पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. तस्य जातिबाधकत्वमवसेयमिति दिक् । रूपहानिः रूपस्य निस्सामान्यत्वघटितलक्षणस्यैव हानिरसंभवः कुत्राप्यवृत्तित्वं वा निस्सामान्यत्वे सति सामान्यान्यत्वे सति समवेतत्वस्य विशेषलक्षणत्वात् । तत्र द्रव्या- दावतिव्याप्ति वारणाय निस्सामान्यत्वे सतीति । सामान्येऽतिच्याप्तिवारणाय सामान्यान्यत्वे सतीति । समवायादावतिव्याप्तिवारणाय विशेष्यदलम् । नन्वत्र निस्सामान्यत्वं न सामान्यत्वावच्छिन्नप्रतियोगि- ताकाभाववत्त्वरूपं सामान्यत्वस्याधेयत्वघटितत्वेन नित्यत्वघटकध्वंसघटितत्वेन च तेषां भिन्नभिन्नत्वेनानु- गतसामान्यत्वाप्रसिद्धथा तवच्छिन्नप्रतियोगिताकाभावनिवेशासंभवात् । नापि सामान्यव्यक्तयो यावत्यः तत्तद्वयक्तित्वावच्छिन्नप्रतियोगिताकाभावकूटवत्त्वं तावदन्यतमत्वावच्छिन्नप्रतियोगिताकैकाभाववत्त्वं वा लक्ष- पघटकमिति तत्तद्रूपस्य तत्तद्वयक्तिघटितत्वेनासर्वज्ञैः ज्ञातुमशक्यतया तद्रूपावच्छिन्नघटितलक्षणस्यापि दुझे. यत्वापत्तिरिति चेन्न समवायसंबन्धावच्छिन्नाधेयतात्रयवत्त्वरूपमधिकरणतात्रयनिरूपितसमवायसंबन्धाव- च्छिन्नाधेयस्वरूपं वानुगतं सामान्यत्वं प्रतियोगितावच्छेद कमिति तद्वच्छिन्नप्रतियोगिताकाभावरूपनि- सामान्यत्वस्य लक्षणघटकतास्वीकारेणोक्तदोषाभावात् । एवं लक्षणघटकसामान्यभिन्नत्वमप्यधिकरणतानि रूपितसमवायसंबन्धावच्छिन्नाधेयत्वावच्छिन्नस्वरूप संबन्धावच्छिन्नावच्छेदकताकप्रतियोगिताकभेदवत्त्वरूपमे- वेत्युक्तदोषाप्रसके । यदिच सामान्यत्वस्योक्तरूपस्य लक्षणघटकत्वेऽपि लाघवात् द्रव्यत्वगुणत्वकर्मत्वान्य. तमाभाववत्त्वरूपं वा सत्ताभाववत्त्वरूपं वा निस्सामान्यत्वं लक्षणघटकामिति विशेष सामान्यस्वीकारेऽपि निरुक्तलक्षणस्य समन्वयसभवात् कथं निरुक्तरूपहानेः जातिवाधकत्वमिति विभाव्यते तदा रूपस्य विशेष- स्वरूपस्य हानिरसिद्धिरित्यर्थकरणात् रूपहानिशब्दस्य विशेषासिद्धयर्थकत्वात् तथाच विशेषे सामान्यस्वी. कारे सामान्याश्रयस्य सामान्यरूपेणैव भेदसाधकत्वनियमात् परमाणुगततत्तदेकत्वादेरिव परमाणुगतविशेष- मञ्जूषा. एवं तत्रापि तथाच जात्यनाश्रयजातिरेव न प्रसिद्धयति तथाच यदि जातिर्जातिमती स्यात्तहि जा. त्यनाश्रयवृत्तिपदार्थविभाजकधर्मवती न स्यादिति तर्केण जाति तिमतीति ज्ञानं प्रतिवध्यत इति रूपहानिरिति ॥ रूपं निस्सामान्यत्वे सति सामान्यभिन्मत्वे सति समवेतत्वरूपं विशेषलक्षणं तस्य हानिरित्यर्थ इति केचित् तन्न तस्यैव विशेषलक्षणत्वं वक्तव्यमिति निर्बन्धाभावात् न ह्यस्मदुक्त- लक्षणानुरोधिनी विषयसिद्धिः किंतु प्रमाणानुरोधिनीति । रूपं स्वरूपं तच्च विशेषाणां विशेषत्वं स. जातीयपरमाणूनां परस्परव्यावर्तकत्वलक्षणं तस्य हानिरभावः तज्ज्ञानस्य विशेषो जातिमानिति ज्ञानं प्रति तर्कविधया प्रतिबन्धकत्वं तथाहि विशेषाणां जातिमत्त्वे सामान्याश्रयाणां सामान्यरूपेणैव भेदसाध. कत्वनियमात् विशेषाणां सामान्यरूपेणैव भेदसाधकत्वे तु विशेषाणां परमाणुषु परस्परभेदसाधकत्वं न संभवति व्यभिचारात् तादृशनियमानङ्गीकारे परमाणुगतैकत्वादीनां तत्तव्यक्तित्वेनैव परमाण्वन्तरभेद- साधकत्वसंभवेन विशेषस्य वैयर्थ्यप्रसङ्गात् । तथाच यदि विशेषो जातिमान् स्यात्तहि परमाणुषु परस्परव्यावर्तको न स्यादिति तर्को बोध्य इति केचित् । अत्र विचार्यते सामान्याश्रयस्य सामा- न्यरूपेणैव भेदसाधकत्वमित्यस्य कोऽर्थ इति किं सामान्याश्रयनिष्ठभेदकत्वं सामान्यरूपेणैवेति किंवा सा- मान्याश्रयस्य अवश्यं सामान्यरूपेण भेदकत्वमिति । अथवा सामान्यरूपेण भेदकत्वं सामान्याश्रय- स्यैवेति आये नित्यज्ञानादीनां ईश्वरलक्षणत्वं जन्यज्ञानादीनां जीवलक्षणत्वं च न स्यात् नित्यत्वज. न्यत्वादिघटितरूपेण तेषां व्यावर्तकतायास्तवासंभवात् । नच सामान्यरूपेणैवेत्यस्य सामान्यघटितरू. पेणैचेत्यर्थः । अतो नित्यत्व विशिष्टज्ञानत्वादिना तेषां व्यावर्तकता युज्यते एतत्त्वविशिष्ठविशेषत्वरूपस्य एतद्विशेषत्वस्य तु परमाण्वन्तरभेदकतावच्छेदकत्वं न संभवति विशेषत्वांशवैयापत्तेरिति वाच्यम् । तथासति नित्यद्रव्याणीतरेभ्यो भिद्यन्ते जात्यतिरिक्तनित्यधर्मवत्त्वादित्यनुमानोच्छेदापत्तेः परमावेक- स्वादीनां तेन रूपेण भेदकतायास्तवासंभवात् व्याप्तिपक्षधर्मताप्रहसत्त्वे तत्रानुमितेर्दुरपलबतया इष्टापत्ते- रयोगात् द्वितीये विशेषाणां परमाणुषु परस्परभेदकताया विशेषत्वेन रूपेणासंभवेऽपि नित्यध्यत्वान" 1