पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली AN प्रभा. रिकल्प्य. दोषो. वारणीय इति अस्मद्गुरुचरणाः । अत्र दैशिककालिकविशेषणत्वोभयसंबन्धेन यदभावत्वा- श्रयः तत्प्रतियोगित्वे सत्यभावत्वस्य लक्षणत्वे न कोऽपि दोष इति प्रतिभाति । ननु प्रागमा- वे प्रमाणाभावादिदं लक्षणमयुक्तमिति चेदन प्राश्चः उत्पत्रस्य पुनरुत्पादवारणाय प्रागभावाङ्गीकार आवश्यकः तथाहि तद्धटोपधायकतत्कपालतत्संयोगादीनां तद्धटोत्पत्तिकालेऽपि सत्त्वात्पुनरपि तद्धटो- स्पत्त्यापत्तिः प्रागभावाशीकारे च तदभावादेव न पुनस्तदुत्पत्तिरिति । नच समकायेन जन्यद्रव्य- त्वावच्छिन्नं प्रति समवायसंबन्धावच्छिन्नद्रव्यत्वावच्छिन्नप्रतियोगिताकाभावस्य प्रतिबन्ध काभावविधया है- तुत्वस्य कृप्ततया तदभावादेव तत्र तदापत्तिवारणे प्रागभावाशीकारो निरर्थक इति वाच्यम् तादृश- द्रव्याभावस्य खसामानाधिकरण्यस्वसमानकालीनत्वोभयसंबन्धेन द्रव्यविशिष्टध्वंसत्वावच्छिन्नप्रतियोगिता- मञ्जूषा. टितसामान्यसामम्या घटत्वावच्छिन्नोत्पत्तिवारणाय द्रव्यं प्रति व्यस्य प्रतिबन्धकतायाः कृप्ततया तत ए- वोत्पन्नघटव्यक्तः पुनरुत्पत्तिवारणसंभवात् व्याप्यधर्मावच्छिन्ने जननीये व्यापकधर्मावच्छिन्नजनकसामय्या अपेक्षितत्वात् । नच द्रव्यं प्रति व्यस्य द्रव्योत्पत्तिकालोत्पत्तिकध्वंसानां वा प्रतिबन्धकत्वमित्यत्र वि- निगमनाविरहापत्तिरिति वाच्यं प्रागभाववादिनोऽपि तद्धटव्या प्रति तद्धटप्रागभावव्यक्तस्तद्वयक्तित्वेन का. रणत्वमुच्यता तत्कालोत्पन्नानन्तपवनपरमाणुसंयोगप्रागभावानां वेत्यत्र बिनिगमनाविरहापत्तेर्दुवारत्वात् । अ. थतटव्यक्तिप्रागभावस्य तत्कालोत्पन्नपवनपरमाणुसंयोगमागभावानां च समनियतत्वेनाभिन्नतया न कारणभे. दः नवा कारणतावच्छेदकभेद इति न विनिगमनाविरहनसक्ति: यदिच पवनपरमाणुसयोगनागभावस्य परमा- गुसाधारणत्वात् न तद्धटप्रागभावसमनयत्वं तत्कालोत्पन्नक्रियाप्रागभावस्य एकव्यातमात्रवृत्तित्वेन न समनै. यससंभवः प्रागभावस्यानेकव्यक्तिप्रतियोगिकत्वमपसिद्धान्त इति मन्यते तथापि तद्धटव्यक्किप्रागभावस्स दिनकरीयम्. रहेण हेतुताया दुर्वास्त्वात् तथा च प्रागभावरूपधार्मिकल्पनागौरवं परमतिरिच्यत इत्याहुः । अत्र वदन्ति स्वानधिकरणेषु तन्तुषु पटोत्पत्तिवारणाय सहस्रतन्तुकपटस्थले बहूनां तन्तूनां तत्संयोगानां च तत्तद्वयक्तित्वेन हेतुत्वकल्पनापेक्षयका प्रागभावस्य हेतुता लधीयसी । अथैवमपि द्वित्रिचतुर्यु तन्तुषु सहसतन्तुकपटोत्पत्त्यापत्तिः न च चरमसंयोगव्यक्तस्तद्वशक्तित्वेन हेतुत्वान्नापत्तिरिति वाच्यं तथा सति स्वानधिकरणेषु तन्तुष्वपि चरमसंयोगाभावादेव पटोत्पत्तिवारणसम्भवे प्रागभावकल्पना- नौचित्यादिति चेन्न चरमसंयोगस्य समवायघटितसामानाधिकरण्यप्रत्यासत्त्या हेतुत्वे तन्त्वन्तरेऽपि स- मवायेन पटोत्पत्त्या तत्र समवायेन चरमसंयोगाभावेन व्यभिचारापत्त्या समवायसम्बन्धेन तत्पट- त्वावच्छिन्नं प्रति चरमसंयोगव्यक्तः कालिकसम्बन्धेन हेतुता वाच्या तथा च स्वानधिकरणतन्तुष्व- पि कालिकविशेषणतया चरमसंयोगस्य सत्त्वात् पटोत्पत्तिवारणाय प्रागभावहेतुत्वस्यावश्यकत्वादिति । एवमप्यस्तु काचिदतिरिक्तः पदार्थस्तथापि तस्य सप्रतियोगिकत्वे प्रमाणाभाव इति तु दत्त्वम् । ध्वंसस्य लक्षणमाह ॥ जन्याभावत्वमिति ॥ प्रागभावेऽतिव्याप्तिवारणाय जन्येति न्ताभावस्य लक्षणमाह ॥ नित्येति ॥ ध्वंसादिवारणाय निलपदम् । नम्वत्यन्ताभावस्य नित्यत्वे रामरुनीयम्. प्रागभावेति ॥अन बदन्तीति ॥ प्राचीनानुयार्थिन इति शेषः ॥ तत्संयोगानां तन्तुसंयोगानामित्य- यः ॥ अथैवमपीति ॥ प्रागभावस्य हेतुत्वेऽपीत्यर्थः ॥ उत्पत्यापत्तिरिति । तत्तत्संयोगव्यक्तीनां त्व. या हेतुतानभ्युपगमात्प्रागभावस्य सदानीमपि सत्त्वादिति शेषः । तत्संयोगव्यक्तीनां हेतुत्वोपगमे च व्यर्थ प्रागभावकल्पनामिति भावः ॥ स्वानधिकरणेविति ॥ सहस्तन्तुकपटानाधिकरणेवियर्थः ॥ तन्वन्त- रेड्पीति ॥ चरमसंयोगाधिकरणतन्तुभिन्मसहस्रतन्तुकपटाधिकरणतन्तावपीत्यर्थः । दीधितिकृतामभिप्रेतमाह। एवमप्यस्त्विति ॥ सप्रतियोगिकत्व इति ॥ तथा च तस्याभावत्वे मानाभावेन न मागभावसि-