पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. रावच्छिन्नाभावप्रतियोगित्वेन च तादृशव्यवहारानुपपत्तिः । अतः प्रतियोगित्वे वैशिष्ट्यव्यासज्य वृत्तिधर्मा- नवच्छिन्नत्वं समवायसंबन्धावच्छिन्नत्वं च निवेशितमिति प्राचः । तन्न व्यापकत्वादिघटि तत्वेन गौ. रवात् । अन्येतु सकलशब्दम्य व्यापकत्वार्थतया म्वभिन्न जातित्वव्यापकस्वसमानाधिकरणाभावप्रति- योगित्वकत्वमेव सकलजात्यपेक्षयाऽधिकंदशवृत्तित्वमित्याहुः तदापि नोक्तगौरवापत्तेः। अस्मद्गुरुचरणास्तु मञ्जूपा. अथवा परभिन्नत्यपरसामान्य लक्षणमेत्र तत्रच परशब्दस्सत्तात्वेन रूपेण द्रव्यादित्रिकवृत्तित्वेन वा पूर्वो- पस्थितसत्तामाचष्टे सवेत्येवकारश्च कास्यपरः सा सर्वापीत्यर्थः तथाच सत्ताभिन्नत्वं अपरजातिसामान्य. लक्षणं तत्रच घटत्वादिकजातिस्त्वित्यादिना केवलापरजातिरुक्ता द्रव्यत्वादिकजातिस्त्वित्यादिनातु परा- परजातिः नच घटत्वादिजातिमेव अपरत्वेन निरुच्य तद्भिनत्वेन संवासां जातीनां परत्वमुक्त्वा सत्र दिनकरीयम्. तिसिद्धेः । यत्र प्रतियोगितासम्बन्धेन ध्वंसोत्पत्तिस्तत्रैव तादात्म्यसम्बन्धेन सदिति सामानाधिकरण्यप्रत्ला- सत्त्या कार्यकारणभावात् । न च प्रागभावे व्यभिचारः प्रागभावे सत्ताविरहादिति वाच्यम् । प्रागभाववृत्तिप्र- तियोगिताभित्र प्रतियोगितायाः कार्यतावच्छेदकसम्बन्धत्वादिति । वस्तुतस्तु समवायेन सत्तावच्छिन्नं प्रति ता. दात्म्येन द्रव्यत्वेन कारणतया जन्यतावच्छेदकतया सत्ताजातिसिद्धिः । तादृशकार्यकारणभावे मानाभाव इतितु न स्वाश्रयसमवेतत्वसम्बन्धेन नीलादेनीलादावाप सत्त्वात्तत्र नीलोत्पत्तिवारणाय तादृशकार्यकारणभावत्याव- श्यकत्वात् । नच स्वाश्रयसमवेतत्वविशिष्टद्रव्यत्वसम्बन्धेन नीलादेहेतुतयैव न तदापत्तिरिति वाच्यम् । ताह- शसमवेतत्वद्रव्यत्वयाविशेषणविशेध्यभावे विनिगमनाविरहेण कारणताबाहुल्यापत्तेः । कालिकसमवायोभयस. म्बन्धस्य कार्यतावच्छेदकत्तावच्छेदकत्वात्सत्ताया नित्य साधारण्येऽपि न क्षतिरित्यन्यत्र विस्तरः ॥ ८॥९॥ रामरुद्रीयम् . वामपनेतुं तादात्म्येन सतः कारणतां ग्राहयति ॥ यत्रेति ॥ न चैतादशकार्यकारणभावानङ्गीकारे सामान्या. दो ध्वंसापत्तिरेव दूषणं एतादृशकार्यकारणभावस्वीकारेऽपि गगनादौ तदापत्तिरशक्यपरिहारैवेति वाच्यम् । कालिकसमवायोभयसम्बन्धस्यैव कारणतावच्छेदकताघटकत्वादिति भावः । न चैवमपि महाकाले प्रति- योगितया ध्वंसापत्ति: समवायकालिक विशेषणताभ्यां तस्यापि सत्तावत्त्वादिति वाच्यम् । महाकालान्य- स्वेन कालिकाविशेषणतायाः विशेषयित्वादेवमुत्तरत्राप्यनुसन्धेयम् ॥ व्यभिचार इति ॥ प्रतियोगितया प्रागभावे ध्वंसोत्पत्त्येति शेषः । कार्यतावच्छेदकसम्बन्धत्वादिति ॥ प्रागभाववृत्तिप्रतियोगितास- म्बन्धेन ध्वंसं प्रति तु प्रागभावत्वेन हेतुत्वान्तरमेवेति भावः । नन्वेतत्कार्यकारणभावस्य प्रयोजनं प्रा- गभाववृत्तिप्रतियोगितासम्बन्धन प्रागभावाभन्ने ध्वंसापत्तिवारणमेव तथा च तुल्ययुक्त्या घटादिवृत्ति- प्रतियोगितासम्बन्धेन ध्वंसं प्रति घटत्वादिनापि कारणत्वमावश्यकं एवं च कृप्ततत्त्कारणविरहादेव सामा. न्यादौ ध्वंसापत्तिवारणात उक्त कार्यकारणभावो निष्प्रमाणक एवेत्यस्वरसात्कार्यतावच्छेदकतया सत्ता साधय. ति ॥ वस्तुतस्वित्यादिना ॥ विनिगमनाविरहेणेति ॥ नत्र स्वाश्रयसमवेतत्वद्रव्यत्वोभयसम्बन्धेनैव नीलादेः कारणताङ्गीकरणीया नातो विनिगमनाविरहापत्तिरिति वाच्यम् । द्रव्यत्वस्य नीलादिप्रतियोगिकत्वे मानाभावेन तत्संसर्गकत्वासम्भवात् । विशिष्टस्य संसर्गत्वे तु विशेषणविधया प्रविष्टस्याश्रयत्वस्य नीलादि- प्रतियोगिकतया तत्संसर्गत्वसम्भवादिति भावः । ननु सत्तायाः नित्य साधारणत्वेन कथं कार्यतावच्छे- दकत्वसम्भव इत्याशङ्का निराकुरुते ॥ कालिकेति । ननु कालिकसमवाययोरुभयोः कार्यतावच्छेदकता. घटकसम्बन्धत्वे गौरवादु क्तकारणस्य कार्यतावच्छेदकतया जन्यमानसमवेतैच सत्ता सिध्येत् नतु ज- न्यनित्यसाधारणी भवदभिमतसत्तेत्याशङ्कायामाह ।। अन्यत्र विस्तर इति ॥ अयं भावः । गगनादौ सत्तानङ्गीकारे दव्यत्वादिना सार्यापत्त्या सत्ताया जातित्वमेव न स्यात् साङ्कर्यस्यापि जातिबाधकतायाः प्राचीनैरङ्गीकारादिति ॥८॥९॥