पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । अन्त्यो नित्यद्रव्यत्तिर्विशेषः परिकीर्तितः ॥ १० 11 विशेष निरूपयति ॥ अन्त्य इति ॥ अन्तेऽवसाने वर्तत इति अन्त्यः यदपेक्ष- या विशेषो नास्तीत्यर्थः । घटादीनां द्वयणुकपर्यन्तानां तत्तवयवभेदात्परस्परं भेदः परमाणूनां परस्परं भेदको विशेष एव स तु स्वत एव व्यावृत्तस्तेन तत्र विशेषान्तरा- पेक्षा नास्तीत्यर्थः ॥ १० ॥ प्रभा. मूले अन्यो नित्यद्रव्यवृत्तिरित्यलान्यशब्दस्य स्वतोव्यावर्तकत्वरूपलक्षणपरत्वं प्रतिपादयितुं अन्त्यशब्दस्य विप्रहमाह ॥ मुक्तावल्यां अन्त इति ॥ अवसान इति ॥ निरवयवद्रव्यं इत्यर्थः । वर्तत इति ॥ सजातीयपरमाणूनां परस्परभेदसाधनाय स्वीक्रियत इत्यर्थः । ननु व्यावृत्तस्यैव व्यावर्तकतया विशेषाणां व्यावर्तकधर्माभावेनाब्यावृत्तत्वात् कथं व्यावर्तकत्वमत आह ॥ यदपेक्षयति ॥ विशेषापेक्षयेत्यर्थः ॥ वि. शेषी नास्तीति । विशेषनिष्ठविशेषान्तरप्रतियोगिकभेदानुमापकविशेषातिरिक्तधर्मो नास्तीत्यर्थः । तथाच परमाणुगतैकत्वादीनां सामान्याश्रयत्वेन तत्तद्वयक्तित्वेनानुमापकत्वासंभवांतू सामान्यरूपेण व्यभिचारित्वाच न भेदकत्वं परमाणुगततत्तक्रियाध्वंसादेः विशेषासिद्धेः पूर्व अव्यावृत्तत्वेन न तस्यापि भेदकत्वमित्यन्यथा- मञ्जूषा. मूलस्थान्स्यपदं सविवरणं विगृह्णाति ॥ अन्ते अवसान इति ॥ ननु अन्तत्वस्य ससंबन्धिक- त्वात्तत्संबन्ध्याकाङ्क्षायां परिशेषादवयवधारैव संबन्धिनी वांच्या साच परस्परावयवावयविभावापन्नबहुपदार्थस- मुदायरूपा स्वघटकपदार्थनिरूपितावयवत्वव्यापकखघटकताकसमुदायरूपेति यावत् । तदन्तत्वं च तनिष्ठ- निरवयवपदार्थस्तित्वनिरूपकत्वं तन्निष्टसावयवघटितत्वकभिन्नत्वे सति तद्धटकत्वं वा ततवान्तपदं नि- रवयवद्रव्यपर इत्यायातम् । तद्वृत्तित्वं च नित्यद्रव्यवृत्तिरित्यनेनैव लब्धमिति पुनरुक्तिवारेत्यत आ- ह ॥ यदपेक्षयेति ॥ अयमाशयः लोके चरमान्यादिशब्दास्सजातीय सापेक्षमेव चरमत्वादिकं स्वभा- वतोऽभिदधते यथा ब्रह्मक्षत्रादिपरंपरामु चरमं ब्राह्मणं पश्येत्युक्ते ब्राह्मणसमुदायावधिकमेव चरमत्वं स्व. भावतः प्रतीयते तदिहान्यो विशेष इत्युक्त विशेषसमुदायसापेक्षमेव अन्यत्वं प्रतीयते अथवा विशेषशब्दस्यावृत्तिस्तेनान्यो यो विशेषः स विशेषः परिकीर्तितः विशेषशब्देन तान्त्रिकैः परिभाषितः नपुनः कपालादिरूपा अपि विशेषाः विशेषशब्देन तान्त्रिकैः परिभाष्यन्त इत्यर्थः । तथाचेदान्तशब्दः विशेषधा- रान्तपरः विशेषधाराच स्वघटकनिरूपितविशेषत्वव्यापकस्वघटकताकसमुदायरूपा तस्याश्रान्तस्स्वघटका. विशेषविशेषघटितत्वं तत्र वर्तत इत्यस्य च तत्प्रयोजको भवतीत्यर्थः भोजने वर्तते धनार्जने वर्तत दिनकरीयम्. स्वत एवेति ॥ स्वतोव्यावृत्तत्वं च स्वभिन्नलिङ्गजन्यस्वधिशेष्यकस्वसजातीयेतरभेदानुमित्यवि- षयत्वम् । साजात्यं च पदार्थविभाजकोपाधिरूपेण तेन घटादेस्तादात्म्येन व्यावृत्तत्वेऽपि विशेषस्य गुणा- रामरुद्रीयम्. स्वतो व्यावृत्तत्वं चेति । विशेषस्यापि स्वलिङ्गकस्वसजातीयविशेषान्तरभेदानुमितिविषयत्वादसम्भ- ववारणाय स्वभिन्न लिङ्गकेति । घटो विशेषाद्भयते कपालसमवेतत्वादित्यनुमितेरपि विशेषभिन्नलिङ्गकत्वा- द्विशेषप्रतियोगिकभेदविधेयकत्वाच तादृशानुमितिविषयत्वमादाय पुनस्तद्दोपतादवस्थ्यमतः स्वविशेष्यकेति । भेदे स्वसजातीयप्रतियोगिकत्वप्रवेशप्रयोजनं ग्रन्थकतैव वक्ष्यते । ननु नद्धयप्रवेशे गौरवात् स्वलिङ्गकस्व- विशेष्यकस्वसजातीयभेदानुमितिविषयत्वमेव स्वतोव्यावृत्तत्वं वक्तुमुचितं नतु यथोक्तमित्याशङ्कां निराकुरुते तेनेति ॥ तादात्म्येन व्यावृत्तत्वेऽधीत्यस्य घटादीनां इत्यादिः । न क्षतिरिति परेणान्वयः । तथाच स्वतोव्या. वृत्तत्वस्योक्तरूपत्वे घटादावपि तादात्म्येन घटहेतुकस्वस जातीयघटान्तरप्रतियोगिकभेदानुमितिविषयत्वेन तनातिव्याप्तिरेव स्यादिति भावः । भेदे स्वसजातीयप्रतियोगिकत्वनिवेशस्य प्रयोजनमाह॥विशेषस्येति । !