पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मम्जूषा-दिनकरीय- रामद्रीयसमन्विता । - तथा प्रभा. टस्वाभावात्तत्राव्याप्तिवारणाय स्वाश्रयाधिकरणकालावृत्तित्वसंबन्धेन प्रतियोगिताविशिष्टस्वस्यापि संसर्गाभाव- लक्षणे प्रवेशः तावन्मात्रीको अत्यन्ताभावेऽव्याप्तिः । तद्वारणायोभयसंबन्धन प्रतियोगिताविशि- टत्वस्यापि लक्षमे प्रवेशः । एतक्रियात्यन्ताभावप्रतियोगिताश्रयैतात्क्रियानिष्ठप्रतियोगिताविशिष्टत्वस्यै- तस्क्रियानाशोत्तरात्पन्नघटादौ सत्त्वात् तत्र पारिभाषिकान्योन्याभावभिन्नत्वस्यातिव्याप्तिवारणाय तन्मा. अस्य लक्षणत्वं परित्यज्य तद्धटिताभावत्वस्य लक्षणत्वमङ्गीकृतम् । एवंच न कुत्राप्यच्याप्तरातव्याप्ति- रित्याहुः । अस्मद्गुरुचरणास्तु वाच्यतासंवन्धनान्योन्याभानशब्दवत्त्वरूपमन्योन्याभावत्वमेव सर्वानुगतं लक्ष- पघटकं वाच्यतासंवन्धावच्छिन्नान्योन्याभावशब्दनिष्टावच्छेदकतानिरूपितप्रतियोगिताकभेदवत्त्वे सत्यमावत्वं संसर्गाभावलक्षणं लब्धम् । एवंच न कोऽपि दोष इति व्याचक्रुः । वस्तुतस्तु अभावत्वं व्यादि. षटकान्यतमत्वावच्छिन्नप्रतियोगिताकभेदवत्त्वरूपं यथा संसाभावत्वमपि द्रव्यादिषटका- न्योन्याभाव-एतदन्यतमत्वावच्छिन्नप्रतियोगिताकभेदवत्वरूपमेव वाच्यं लाघवात् । एवं चान्योन्याभाव. मिन्नाभावत्वमित्यतान्योन्याभावभिनेऽभावत्वमिति सप्तमीतत्पुरुषाश्रयणात् अन्योन्याभावभिन्नत्त्यभावत्वम- न्योन्याभावभिन्नाभावत्वपर्यवसितं संसर्गाभावलक्षणमिति लब्धं तबानुगतानरुतसंसर्गाभावत्वरूपमेवेति मञ्जूषा. वृक्षे तस्यानच्छेदकत्वमनन्तर्भाव्यैव प्रतीतेः अतस्सर्वत्रैव स्वावच्छिन्नमित्रभेदस्स्वस्मादतिरिक्त एवेत्याशयेनेदं लक्षण अथवान्योन्याभावस्वारयन्ताभावत्वादेः परस्परसामानाधिकरण्येऽपि उपधेयसंकरेऽपाति न्यायेन विभा- गोपपत्तिः । तथाच तादात्म्यसंबन्धावच्छिन्नप्रतियोगित्वानिरूपितं अनुयोगित्वं संसर्गाभावत्वं तथाच घटभेदे यो घटनिष्ठतादात्म्यसंबन्धावच्छिन्नप्रतियोगितानिरूपितानुयोगिता सान्योन्याभावत्वमित्युच्यते या तु ध. टत्वनिष्ठसमवायसंबन्धावच्छिन्नप्रतियोगितानिरूपितानुयोगिता सात्यन्ताभावत्वमिति संसर्गाभावस्वामिति च एवं घटभेदनिष्ठा या विषयितासंबन्धावच्छिन्नस्वात्यन्ताभावादिनिष्टस्वरूपसंबन्धावच्छिन्नप्रतियोगितानिरूप- तानुयोगिता न सान्योन्याभावत्वरूपति नानुपपत्तिगन्धः । एतञ्च संसर्गाभावत्वं भावसाधारणं घटाभावो नास्तीत्यादिप्रतीतिसिद्धानुयोगिताया अपीदृशत्वात् यदिच तद्वयावृत्तं निर्वाच्यं तदा भावभिन्नत्वमपि विशेषणं देयं तत्र भावसाधारण्यपक्षे अन्योन्याभावभिन्नमन्योन्याभावत्वभिन्नं तादात्म्यसंबन्धावच्छिन्न प्रतियोगितानिरूपितानुयोगिताभिन्नं यदभावत्वं अनुयोगित्वं तत्संसर्गाभावत्वमित्यर्थः । तद्याऋतत्वपक्षे तु अन्योन्याभावभिनत्वे सत्यभावत्वं तत्रान्योन्याभावभिन्नत्वच तादात्म्यसंबन्धावच्छिन्न प्रतियोगित्वानिरूपिता. नुयोगित्वं अभावत्वं भावभिन्नत्वं एवमन्योन्याभावत्वं तादात्म्यसंबन्धावच्छिनप्रतियोगिताकाभावत्वं इ. त्यत्राप्यन्योन्याभावत्वस्य भावसाधारण्यपक्षे तादृशप्रतियोगिताकं तादृशप्रतियोगितानिरूपकं यदभाव- त्वमनुयोगित्वं तदन्योन्याभावत्वमित्यर्थः । तद्वयावृत्तत्वपक्षे तु ताशप्रतियोगिताकत्वे सत्यभावत्वं तत् तादृशप्रतियोगिताकत्वं च तादृशप्रतियोगितानिरूपितानुयोगत्वं अभावस्वं भावभिन्नत्वं तच्च भाव- निष्ठतादात्म्यसंबन्धावच्छिन्नप्रतियोगितानिरूपितानुयोगिताविशिष्टवत्त्वं नात आत्माश्रय इति बोध्यम् । अत्र तादात्म्यमसाधारणो धर्मः सच घटः पटो नेत्यादौ पटत्वादिः तस्यच ताशप्रतीतो प्रतियोगिता. वच्छेदकत्वं द्विविधं भासते एक प्रतियोगिविशेषणधर्मविधया अभ्यञ्च संबन्धविषया तत्र प्रथम स्वरूपतः द्वितीयं तु तादात्म्यत्वेन रूपेण तादात्म्यत्वं त्वखण्डो धर्मः पटेतराधात्तत्वं सति पदवृत्तिवं वा संयोगिनस्संयोगेनाभावप्रतियोगितावच्छेदकत्वन्तु न संयोगस्य तेन रूपेणातो म तत्रातिमाप्तिरिति केचित् भट्टाचार्यमतानुयायिनस्तु तादात्म्यमेकमात्रवृत्तिधर्मः सच तद्वयक्तित्वादिरूपस्त एषम नाको छ- ट त्यादौ संसर्ग: संसर्गतावच्छेदकं चैकमात्रवृत्तित्वं अत्तो न बहुव्यक्तिविशेष्यकज्ञाने संसर्गाननुगमः घटः पटो नेत्यादौ च सएव प्रतियोगितावच्छेदकसंबन्धः संबन्धतावच्छेदकं चैकमात्रवृत्तित्वं अतो नाननुगमः । एवं संयोगिनः संयोगेन अभावे नातिव्याप्तिप्रसक्तिः संयोगस्यैकमात्रवृत्तित्वाभावादित्याहुः । अयास्मिन्मते एकमात्रवृत्तिसंबन्धावच्छिन्न प्रतियोगिताकाभावत्वमन्योन्याभावत्वमिति प्राप्तं तत्रैकमात्रवृत्तित्वं स्वप्नातयो- 20