पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ कारकायली बाधात् समवायसिद्धिः । नच स्वरूपसंबन्धेन सिद्धसाधनमर्थान्तरं वा अनन्तस्वरूपा- णां सम्बन्धत्वकल्पने गौरवाल्लाघवादेकसमवायसिद्धिः । नच समवायस्यैकत्वे वायौ प्रभा. भावेन तथाप्यतिव्याप्तेरभावात् । तथाच तद्बुद्धिनिरूपितप्रकारस्वविशेष्यत्वसामान्यभिन्नतद्बुद्धिनिरूपित. विषयतावत्त्वे सति तद्धिनिरूपितनकारत्वावशेष्यत्वान्यतरवद्भिनत्वं संसर्गस्वामिति फलितम् । न- नु तद्बुद्धिशब्देन घट इत्याद्याकारकैकैकबुद्धरेव प्राह्यतया घट इत्याकारकबुद्धिव्यक्तिघटितनिरुक्तसं- सर्गत्वस्य समवायमात्रनिष्टत्वेन संयोगे नित्याभावादिस्वरूपसंबन्धे वाभावादातिव्याप्तेरप्रसक्त्या सम. वायलक्षणे नित्यत्वविशेषणं तादृशान्यतरवद्धिन्नत्वाविशेषणं च व्यर्थ तद्बुद्धिशब्देन विनिगमनाविरहे- ण घट इत्याकारकबुद्धिव्यक्तीनां सर्वासा तत्तद्यक्तित्वेन लक्षणे प्रवेशापत्या बुद्धिव्यक्तिभेदन एकस्यै. व समवायस्य नानासंसर्गत्वापत्तेश्चति चेदत्र प्राञ्चः घट इलाद्याकारकबुद्धिव्यक्तीनां सर्वासां अन्यतम' स्वेन संसर्गत्वशरीरे निवेशात् तादृशान्यतममध्ये घटवद्भूनलमित्याद्याकारकबुद्धिव्यक्तेः घटाभावो घटाभा- ववानिति बुद्धिव्यक्तेश्च प्रविष्टवेन तादृशान्यतमत्वावच्छिन्ननिरूपितप्रकारत्वादिघटितलक्षणस्य संयोगे नित्या- भावादिस्वरूपसंवन्धे च सत्त्वात्तत्रातिव्याप्तिवारणाय नित्यत्वे सतीति विशेषणं तादृशान्यतरयाद्भन्नत्व- विशेषणं च सार्थकमनुगतान्यतमत्वेन रूपेण बुद्धिव्य कीनां लक्षणे प्रदेशात् एकस्यानन्तसंसर्गत्वाप- त्तिरपि नेत्याहुः । तन्न तादृशबुद्धिव्यक्तीनां सर्वासा तत्तयक्तित्वेनासर्वातुमशक्यतया तादृशान्य- मञ्जूषा. तथापि विप्रतिपन्न प्रति प्रथमतस्स्वरूपसंबन्धाद्यतिरिकस्तत्प्रतीतिविषय इति प्रतिपादाय तुमशक्यतया तदर्थमनुमानं दर्शथितुमाह ॥ तत्प्रमाणं त्विति ॥ समवाये प्रमाण स्वित्यर्थः । उच्यत इति शेषः । गुणक्रियेति । तथाहीत्यादिः ॥ गौरवादिति ॥ अथात्र विपरीतमेव गौरवं तथाहि नीलो घट इति प्रतीतो घटस्वरूपमेव संसर्गः घटस्वरूपंच कृप्तमेव न कल्पनीयं तत्प्रतीतिनिरूपिता च या संसर्गता त्वया स्वीकृता समवाये सैव मया घटस्वरूपे स्वीक्रियते नातो मम गौरवं नच घटवि. दिनकरीयम्. गुणक्रियादीत्यादिना जातिपरिग्रहः ॥ संयोगादीति ॥ द्रव्ययोरेव संयोग इति नियमादिति भावः । अत्र समवायसम्बन्धेन पटत्वावाच्छन्नं प्रति तादात्म्यसम्बन्धेन तन्तुत्वेन हेतुत्वात्का- यतावच्छेदकसम्बन्धविधया समवायसिद्धिः । न च समवायस्थाने स्वरूपसम्बन्धं निवेश्य कार्यका. रणभावः कल्पनीय इति वाच्यं, तथा सति यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणमिति समवा- यिकारणव्यवस्था न स्यात् । न च यत्सम्बर्द्ध कार्यमुत्पद्यते तत्समवायिकारणमित्येवास्त्विति वा- च्यं, कपालसम्बद्धघटध्वंसं प्रति कपालस्य समवायिकारणत्वप्रसङ्गादित्यपि द्रष्टव्यम् ॥ सिद्धसाधन. मिति ॥ अयुतसिद्धयोः स्वरूपसम्बन्ध इति वदतः परस्येति शेषः ॥ अर्थान्तरं वेति ॥ स- मवायसाधने प्रवृत्तानां नैयायिकानामिति शेषः । ननु तथापि समवायस्यैकरवे कि रामरुद्रीयम्. न्धत्वं च सांसर्गिकविषयतावत्त्वमेव । द्रव्ययोरेवेति ॥ संयोगसामान्य प्रति द्रव्यस्य समवायिका- रणत्वादिति भावः । ननु समवायनानात्ववादिनां नव्यानां मते उत्तानुमानेन न समवायसिद्धिः सम्भवति अतिरिक्तानन्तसमवायानां संवन्धत्वकल्पनामपेक्ष्य क्लप्तानन्तस्वरूपाणामेव सम्बन्धत्वौचित्यात् इति तन्मतेऽपि समवायसिद्धयर्थ स्वयं प्रमाणान्तरमाह ।। अत्रेति ॥ यत्समवेतमिति ॥ समवायेन यद्वृत्ति कार्यमित्यर्थः । समवायाभावे एतादृशसमवायिकारणलक्षणानुपपत्तिरिति भावः ॥ यत्सम्बद्ध- मिति ॥ यदनुयोगिकसम्बन्धप्रतियोगीत्यर्थः। तथा च सम्बन्धत्वेनैव सम्बन्धप्रवेशात् समवायाभावेऽपि न समवायिकारणलक्षणानुपपत्तिरिति भावः । सिद्धसाधनमित्यत्र कस्य सिद्धसाधनमित्याकाहोदयादाह ॥ अयु- तेति ॥ ययोरेकमपराश्रितमवतिष्ठते तावयुतसिद्धौ । अर्थान्तरशब्दस्य स्वानभिमतार्थसिद्धिरर्थः । तत्रापि मानमत