पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । १३५ 2 कथं रूपाभाव रूपवत्ताबुद्धिप्रसङ्गः , तत्र रूपसमवायसत्त्वेऽपि रूपाभावात् । न चैवमभावस्थापि प्रभा. रुक्तानुमानात् एकः अतिरिक्तस्समवायस्सिद्धयतीति भावः ॥ रूपवत्ताबुद्धिरिति ॥ अन्नान्तस्येत्या- दिः । रूपाभावादिति ॥ तेन संबन्धेन रूपाभावादित्यर्थः । नच वायौ रूपसमवायसत्त्वेन तेन संबन्धेन इति वाच्यं वायू रूपवानिति प्रामाणिकानुभवाभावेन वायौ समवायस्य मञ्जूषा. नीलाः पीता इत्यादिप्रतीतिष्वपि बोध्यम् । एवमनन्तेषु भूतलादिस्वरूपेषु रूपादिप्रतियोगकत्वकल्पनापेक्षया एकस्मिन् समवाये तत्कल्पनायां लाघवमक्षतमेवं आश्रयनाशजन्यतावच्छेदकघटकतयापि समवायसि- द्धिः स्वरूपसंवन्धेन तद्वृत्तिकार्यनाशत्वस्य जन्यतावच्छेदकत्वे ध्वंसस्यापि नाशप्रसङ्गात् ॥ रूपाभा- वादिति ॥ ननु रूपसमवायसत्त्वे तेन संबन्धेन कथं तत्र रूपाभावः संबन्धसत्त्वस्य तेन संबन्धेन सं. बनधिसत्त्वव्याप्यत्वादिति चेदत्र महादेवः रूपनिरूपितत्वविशिष्टसमवायस्यैव रूपसंबन्धतया वायौ तद- भावः नच विशिष्टस्यानतिरिक्ततया विशिष्टसमवायोऽपि वायावस्तीति वाच्यं रूपनिरूपितत्वविशिष्टसमवा- यनिरूपिताधिकरणताया एव रूपसंबन्धतया तस्यच बायावभावात् इत्याचष्ट । तत्र विचार्यते किमेतावता समवायस्य केवलस्य संसर्गतास्तीत्याभिप्रेतं नास्तीति वा । आये रूपनिरूपितत्वविशिष्टस- मवायत्वावच्छिन्ननिरूपिताधिकरणतासंसर्गकरूपप्रकारकवायुविशेष्यकबुद्धेः प्रमात्ववारणेऽपि समवायसंसर्ग- करूपप्रकारकवुद्धेः प्रमात्वमवरितम् । द्वितीये धर्मिग्राहकमानविरोधः विशिष्टबुद्धिसंसर्गतयैव तत्सिद्धेः संस- गंघटकत्वात्संसर्गत्वमनपेतमिति चेदस्तु तथापि रूपसंवन्धाभावस्यैव भवदुक्तरीत्या तद्बुद्धेः प्रमात्वा. भावनियामकतया रूपसमवायसत्त्वेऽपि रूपाभावादिति रूपाभावस्य तनियामकत्वकथनविरोधः । नच रूपा- भावादित्यस्य रूपनिरूपितत्वविशिष्टसमवायत्वावच्छिन्ननिरूपिताधिकरणतासंबन्धेन रूयाभावादित्यर्थकल्प- नया न विरोध इति वाच्यम् । तादृशार्थस्य स्वरसतस्तद्वाक्यादलाभेन कुसृष्टिकल्पनापत्तेः । किंच अ. नन्तस्वरूपाणां संसर्गतास्वीकारेण गौरवाद्धि समवायः प्रागङ्गीकृतः । यदि रूपानरूपितत्वविशिष्टसमवाय- निरूपिताधिकरणताया एव संबन्धत्वं तदाधिकरणताया अधिकरणस्वरूपानतिरिक्ततयाऽऽनन्त्यानपायात समवायस्वीकार एव निरर्थकः । अधिकरणता नाधिकरणस्वरूपा किन्त्वतिरिक्ता साच नाधिकरणभे. दाद्भिद्यते मानाभावात् किंतु संबन्धभेदानिरूपकतावच्छेदकभेदाच तथाच रूपचत्तायुद्धौ सर्वत्र रूप- निरूपितत्वविशिष्टसमवायत्वावच्छिन्ननिरूपिताधिकरणताया एकस्या एव संसर्गता स्वीक्रियते घटत्ववि- शिष्टबुद्धौ सर्वत्र घटत्वनिरूपितत्वविशिष्टसमवायत्वावच्छिन्ननिरूपिताधिकरणतायाः स्वरूपाणां सं- सर्गतास्वीकारापेक्षया लाघवमनपायमिति चेदपसिद्धान्तात् । तथाहि अधिकरणताया अतिरिक्तत्ववादि- भिरपि तत्तद्विशेषधर्मावच्छिन्ननिरूपिताधिकरणतानां अवश्यकल्पनीयानामेव सामान्यधर्मावच्छिन्ननिरूपि- तत्वं स्वीक्रियते नत्वतिरिक्ता सामान्यधर्मावच्छिन्ननिरूपिताधिकरणता काचिदगीकार्या प्रयोजनाभावात् । एतच्च व्याप्तिवादे पूर्वपक्षनन्थे भट्टाचार्येण प्रकटितम् । एवञ्च तत्तद्रूपनिरुपितत्वविशिष्टसमवायत्वावच्छिन्न- दिनकरीयम् योऽधीत्यर्थः ॥ रूपवत्ताबुद्धीति ॥ रूपवत्ताबुद्धेः प्रमात्व प्रसङ्ग इत्यर्थः स्पर्शसमवायरूपसमवाययो- क्यादिति भावः । तत्र वायौं ॥ रूपाभावादिति ॥ न च रूपसमवायसत्त्वे तेन सम्बन्धेन तत्र कथं रूपाभावः सम्बन्धसत्त्वस्य तेन सम्बन्धेन सम्बन्धिसत्त्वव्याप्यत्वादिति वाच्यं, रूपनिरूपित. स्वविशिष्टसमवायस्यैव रूपसम्बन्धतया वायौ तदभावात् । न च विशिष्टस्यानतिरिकत्वेन विशि- रामरुद्रीयम्. यिणीत्यनुमितिरिति समुदायार्थः । समवायस्यैकत्वे वायौ रूपवत्ताबुद्धिरापादिता मूलकारण सा बन सङ्गच्छते वायावपि भ्रान्तानां रूपवत्ताप्रतीतेरतो रूपवत्ताबुद्धेः प्रमात्वापत्तिपरतया व्यावष्टे ॥ रूपव- तेति ॥ तत्र हेतुमाह ॥ स्पर्शेति ॥ सम्बन्धसत्त्वस्यति ॥ तत्प्रतियोगिकतत्सम्बन्धसत्त्वस्य तेन