पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. या सिद्धस्य जातिरूपत्वे बाधकामाचात् सैव सत्तेत्युच्यत इत्याहुः तदसत् । नाशं प्रति प्रतिनो- गिनः तत्तद्वयाक्तित्वेनैव कारणतायास्सिद्धान्तसिद्धत्वेन ताशसामान्य कार्यकारणभावे मानाभावात् ध्वंसत्व- स्य सकलध्वंससाधारणस्याभुगतस्याभावेन ध्वसत्वेन सत्त्वेन सामान्यकार्यकारणभावासंभवाच्च । नच याव- तो ध्वंसाः तावदन्यतमत्वस्य सकलध्वंससाधारणानुगतधर्मस्य प्रसिद्धया तादृशकार्यकारणभावस्सुवच इति वाच्यं अन्यतमत्वस्य कार्यतावच्छेदकत्वे मानाभावात् । अन्यथा क्रियाशब्दान्यतरत्वावच्छिन्नं प्रति मन- सहकृतपृथिव्यादिपञ्चानां हेतुत्वमादाय षट्स्वपि एकजातिस्वीकारापत्तेः परमाणुषु प्रतियोगितासंवन्धन ध्वंसानुत्पत्त्या कारणतावच्छदकतया सिद्धधर्मस्य तत्साधारण्ये मानाभावाच्च । अन्यथा कृप्तभावत्वस्यैव कारण तावच्छेदकत्वसंभवेनोककार्यकारणभावस्याप्रामाण्यापत्तेः नच तादृशधर्मस्य तदसाधारण्येऽपि द्रव्यत्वादिना सांकर्यात् जातिरूपत्वासंभवभिया नित्यसाधारण्यमावश्यकमिति वाच्यं तस्य जातित्वानजीकारे क्षतिविरहेण नित्यानेकपदार्थवृत्तित्वाकल्पनाच विशेषरूपेण संसर्गत्वानङ्गीकर्तप्राचीनमते केवलप्रतियोगित्वस्यैव संसर्गत्वेन प्रागभावसाधारणरूपस्यैव कारणतावच्छेदकतावश्यकतया सुतरां जातिरूपत्वासंभवाच । केचित्तु वस्तुतस्तु सम. बायेन सत्त्वावच्छिम्नं प्रति तादात्म्येन द्रव्यत्वेन कारणतया तजन्यतावच्छेदकतया सत्ताजातिसिद्धिः ताद. शकार्यकारणभाव मानाभाव इतितु न स्वाश्रयसमवेतत्वसवन्धेन नीलादेनीलादावपि सत्त्वेन तत्र नीलोत्पत्त्या- पत्तिवारणाय तादृशकार्यकारणभावस्यावश्यकत्वात् । नच स्वाश्रयसमवेतत्वविशिष्टद्रव्यत्वसंबन्धेन नीलादे. हेतुतया न तदापत्तिरिति वाच्यं तादृशसमर्वतत्वद्रव्यत्वयोः विशेषणविशेष्यभावे विनिगमनाविरहेण कारण ताबाहुल्यापत्तेः । कालिकसमवायोभयसंबन्धस्य कार्यतावच्छेदकतावच्छेदकत्वात् सत्तायाः नित्यसाधारण्येऽ- पि क्षतिविरहादित्यन्यत्र विस्तर हत्याहुः तदसत् । द्रव्यत्वावच्छिन्नतादात्म्यसंबन्धावच्छिन्नकारणतानिरूपित. समवायसंबन्धावच्छिन्नकार्यतावच्छेदकतया सिद्धस्य तादृशकार्यताशून्यनित्यद्रव्यादिवृत्तित्वे मानाभावः अ. तिप्रसक्तत्वात् । अन्यथा कुप्तभावत्यस्यैव कार्यतावच्छेदकत्वसंभवेन भावत्वावच्छिन्नं प्रति तादात्म्येन द्रव्य- त्वेन कारणत्वमित्यस्यैव वक्तुं शक्यतया निरुक्तकार्यकारणभावे मानाभावेन द्रव्यादित्रिकवृत्तिसत्तायाः कार्य- मञ्जूषा. प्रयोजकत्वमास्तामिति वाच्यं तत्रानायला भेदकूटस्य प्रयोजकत्वेऽपि सामान्यादौ सद्भेदस्यैकस्य प्रयो- जकत्वे लाघवानपायात कार्यतावच्छेदकं च ध्वंसत्वं तच्चाखण्डोपाधिरूपं अनुयोगिताविशेषरूपं जन्याभा- वत्वरूपं वा तत्र प्रथम द्वितीयपक्षयोः प्रागभावे व्यभिचारः घटात्मके घटप्रागभावध्वंसेऽपि ध्वंसा- कारानुगतप्रतीत्या अखण्डोपाधिरूपस्य अनुयोगिताविशेषरूपस्य च ध्वंसत्वस्य सत्त्वादतः प्रागभाववृत्तिप्रतियोगिताभिन्नप्रतियोगितायां कार्यतावच्छेदकसम्बन्धत्वमभ्युपेयं सद्भिन्नत्वविशिष्टध्वंसत्व- मेव वा कार्यतावच्छेदकं न चैवं सद्भेदस्य प्रतियोगितासंबन्धावच्छिन्नध्वंसत्वाच्छिन्नप्रतियोगिताका- भावप्रयोजकत्वासंभवः प्रागभावे सफ़ेदवत्त्वेऽपि दर्शिताभावाभावादिति वाच्यं प्रागभाववृत्तिप्रति- योगितासंबन्धेन ध्वंसत्वावच्छिन्नं प्रति प्रतियोगितासंबन्धेन सद्धसत्वावच्छिन्नं प्रति वा तादात्म्ये- न प्रागभावस्यापि हेतुत्वान्तरं कल्पयित्वा प्रतियोगितासंबन्धावच्छिन्नध्वंसत्वावच्छिन्नप्रतियोगिताकाभावे प्रागभाववृत्तिप्रतियोगितासंबन्धावाच्छन्नध्वंसत्वावच्छिन्नजन्यत्वतद्भिन्नप्रतियोगितासंबन्धावच्छिन्नध्वंसत्वाव.. च्छिन्नजन्यत्वद्वयनिरूपकसत्प्रागभावभेदद्वयस्य प्रयोजकत्वोपगमात् एवं सद्धसत्वावच्छिन्नं प्रति प्राग- भावत्वेन हेतुत्वान्तरं कल्पयित्वा ध्वंसत्वव्याप्यसदन्यध्वंसत्वसद्धसत्वावच्छिन्नजनकसत्प्रागभावभेदद्वयस्य प्र. योजकत्वकल्पनेनानुपपत्त्यभावात् तावताप्यनन्तभेदकूटस्य प्रयोजकत्वाकल्पनेन लाघवानपायात्तृतीयपक्षेतु भावभिन्नत्वरूपाभावत्वघटितस्य जन्याभावत्वात्मकध्वंसत्त्वस्य घटे अभावान्न घटनागभावादौ दर्शितका. र्यकारणभावस्य व्यभिचारप्रसक्तिः । तथाहि घटप्रागभावो ध्वस्त इति प्रतीति: घट घटध्वंसं वा. वगाहते नातिरिक्त मानाभावात् तत्रच घटात्मको यो ध्वंसः स न भावभिन्नः घटध्वंसस्तु यद्यपि भावभिन्नः घटप्रागभावप्रतियोगिकश्च तथापि न व्यभिचारप्रसक्ति प्रतियोगितासंबन्धेन तद्वति घटे ता- तत्र