पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा. यस्यापि जातिबाधकपदार्थत्वेन तस्य सांकयें अक्षतत्त्वात् अथवा जातित्वाभावानुमित्तिजनकजातित्वा- भावव्याप्याने रुक्तत्रितयसंबन्धेन मूर्तत्वजातिपरामर्शस्य तदभावव्याप्यवत्तानिश्चयत्वेन जातित्वप्रकारकज्ञानप्र- तिबन्धकत्वान्निरुक्तसार्यस्य तद्विषयत्वेन साक्षाजातित्वज्ञानप्रतिवन्धकज्ञानविषयत्वस्याप्यक्षतत्वादित्यास्तां विस्तरः । अनवस्था तु जातेः जातिमत्त्ये कुमघटत्वादि जातिसमुदायेषु सामान्यमित्यनुगतप्रतीतिवलात् जातिरूपानुगतधर्मस्वीकारे स्वीकृत जातिघटित कृतजातिसमुदायेऽपि सामान्यमित्यनुगतप्रतीतेस्तुल्यत्तया जालन्तरस्वीकारापत्तेः । एवं तादृशजात्यन्तरघटितपूर्वोक्त जातिसमुदायऽपीलनवस्था बोध्या । तथाचानन्त- जातिस्वीकारे अनुमानप्रमाणं दार्शतं तथाहि घटत्वादिजातिसमुदायः जातिमान् अनुगतप्रतीतिविशेष्य- त्वात् घटसमुदायवत् । अत्र यथा घटसमुदायस्यायं घटोऽयं घट इत्याकारकानुगतप्रतीतिविशेष्यत्वेन घटस्व- जातिमत्त्वं तथा घटत्वादिजाति समुदायस्यापादं सामान्यमिदं सामान्य मित्यनुगतप्रतीतिविशेष्यत्वेन तस्यापि जातिमत्त्वप्रसंगः । एवं सिद्धजातिघटित कृप्तजातिसमुदायेऽपि तेनैव हेतुना जात्यन्तरस्वीकारापत्तेरित्या- दिरीत्या अनन्तजातिसिद्धयापत्त्या इष्टापत्तेबक्तमशक्यत्वात् । तथाचानुगतप्रतीतिमात्रं नानुगतधर्मसाधकं कि न्तु असति बाधक इति बाधकामावविशिष्टानुगतप्रतीतिविशेष्यत्वस्यैव जातिसाधकत्वं वाच्यम् । एवंच घट- निष्ठुकाकारानुगतप्रतीतिविशेष्यत्वस्यानन्त जातिसाधकत्वाभावेन तादृशगौरवरूपबाधकामावविशिष्टत्वेन तत्र घटत्वजातिसिद्धावपि घटत्वादिजातिनिष्ठैकाकारानुगतप्रतीतिविशेष्यत्वस्य घटत्वांशे अनन्तजातिसाधकत्व- रूपबाधकसत्त्वेन बाधकामावविशिष्टनिरुक्तविशेष्यत्त्वस्यैव जातिसाधकहेतुतया विशिष्टहेतोरभावात् न तत्रानन्तजातिसिद्धिः । एकघट एवायं घटः इयं पृथिवी इदं द्रव्यमित्यायनुगतप्रतीतिविशेष्यत्वस्यानन्तजा. तिसाधकत्वात् दृष्टान्तासिद्धिः अतः हेतुघटकप्रतीतो एकाकारत्वमपि निवेशितं निरुक्तप्रतीतीनां भिन्नाकारत्वे- न न दोषः । इत्थंच स्वनिष्टैकाकारप्रतीतिविशेष्यत्वज्ञानज्ञाप्यस्वनिष्टानन्त जातिकत्वरूपानवस्थेति पर्यवसानात् तस्या गौरवरूपदोष एव पर्यवसानमिति जातिविधेयकानुमितिकारणविशिष्टलिङ्गज्ञान प्रतिबन्धकज्ञानविषयतया मजूपा. सार्थक्यामिति । अन्येतु वृत्तिताद्वयं प्रतियोगित्वं च सर्वाधारताप्रयोजकसंबन्धभिन्नसंवन्धावच्छिन्नत्वेन सभवायस्वरूपान्यतरसंबन्धावच्छिन्नत्वेन वा विशेषणीयामिति न काप्यनुपपत्तिरित्याहुः । अवेदमाशङ्कयते शब्देतरोद्भूतविशेषगुणानाश्रयस्वे सति ज्ञानकारणमनस्संयोगाश्रयस्वरूपेन्द्रियत्वेनोक्तत्रितयसंयन्धेन पृथि. वीवजातिमत्त्वसंभवः तस्य प्रतिव्यक्तिविश्रान्ततया पृथिवीत्वसामानाधिकरण्यतदभावसामानाधिकरण्य- योरेकनासंभवात् स्वाधिकरणवृत्तितावच्छेदकस्वाभावाधिकरणवृत्तितावच्छेदकस्वसमानाधिकरणप्रतियोगि- तावच्छेदकधर्मवत्त्वसंबन्धेन जातिमत्त्वविवक्षणे अभावीयविशेषणतासंबन्धेन यत्स्वाधिकरणं तनिरूपि. तसमवायसंबन्धावच्छिन्नवृत्तित्वात्मक सामानाधिकरण्यसंबन्धेन नीलान्यत्वादिविशिष्टजातित्वादेरपि ताहा शतया तद्घटितसंबन्धेन घटत्वादिमतः पृथिवीत्वादेरपि जातित्वाभावापत्तेः । अत्राहुः इन्द्रियत्वादेयंदा प्रत्येकविश्रान्तत्वज्ञानं तदा व्यक्त्यभेद एव जातिबाधकः यदा न तज्ज्ञानं तदा सार्य अथवा यदि पृथिवीत्वं स्वसङ्कीर्णजातिकं स्यात् तर्हि जातिन स्यादिति तर्केण पृथिवीत्वे स्वसङ्कीर्णजातिकत्वा- भावे सिद्धे पृथिवीत्वसङ्कीर्णत्वावच्छेदेन वा जातिवाभावे सिद्ध इन्द्रियत्वादौ जातित्वाभावनिर्णयात्प्राक् प्रत्येकविश्रान्तत्वस्य दुर्निश्चयतया सङ्कीर्णत्वाभावनिर्णयासंभवेन जातित्वाभाव एव पर्यवसानं बोध्यम् । इत्थं च जातित्वप्रहविरोधिसंभावनाविषयत्वादस्य जातित्ववाधकत्वं बोध्यम् । उक्तानि त्रीणि जाति- स्वबाधकानि अथ जातिबाधकान्युच्यन्ते अतो व्यवस्थादर्शनायाथशब्दः प्रयुक्तः । अनवस्थितिरनवस्था साच तत्र नैकरूपा प्रकृते जात्यनाश्रयवृत्तिपदार्थविभाजकधर्मशून्यत्वरूपा तज्ज्ञानस्य च तर्क विधया जातिमत्त्वप्र- हप्रतिबन्धकत्वं तथाहि जात्याकारानुगतप्रतीत्या जातीनां यदि जातिमत्त्वं स्वीक्रियते तदा स्वीकृतजाता. वपि जात्याकारानुगतप्रतीतेरविशिष्टतया घटत्वादिजातिषु तत्समवेतजातौ च जात्यन्तरस्वीकारापतिः । एवं तत्रापि तदाकारानुगतप्रतीत्या घटत्वादिजातिषु तत्समवेतजातो तद्वृत्तिजात्यन्तरे चैकजात्यन्तरस्वीकारापत्तिः