पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्विता । प्रभा. सजातीयानां परस्परभेदस्य मनसापि ज्ञातुमशक्यत्वात् एवमाकाशादीनामपि निरवयवद्रव्यत्वात्परमन- हत्परिमाणवत्त्वाच तेषां परस्परभेदस्यापि मनसा ज्ञानुमशक्यत्वाच । एतेषां परस्परभेदसियन्यथानुपपत्त्या स्वतोव्यावृत्तत्वेन तेषु विशेषोऽङ्गीकर्तव्य इति भावः ॥ स्वत एव व्यावृत्त इति ।। स्वत इत्यस्यावृत्तिः । स्वतः स्वात्मकलिङ्गात् स्वतः स्वीयात् स्वसजातीयादिति यावत् स्वात्मकलिङ्गादित्यत्र पञ्चभ्या: ज्ञानज्ञाप्य- स्वमर्थः । स्वसजातीयादित्यत्र पञ्चम्याः प्रतियोगित्वमर्थः एतदुभयमपि वृतुधात्वर्थ भदेऽन्वति । तथाच दि. शेषः स्वात्मकलिङ्गज्ञानजन्यज्ञानविषयस्वसजातीयप्रतियोगिकभेदाश्रय इत्यर्थों लब्धः । स्वत एवेसन एक्कारेण स्वभिनलिङ्गज्ञानजन्यज्ञानविषयस्वसजातीयप्रतियोगिकभेदशून्य इत्यर्थी लभ्यते । अत्र व्यावृत्तत्वं भेदनिष्ट- विधेयतानिरूपितोद्देश्यतारूपं तच्छून्यत्वमेवाव्यावृत्तत्वं ग्राह्यम् । तेन घटो विशेषान्तराद्भिन्नः घटत्वादिन्यत्र विशेषव्यक्तिभिन्नघटत्वलिङ्गज्ञानजन्यघटविशेष्यकानुमितिविषयविशेषान्तरप्रतियोगिकभेदवत्त्वस्य स्वस्मि- अपि सत्त्वात् तच्छ्रन्यत्वाभावेऽपि नासंभवः खस्मिन् तादृशमेदवत्त्वेऽपि भेदनिष्टविधेयतानिहायताद्देश्यता- मञ्जूपा. व्यावर्तकान्तरशून्यत्वं लभ्यते नतु विशेषाणां नच यदपेक्षयेत्यादेयंदतिरिक्तः परमाणूनां व्यावतको ना- स्तीत्यर्थ कल्पनया परमाणूनी व्यावर्तकान्तरशून्यत्वसूचनमेव ग्रन्थकृदभिप्रेतमास्त्विति वाच्यं सनु स्वतएव व्यावृत्तस्तेन तत्र विशेषान्तरपेक्षा नास्तीत्युपरितनोपसंहारप्रन्थसन्दर्भ विशेषाणामेव व्यावर्त- कान्तरशून्यस्वस्योपसंहृतत्वेनापक्रमोपसंहारयोविरोधापत्तेरिति चेन परम्परा सूचनसंभवात्तथाहि परमाणूनां निरवयवत्वकीनन तेषां अवयवरूपविशेषविरहस्सूचितः । विशेषाणां तद्वत्तित्वकथनं च तेषां परस्परव्यावर्त कतां संभाव्य विशेषाणां परस्परस्मादव्यावृत्तवे परस्पराश्रयव्यावर्तकत्वासंभवेन व्यावर्तकान्तरापेक्षायामनव- स्थापत्त्या तेषां स्वतोव्यावृत्तत्वकल्पनया व्यावर्तकान्तरशून्यत्वं सूचयतीति नानुपपत्तिरित्यपि वदन्ति ॥ तत्त. वयवभेदादिति ॥ यद्यपि द्वअणुकेषु कथंचित्रसरेणुषु च परस्परस्माद्भेदस्य प्रत्यक्षासम्भवेऽपि यो- ग्यसन्निकर्षण घटादिषु परस्परभेदः प्रत्यक्षसिद्ध एवेति न तत्र व्यावर्तकधर्मापेक्षा । तथापि पटादिषु प. दिनकरयिम्, निलद्रव्यवृत्तिरिति विशेषाणां स्थानकथनं न तल्लक्षणे प्रविष्टं प्रयोजनाभावात् । तत्र विशेषव्यावृत्तौ मन्वेतत्परमाणुत्वादयो व्यावर्तका भविष्यन्ति कि विशेषेणेति चेन्न । अव्यावृत्तधर्मस्य व्यावर्तकत्वासम्भवा- त् तत्र व्यावर्तकान्तरापेक्षायामनवस्थानात् । ननु विशेषेष्वेष प्रसङ्ग इति चेन्न । तस्य धर्मिग्राहकमानेन रामरुद्रीयम्. दशानुमितिविषयो यः तद्भिन्नत्वे सति स्वमिन्नस्वसजातीयकत्वस्य समवेतत्वस्य समवायभिन्नत्वस्य वा विशेष्य- दलस्य प्रवेइयत्वान्नातिव्याप्तिरिति ध्येयम् । अनुमितौ सिषाधयिषानुत्तरत्वमपि विशेषणं देयम् । तेनं विशेषेश परमाणूना भेदसिद्धौ एतत्परमाणुसमवेतत्वादेः व्यावृत्तवेन सिषाधयिषया तेन लिङ्गेन विशेषे विशेपान्तरभे- दानुमितावपि नासम्भवः । ननु अन्त्यो नित्यव्यवृत्तिरिति कारिकया अन्त्यत्वे सति नित्यद्रव्यत्तित्व विशेषलक्षणमुक्तं,ततान्त्यत्वं स्वतो व्यावृत्तत्वमेव अन्ते व्यावर्तकानामवसाने वर्तत इलन्यः इति व्यु- त्पत्त्या यस्य यावर्तकान्तरं नास्ति तत्वमित्यर्थलाभात् स्वतो व्यावत्तत्वस्व लक्षणत्व सम्भावे नित्य- व्यवृत्तित्वमनर्थक समवायस्यापि नित्यद्रव्यवृत्तितया समवायातिव्याप्तिवारकत्वस्याध्य सम्भवान् नल व. त्तित्वं समवेतत्वमेव विवक्षितं तथा च समवायातिव्याप्तिवारकमेव तदिति वाच्यम् , तथापि समवेतत्वमात्रेणे- व तत्रातिव्याप्तिवारणसम्भवे नित्यद्रव्यांशवेयर्थ्यस्य दुर्वारस्वादित्यभिप्रायेणाह ॥ विशेषाणां स्थान कथनमिति ॥ अव्यावृत्तधर्मस्येति ॥ यस्माद्भेदसाधकत्वमाझ मतं तदवृत्तित्वेन अज्ञातधर्मस्येत्यर्थः ।। व्यावर्तकत्वासम्भवात् तदितरभेदसाधकत्वाभावादित्यर्थः । तत्र एतत्परमाणुत्वाद। । व्या बर्तकान्तरापेक्षायां एतत्परमाणुत्वे परकाण्वन्तरावृत्तित्वसाधकहेत्वन्तरांपेक्षायाम् । अनवस्थानात अ नवस्थानप्रसङ्गात् ॥ पप प्रसङ्ग इति । अनवस्थानसशात्मकप्रसङ्ग इत्यर्थः । तस्य विशेषस्य 16