथाहि गगनत्वस्य जतित्वाभावनिर्णयात्प्रागसमवेतत्वं दुग्रहमित्युक्तम् । तथाच गगनत्वे पृथिवीत्वादिभिर्न साङ्कर्य निर्णेतु उत्था पयितुं वा शक्यं तदधिकरणासमवेतत्वविशिष्टसमवेतत्वसंभावनया विशिष्टभेदस्य दुर्ग्रहत्वात् नापि द्रव्यत्व- सत्ताभ्यां तथाकाशवे द्रव्यत्वायधिकरणासमवेतत्वसमवेतत्वयोः परस्परव्यतिरेकनियतत्वेन विशिष्टभेदरूप- प्रथमदळनिर्णयसंभवेऽपि द्वितीयदळनिर्णयासंभवात् उद्भावयत्तः पुरुषस्याकाशत्वं शब्दाश्रयत्वरूपमिति निर्णयदशायां दर्शितसाकर्यस्याकाशत्वे ग्रहीतुं शक्यत्वेऽपि शब्दरूपमाकाशत्वमिति निर्णयदशायां तस्य समवेतत्वनिश्चयेन साङ्कोद्भावनस्य सुतरामशक्यत्वाच्च । एवं कम्बुग्रीवादिमत्त्वेन पटत्वादीनां साय सुप्रहं प्रथमदळानिर्णयान्न पृथिवीत्वादिना द्वितीयदळानिर्णयान्न घटत्वेन द्वितीयतृतीयदळ्योरनिर्णयात् एवं सामान्यत्वादौ न कयाचन जात्या साङ्कयं सुग्रहम् प्रथमदळानिर्णयादिति व्यक्त्यभेदादीनां सर्वेषां