पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ कारिकावली - एवं धिकरण्येनसत्ताभाव-एतदुभयवत्त्वस्वीकारा नोकदोष इति वाच्यं तथापि वृत्त्यनियामकसंबन्धस्याभावप्र- तियोगितानवच्छेदकत्व ते सामानाधिकरण्येन तादृशाभावाप्रसिद्धयाऽभावत्वस्य तदुभयरूपत्वासंभवात् । यदिच समवायेन सत्तासंबान्धत्व-समवायघटितसामानाधिकरण्येनसत्तासंबन्धित्व-एतदन्यतरत्वावच्छिन्न प्रतियोगिता. काभावरूपं तादृशान्यतरत्वावच्छिन्नवत्त्वरूपं वा भावभिन्नत्वमभावत्वं इत्युच्यते तदा नोक्तदोष इति हृदयम् । मञ्जूषा. तमानत्वात्मकाखण्डोपाधिस्वे निरवच्छिन्नप्रकारताश्रयत्वांशस्येष्टत्वात् ध्यगुणकर्मसु वर्तमानस्याखण्डधर्मस्य समवायेनैव वृत्तिसंभवन स्वरूपसंबन्धेन वर्तमानत्वांशस्य आपादनासंभवात् अत एव द्रव्यगुणकर्मस्वेव वर्तमानमखण्डरूपं जातिः । यत्तु सामान्यादौ यत्र कचिदपि कृतास्पदं तद्दव्यगुणकर्मसु वर्तमानं अवर्तमान वाऽखण्डोपाधिरिन्येवोच्यते सामान्यादी सभवायाभावेन तत्र स्वरूपसंबन्धेनैव वृत्तेर्वक्तव्यत्वादिति सिद्धा- दिनकरीयम्. व तथा बोध्यम् । अब केचित् , भावभिनत्वस्याभावत्वे भावत्वरूपविशेषणज्ञानशून्यकाले घटो ना. स्तीति प्रतीत्यनापत्तिः एवमन्योन्यामादत्वस्याभावत्वगर्भस्याग्रे वक्तव्यतयाऽभावत्वस्यान्योन्याभावत्वगर्भत्वे अन्योन्याश्रयापत्तिः एवमभावत्वस्य भावभिन्नत्वरूपत्वेऽभावो न भाव इति वाक्याच्छाब्दबोधानुपपत्तिश्च उद्देश्यतावच्छेदकविधेययोरैक्यादिति तस्मादखण्डोपाधिरनुयोगिताविशेषो वाऽभावत्वमिति वदन्ति अन नव्याः अभावत्वस्याखण्डोपाधित्वे प्रमाणाभावः, किं तु भावभिन्नत्वं समवायसामानाधिकरण्या-- न्यतरसम्बन्धावच्छिन्न प्रतियोगिताकसत्ताभावरूपं, तच्च पूर्वानुपस्थितमपि प्रकारः एवं च घटाभावपटाभा- वप्रतीतीनामभावांशेऽनुगतत्वमुपपद्यते नव विषयतानवस्था सत्तासन्ताभावव्यक्तः स्वरूपत रामरुद्रीयम्. त इति ॥ तथा बोध्यामिति ॥ अभावत्वं बोध्यमित्यर्थः । यद्यपि द्रव्यादिभेदषट्कस्याभावत्वे न कोऽपि दोषः तथापि गौरवात् द्रव्यादीनां घण्णा पदार्थानामज्ञानेऽपि अभावत्वप्रतेिच, तदुपक्षि- तमिति ध्येयम् । अभावत्वस्याखण्डोपाधित्वं वदतां मतमुपन्यस्यति । अत्र केचिदिति ॥ अभावत्वगर्भस्येति ॥ तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकत्वमात्रस्यान्योन्याभावलक्षणत्वे घटत्वा- दो घटत्वाभाववद्भेदरूपेऽतिव्याप्तिवारणायाभावत्वनिवेशस्यावश्यकत्वादिति भावः ॥ अन्योन्याश्रया- पत्तिरिति । अभावत्वज्ञाने अन्योन्याभावत्वज्ञानस्य अन्योन्याभावत्वज्ञाने चाभावत्वज्ञानस्यापेक्षित. त्वादिति भावः ॥ उद्देश्यतावच्छेदकेत्यादि । अभेदसंसर्गकशाब्दबोधे उद्देश्यतावच्छेदकविधेयतावच्छे. दकयोस्क्यस्येव भेदसंसर्गकशाब्दबोधे उद्देश्यतावच्छेदकविधेययोरैक्यस्यापि निराकासताप्रयोजकत्वादिति भावः । अभावत्वस्याखण्डोपाधिस्त्रे न विचारसह तत्साधकमानाभावादिलभिप्रेत्याह ॥ अनुयोगि- ताविशेषो वेति ॥ संसर्गाभावानुयोगिताव्यावर्तनाय विशेषपदम् ॥ प्रमाणाभाव इति ॥ ननु घ- टाभावादौ अभाव इत्यनुगततत्प्रतीतिरेच तत्साधिका भविष्यतीत्याशङ्कायां अनुगतप्रतीति प्रकारान्तरे- पोपपादयति ॥ कि विति ॥ नन्वेवमभावत्वस्यान्योन्याभावगर्भतयोक्तान्योन्याश्रयापत्तिरित्यत आ. ह ॥ समवायति ।। सत्ताभावरूपमित्यस्याभावत्वमिति शेषः । नन्वेवमपि सत्तानुपस्थितिदशायां घटो नास्तीत्यादिप्रतीत्यनुपपत्तिरत आह ॥ तच्चेति ॥ ननु अनुयोगिताविशेषस्याभावत्वोपगमे लाघवात्तदेव कुतो नाङ्गीकृतमित्यत आह ॥ एवं चेति ॥ अभावांशेऽनुगतत्वमिति ॥ एक- धर्मप्रकारकत्वमित्यर्थः । तथा चाभावत्वस्यानुयोगितारूपत्वे तस्याः घटाभावादी भिन्नतया अभाव- प्रतीतेरनुगतत्वं न स्यादिति भावः । ननु जातीतरस्य सत्ताभावस्य स्वरूपतो भानासम्भवेन अभा- वत्वेनैव तस्य प्रकारता वाच्या तच सत्ताभावरूपं तदपि पुनः सत्ताभावरूपाभावत्वेन प्रकार इत्य- ङ्गीकरणीयम् । तथा चाभावप्रतीतौ विषयतानन्त्यमिति शङ्का निराकुरुते ॥ न चेति ॥ विशेषण. स्य सत्ताभावस्य एकस्यैव तत्र तत्र प्रकारत्वात् विषयानवस्था नोका अपि तु विषयतानवस्थै-