पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा. तावच्छेदकत्वस्य सुदूरपराहतत्वात् । यच्चोक्तं तादृशकार्यकारणभावानङ्गोकारे स्वाश्रयसमवेतत्वसंबन्धेन नीला- दे लादावपि सत्त्वेन तत्र नीलोत्पत्त्यापत्तेस्तद्वारणाय स्वाश्रयसमवेतत्वविशिष्टद्रव्यत्वसंबन्धेन नालादर्हेतुत्वे तु विशेषणविशेष्यभावे विनिगमनाविरहण कारणतावाहुळ्यापत्तरिति तदपि न चारुतरं नाले नीलोत्पत्त्यापत्ति- वारणाय स्वसामानाधिकरण्यस्वाश्रयवृत्तिद्रव्यत्वोभयसंबन्धन नीलादहेतुतयैव विनिगमनाविरहप्रयुक्त- दोषवारणे उक्त कार्यकारणभावे मानाभाव इति । वस्तुतस्तु द्रव्यं जातिमद्गुणी जातिमान् इत्यनुग- तप्रतीत्यैव त्रिषु सत्ताजातिसिद्धिः । नच तादृशप्रतीतो द्रव्यत्वादि जातिरेव विषय इति वाच्य अनेकपदार्थ- गोचरैकाकारप्रतीतीनामसति बाधके एकधर्मविषयकत्वैकधर्मावच्छिन्नविषयकत्वान्यतरवत्त्वनियमात् । अन्य- था ऊर्ध्व गच्छति अधो गच्छति इत्याद्यनुगतप्रतीतीनामुत्क्षेपणत्वादिविषयकत्वेन निर्वाह उत्क्षेपणादिसक- लक्रियासाधारणगमनत्व जात्यप्रसिद्धिप्रसंगात् । नचोक्तप्रतीतीनां जातिस्वरूपैकधर्मावच्छिन्नविषयकत्वेनोप- पत्तिरिति वाच्यं जातित्वस्य नित्यत्वघटक वंसघटितत्वेनानेकपदार्थघटितत्वनाधेयत्वघटितत्वेन च प्रत्ये- कव्यक्ति विधान्तत्वेन सकलजातिसाधारण्याभावात् । एवंच द्रव्यं जातिमदित्यादिप्रतीतीनामेक जातिवि- षयकत्वावश्यकतया सत्ताजातिसिद्धनि प्रत्यूहत्वात् एवं घटो जातिमान् पटो जातिमान् इति प्रतीतीनां विनिगमनाविरहेण एकत्र घटत्वपृथिवीवद्रव्यत्वविषयत्वमन्यत्र पटत्वघटितत्रितयविषयत्वामिति रीत्या भि. अभिन्नविषयकत्वेनैकाकारकत्वानुपपत्तिः तस्मात् सर्वत्र जातिमानित्याकारकप्रत्ययानुरोधेन सर्वत्र कजाति- सिद्धौ सैव तान्त्रिकस्सत्तेति व्यवाहियते । इत्थंच सन्निति प्रतीतिविषयत्वं सत्पदशक्यतावच्छेदकत्वं च तस्या एव स्वीक्रियते। परंतु व्यादित्रिकस्य समवायेन सत्तावत्त्वात् तत्र सत्पदप्रयोगो मु- रह यः सामान्यादिन्त्रिकस्य एकार्थसमवायेन सत्तावत्त्वात् तत्र सत्प्रयोगा गौण इति विवेकः । एवंच सा- मान्यं द्विविधं प्रोक्तमित्यादिना विभागकरणं सत्तायाः परत्वोपपादनं च संगच्छते ॥ तायाः मजूपा. दात्म्येन सतस्सत्त्वात् शेषंतु पूर्ववत् नच सन्निध्वंसत्वस्य जन्याभावत्वस्य वा सत्कार्यतावच्छेदकत्व पक्षे प्रतियोगितासंबन्धेन घटप्रतियोगिकध्वंसवति घटप्रागभावे सत्तादात्म्याभावाद्यभिचारो दुर्वार इति वाच्यम् । कार्यतावच्छेदकावच्छिन्नयत्किंचिद्वयक्तयधिकरणयाद्यक्तिनिष्ठाभावप्रतियोगित्वस्यैव व्याभ- चारपदार्थत्वात् अथवा घटध्वंसस्य द्वे प्रतियोगिते एका घटो ध्वस्त इति प्रातिसिद्धा घटनिष्टा प्रतियो- गिता अन्या तु घटप्रागभावो ध्वस्त इति प्रतीतिसिद्धा प्रागभावनिष्टा साच घटेन तर्बुसेन च नि- रूप्यते उभयनिरूपितयोः प्रतियोगितसोमेंदे मानाभावात् तथाच स्वप्रतियोग्यनिरूपित प्रतियोगि- कार्यतावच्छेदकसंवन्धत्वस्वीकारान्नानुपपत्तिरियमेव प्रागभाववृत्तिप्रतियोगिताभिन्न प्रतियोगि- ता नामेति पक्षत्रयमप्युपपन्नं सद्भिन्नत्वंतु क्वचिदपि न निवेशनीयं प्रयोजनाभावादित्याहुः । अत्रेदै बोध्यं घटध्वंसात्यन्ताभावाभावस्य घटध्वंसरूपत्वेन घटध्वंसस्य तदत्यन्ताभावोऽपि प्रतियोगीति तत्र सद्रूपकारणा- भावात् व्यभिचारो दुर्वारः प्राप्नोति सचेत्धं वारणीयः कार्यतावच्छेदकसंबन्धेन कार्यतावच्छेदकविशिष्टाधि- करणनिष्ठाभावप्रतियोगित्वमेव हि व्यभिचार: कार्यतावच्छेदकावच्छिन्ननिरूपितकार्यतावच्छेदकसंबन्धानु- योगिनिष्ठाभावप्रतियोगित्वामिति यावत् कार्यतावच्छेदक चेह ध्वंसत्वं तच्च न घटध्य सात्यन्ताभाव- निष्ठप्रतियोगितानिरूपकतावच्छेदकम् । किंतु अत्यन्ताभावत्वं घटध्वंसात्यन्ताभावो ध्वस्त इत्यव्यवहारात घटध्वंसात्यन्ताभावो नास्तीत्येवं व्यवहारात् इदंच सत्वमखण्डोपाधिरूपं जन्याभावत्वरूपं चेति पक्षे धंसत्वमनुयोगिताविशेषरूपमिति पक्षे तु स्ववृत्तिध्वसनिरूपितप्रतियोगितायाः कार्य नावच्छदकसंबन्ध- स्वस्वीकारात् न कोऽपि दोष इति एवं चे। क्तप्रमाणेन कस्याश्चि जातेःसिद्धौ तस्याः द्रव्यं सदित्यादिप्रतीतिवि- षयत्वे बाधकाभावादिष्यत एवेत्यास्तां विस्तरः ॥ ८ ॥ ९ ॥