पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ कारिकावली तथा प्रभार खतन्तुकपटोपस्यापतिः । नच चरमसंयोगव्य के तधचित्वेन हेतुत्वानोकदोष इति वाच्य सति स्वानाधिकरणतन्तुष्वपि चरमसंयोगाभावादेव पटोत्पत्तिवारणसंभवेन प्रागभावकल्पनानाचित्यदिति चेन्न चरमसंयोगस्य समायघटितसामानाधिकरण्यप्रत्यासत्त्या हेतुत्वे तन्वन्तरेऽपि समवायेन पदोत्पत्त्या तत्र समवायेन चरमसंयोगाभावेन व्यभिचारापत्त्या समवायसंबन्धन तत्परत्वावच्छिन्नं प्रति चरमोत्पन्नसंयो. गव्य केः कालिकसंबन्धेन हेतुता वाच्या तथाच स्वानधिकरणतन्तुष्वपि कालिकत्तया चरमसंयोगसत्त्वात् पटो- त्पत्तिवारणाय प्रागभावहेतुत्वस्यावश्यकत्वात् इति । एवमप्यस्तु कश्चनातिरिक्तः पदार्थः तथापि तस्य सप्र- तियोगिकत्वे प्रमाणाभाव इति तु तत्त्वमित्याहुः तदसत् चरमतन्तुसंयोगस्य कालिकसंबन्धन हेतुत्वे द्वि. विचतुर्पा संयुक्तेषु सहस्रतन्तुषु पटव्यक्त्यधिकरणेषु तन्त्वन्तरसमवेतसहस्रतन्तुकपटव्यक्तयसमवाथिकारण. चरमतन्तुसंयोगव्यक्तः कालिकसंवन्धेन वर्तमानतया तन्तुचतुष्टयसंयोगकालेऽपि एतादृशतन्तु५ सम- वायेन सहस्रतन्तुकपटव्यक्त्यापात्तवारणाय तत्पटसमवायिकारणसमवेतचरमतन्तुसंयोगव्यक्तरेव कालि- कसंवन्धेन समवायेन तत्पटं प्रति हेतुत्वं वाच्यं प्रकृते द्वित्रिचतुरादिसंयोगविशिष्टतन्तूनां एतत्का- लीनतन्वन्तरसमवेतसहस्रतन्तुकपटव्याक्तिसमवासिकारणत्वाभावेन तादृशपटासमवायिकारणचरमसंयोगव्य- केः एतत्तन्त्वसमवेतत्वेनैतत्तन्तुषु तादृशचरमसंयोगव्यक्तभावेन तत्र समवायेन तत्पटापादनासंभ- वात् भविष्यकालीनैतत्तन्तुसमवेतसहसतन्तुकपटव्यः समवायेनैतत्तन्तुविदानीमापादनन्तु न सं. भवति एतस्पटासमवायिकारणेतस्पटसमवायिकारणतन्तुसमवेतचरमतन्तुसंयोगव्य फेरिदानीमनुत्पन्नतया ता. मञ्जूषा. तस्यापत्तिवारणसंभव इति वाच्यम् । समवायेन तत्पटव्यक्ति प्रति तत्संयोगव्यक्केस्समवायेन हेतुत्वे तत्प- टाधिकरणतन्त्वन्तरे व्यभिचारापत्त्या कालिकसंबन्धेनैव हेतुताया वाच्यत्वेन. पटान्तराधिकरणतन्तुयु तद्वयक्तयापत्तेढुंवारत्वादिति महादेवग्रन्थे स्थितं तत्तु तद्वन्थ एवाग्रे दूषित्तनायं तदन्थे हि संयोगनि. कपणे कार्यतावच्छेदकावच्छिन्नयत्किचिद्वयक्त्यधिकरणयावद्वयक्तिनिष्ठाभावप्रतियोगित्वस्यैव व्यभिचारपदा- र्थत्वमुकं नचेह तादृशव्यभिचारस्संभवति ततश्व प्रागभावोऽप्रामाणिक इति चेदुच्यते अस्तु समवा- येनैव तत्संयोगव्यक्तस्तस्पटव्यक्ति प्रति कारणता तथापि प्रागभायो दुर्वारः यथाहि तत्संयोगव्यक्ति- रूपविशेषसामग्रीमनपेक्ष्यैव तन्तुसंयोगवाद्यवच्छिन्नघटितसामान्यसामग्री पूर्वतन्तुषु तत्पटव्यक्तिमुत्पादयति तथा पटान्तराधिकरणतन्तुष्वपि तां कुतो नोत्पादयेत् पूर्वतन्तुषु तत्पटव्यक्तयुपधायकतावच्छेदकत्वे- न कृप्तधर्मावच्छिन्नानां तत्रावाधात् अतस्तत्पटव्यक्त्युपधायकं किंचित्पटान्तराधिकरणतन्तुव्यावृत्त तत्पटाधिकरणयावत्तन्तुसाधारणमन्वेष्टव्यम् । तदेव प्रागभावशब्दित्तमिति । ननु तत्तयतिसमवेतसरसामान्य प्रति तत्तय संस्तादात्म्येन कारणतास्वीकारे नोक्तप्रागभावसिद्धिप्रत्याशा तथाहि सहस्रस्यापि तन्तूनां तत्तद्रतरूपरसादिसाधारण्येन तत्तत्समवेतमत्वावच्छिन्नं प्रति तत्तद्वयक्तित्वेन कारणता वाच्या कार्यता- बच्छेदकाकान्ता च तत्पटव्यकिरपि । तथाच समवायेन तत्पटव्याकिं प्रति समवायन कालिक विशे- पणतया वा कारणीभूतया तश्चरमसंयोगव्यक्त्या तत्पटव्य की जननीयायां तत्तत्पटव्याक्तिवृत्तितत्तत्तन्तु. समवेतत्वावच्छिन्नकार्यतानिरूपित्तकारणतात्रयीभूतानां तावत्तन्तुव्यक्तीनां तादात्म्यसंबन्धेनान्यतमत्वेन रूपेण तत्संयोगव्यक्तिनिष्टफलव्याप्यतावच्छेदककोटिप्रविष्टस्वरूपसहकारित्वस्वीकारणव पटान्तराधिकरणत- न्तुषु तत्पटव्यजिवारणसंभवात् प्रागभावस्वीकारो निरर्थक इति चेत्र बूमः । उत्पन्ने तस्मिन् सहस्रतन्तुके पटे तचरमसंयोगातिरिकयत्किंचित्संयोगनाशेन विनष्टे वियुकानाभवावयवानां संयोगान्तरण पुनरुत्पत्स्यमाना पटव्यकिः पूर्वपटव्यक्क्यात्मिकैव कुतो नोत्पद्यते तद्यक्तित्त्वावच्छिन्न कारणीभूतायाथ- रमसंयोगव्यत्तदवस्थत्वात् तत्पटव्यक्तिनिष्ठपटत्वादिसामान्यधर्मावच्छिन्नकार्यतानिरूपित्तकारणतावच्छेद कीभूततन्तुसंयोगत्वाधवच्छिन्नानामपि सत्वात् । नच पटान्तरोत्पत्तिक्षणे पूर्वपटव्यकेरुत्पत्तिरापादयितुं शक्या तत्क्षणस्य तत्पटव्यक्त्यधिकरणक्षणध्वंसाधिकरणत्वादिति वाच्यम् । यतो न वयं तत्पटव्यनिस्कामुत्पा