पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्कावळी-प्रभा-मञ्जूषा-दिनकरीय-रामद्रीयसमन्विता प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च । एवं वैविध्यमापन्नः संसर्गाभाव इष्यते ॥ १२ ।। संसर्गेति ॥ संसर्गाभावान्योन्याभावभेदादित्यर्थः । अन्योन्याभावस्यैकविधत्वात्तद्विभा- गाभावात् संसर्गाभाव विभजते ॥ प्रागभाव इति ॥ संसर्गाभावत्वमन्योन्याभावभि- प्रभा. मूले संसर्गान्योन्याभावभेदत इत्यत्र संसर्गपदस्य संसर्गाभावलाक्षणिकत्वमित्यभिप्रायेण आह ॥ मुकावळ्यां संसर्गेत्यादि ॥ अन्योन्याभावस्यैकविधत्वादिति । ननु संसर्गाभावस्यैव प्रानिर्दिष्टत्वे- मजूषा. न्तरीतिः ॥ मूले संसर्गान्योन्याभावभेदत इति ॥ संसर्गशब्दस्तादात्म्यातिरिक्तसंबन्धपरः अथ- वा वृत्तिनियामकसंवन्धपरः तादात्म्यातिरिक्तवृत्त्यनियामकसंबन्धस्य प्रतियोगितावच्छेदकत्वानगीकारात् अन्योन्यशब्दस्तु तादात्म्यपरः संसर्गान्योन्याभ्यामभावः संसर्गान्योन्याभायः अवच्छिन्नप्रतियोगिताकत्वं तृतीयार्थः तथाच तादात्म्यातिरिकसंबन्धावच्छिन्नप्रतियोगिताकाभावः तादात्म्यसंबन्धावच्छिन्नप्रतियोगि- ताकाभावश्चेत्यर्थः । इदंच ध्वंसप्रागभावयोरत्यन्ताभावबिरोधितामते श्यामघटे समवायेन रक्को ना स्ति रक्तघटे समवायेन श्यामो नास्तीति प्रतीतौ प्रागभावध्वंसयोरेव विषयतया तयोरपि समवायसंबन्धा- वच्छिन्नप्रतियोगिताकत्वमस्तीत्यभ्युपगमेन । केचित्तु संसर्गशब्दः प्रागभावादिषु त्रिषु रूढः अन्योन्य- दिनकरीयम्. प्रकारत्वोपगमात् अत एव सत्तारूपप्रतियोगिज्ञानं विनापि घटो नास्तीति बुद्धौ स प्रकारः अ- भावत्वप्रकारकप्रत्यक्ष एव प्रतियोगिधियो हेतुत्वात् अन्यथा इदं तम इति प्रती यनापत्तेः न च सत्ताभावरूपस्याभावत्वस्यानुपस्थितस्य प्रकारत्वे विशेषणधियो हेतुत्वे व्यभिचार इति वाच्यम् विशेषणभेदेन . हेतुताया भिन्नत्वेन तत्र तद्धेतुत्वानुपगमात्फलानुरोधित्वात्कल्पनाया इति प्राहुः ।। संसर्गान्योन्याभावभेदत इति मूलादेकः संसर्गाख्योऽपरोऽन्योन्याभाव इति प्रतीयते तचायुक्त संस- गस्याभावत्वानङ्गीकारादित्यत आह ॥ संसर्गामावेति ॥ तथा च द्वन्द्वात्परं धूयमाणस्याभावप- दस्य प्रत्येक सम्वन्धात्संसर्गाभावोऽन्योन्याभावश्चेति मूलार्थ इति भावः क्रमेण द्वयोरभावयोर्लक्षणमाह ।। रामरुद्रीयम्. चेति बोध्यम् । ननु सत्ताभावस्य खरूपतः प्रकारत्वोपगमेऽपि सत्तोपस्थितिशून्यकाले घटो ना- स्तीत्यादिप्रतीतिरनुपपनैव अभावज्ञाने प्रतियोगिज्ञानस्य हेतुतया सत्ताज्ञानं विना सत्ताभावभानास- म्भवादित्यत आह ॥ अत पवेति । प्रत्यक्ष एवेति ॥ अभावविषयकशाब्दबोधादी प्रतियोगिझा- नानपेक्षणात् प्रत्यक्ष इत्युक्तम् । इदमिति प्रत्यक्षविषयः तमस्त्वं तु न तेजोभावत्वरूपं पि तु तेजोऽभावनिष्ठतद्वयक्तित्वमेव नातस्तेजोज्ञानं विना तादृशप्रतीत्यनुपपत्तिः । ननु सत्ताभाव. स्य पूर्वानुपस्थितस्य प्रकारत्वोपगमे विशिष्टबुद्धित्वावच्छिन्नं प्रति विशेषणज्ञानत्वेन हेतुतायां व्य- भिचार इत्याशङ्कायामाह ॥ विशेषणभेदेनेति ॥ अयं भावः विशिष्टबुद्धित्वं हि सप्रकारकबुद्धि- त्वादन्यदुर्वचम् विशेषणत्वमपि प्रकारत्वादतिरिक्तं तथाचोक्तकार्यकारणभावे सति घटज्ञानात् पटवि. शिष्टबुद्धयापत्तिः घटस्यापि क्वचित्प्रकारत्वात् अतो घटविशिष्टबुद्धिं प्रति घटज्ञानत्वेन पटविशिष्टबु- द्धिं प्रति पटज्ञानत्वेन विशिष्यैव कार्यकारणभावः स्वीकरणीय इति ॥ तत्रेति ॥ अभावत्वविशिष्टबुद्धावि. त्यर्थः ॥ तखेतुत्वेति ॥ अभावत्वज्ञानस्य हेतुत्वानुपगमादित्यर्थः । ननु सर्वत्र विशिष्टयुद्धौ विशेषणज्ञानस्य हेतुत्वाकल्पने बीजाभाव इत्यत आह ॥ फलेति ॥ विशेषणज्ञानं विना विशिष्ट- बुद्धयनुत्पादः फलम् । तदनुरोधित्वात् कार्यकारणभावकल्पनाया इत्यर्थः । घटादिज्ञानमन्तरा छ- टादिविशिष्टबुद्धयनुदयात् तत्र कार्यकारणभावः कल्प्यते अनुपस्थित्ताभावत्वविशिष्टयुद्धयुदयादन न कल्प्यते इति भावः ॥ द्वन्द्वान्त इति ॥ अथात्र संसर्गश्चान्योन्यश्च संसर्गान्योन्यौ तौच तावभावौ चे अ-