पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्वता । न्ताभावत्वम् । यत्र तु भूतलादौ घटादिकमपसारितं पुनरानीतं च तत्र घटकाल- स्य सम्बन्धाघटकत्वादत्यन्ताभावस्य नित्यत्वेऽपि घटकाले न घटात्यन्ताभावबुद्धिः । तत्रोत्पादविनाशशाली चतुर्थोऽयमभाव इति केचित् । अत्र ध्वंसप्रागभावाधिकरणे प्रभा घटात्यन्ताभावमुद्धधापत्तिः कालविशेषविशिष्टाधिकरणस्याभावसंवन्धत्वस्वीकारेण वारिता तथापि सिंहगु. हावलोकनन्यायेन वारणप्रकार पुनस्स्मारयति ॥ यत्र विति ॥ अन्ये तु नित्यप्रतियोगिकामावानाम- त्यन्ताभावरूपत्वं तदन्यप्रतियोगिकाभावानां सामयिकाभावत्वभित्ति संसर्गाभावस्य चातुर्विध्यं वदन्ति तन्मतमुपन्यस्यति ॥ तत्रेति ॥ कालविशेषविशिष्टाधिकरणस्य संसर्गत्वखीकारेणैव घटवति घटाभाव. प्रतीत्यापत्तिवारणे चतुर्थाभावस्वीकारः तस्योत्पादविनाशस्वीकारश्चाप्रामाणिक इत्यस्वरसश्च केचिदित्य- नेन सूचितः ॥ ध्वंसप्रागभावयोरधिकरण इति ॥ अत्र प्रतियोगितावच्छेदकावच्छिन्नेन सा- कमभावस्य विरोधो न संभवति गुणे गुणकर्मान्यत्वविशिष्टस्य सत्तात्वावच्छिन्नस्य सत्त्वेन तादृशाभावासत्त्वप्र- सङ्गात् किन्तु प्रतियोगितावच्छेदकावच्छिन्नाधिकरणतया साकमेवाभावस्य विरोधो वाच्यः । नचैव सति संयोगेन यदाकदाचित् घटदति भूतले तादृशसंबन्धेन बटाधिकरणत्वसत्त्वेन घटशून्यकालेऽपि सं. योगेन घटो नास्तीति प्रतीत्यनुपपत्तिः संयोगेन तत्र घटाभावसत्त्वादिति वाच्यं नहि वयग्रभावमानस्य तादृशाधिकरणतया विरोधमाचक्ष्महे किन्तु प्रतियोगितावच्छेदकसंबन्धवति यादृशाभावः प्रामाणिकः त- स्यैव यथा घटवति भूतलादौ सत्तासमवायिनि गुणादौ च संयोगेन पूर्वक्षणवृत्तित्वविशिष्टाभावः स- मवायेन गुणकर्मान्यत्वविशिष्टसत्ताभावश्च प्रामाणिक इति तयोरेव तादृशाधिकरणतया विरोधस्वीकि- यते । प्रकृते घटसंयोगवति भूतले संयोगेन घटो नास्तीति प्रतीत्यभावेन तन्त्र संयोगेन घटाभावस्या- मजूषा. गभावत्वस्यैवानुयोगिताविशेषरूपस्य भानसंभवात् । एवं घटो ध्वस्त इत्यादौ जन्याभावप्रतियोगित्वं न चि. षयः तन्त्र भावभिन्नत्वान्तांवे घटकाले घटनागभावो ध्वस्त इति प्रतीत्यनापत्तेः तदनन्तर्भाचे घटकाले घटध्वं. सा ध्वस्त इति प्रतीत्यापत्तेः ममतु वर्तमाननिष्ठं यत् ध्वंसत्वं तन्निरूपितप्रतियोगित्वस्य विशेषणत्वाना- नुपपत्तिः वर्तमाननिष्ठं यजन्यत्वं तदवच्छिन्ननिरूपितप्रतियोगित्वस्य विषयत्वे तु जन्यत्व घट- प्रागभावत्वस्य विनाशित्वरूपत्वे विषयतानवस्था अनुयोमिताविशेषरूपत्वे ध्वंसत्वस्यैव अनुयोगिता- विशेषरूपस्य भानसंभवात् एवं घटो नास्तीत्यादौ न नित्यसंसर्गाभावत्वस्य भानं घटाभावो नास्तीत्या- दिप्रतीत्यनुपपत्तेः किन्त्वनुयोगिताविशेषरूपस्य अत्यन्ताभावस्थैव इदं च नव्यमते । प्राचीनमते अत्य- न्ताभावत्वस्येव संसर्गाभावत्वस्यापि भानभिष्यते रक्तघटे श्यामो नास्ति श्यामघटे रक्को नास्तीति धियो ध्वंसप्रागभावावगाहितायाः तैरङ्गीकारात् तत्र भासमानं संसर्गाभावत्वं च तादात्म्यसंबन्धावच्छि- अप्रतियोगित्वानिरूपितानुयोगितारूपं तासां तल भानं च तादृशप्रतियोगितानिरूपितानुयोगितात्वेन ध्वं. दिनकरीयम् घटानयनानन्तरमपि भूतले घटो नास्तीति प्रतीत्यापत्तिरित्यत आह ॥ यत्र विति ।। तथा सम्बन्धाभावादेव घटानयनानन्तर घटात्यन्ताभावबुद्धिति भावः कालविशेषविशिष्टस्वरूपस्य संसर्गत्वोपगमादेव घटवति घटो नास्तीति प्रतीत्यभावोपपत्तौ चतुर्थसंसर्गाभावे मानाभाव इत्यस्वर- सः केचिदित्यनेन सूचितः । ननु मास्तु घटकाले घटात्यन्ताभावबुद्धिः घटोत्पत्तेः प्राक्काले तु स्यादिस्याश- याह ।। अप्रेत्यादिना ॥ ननु तर्हि रक्तरूपप्रागभावाधिकरणे श्यामघटे श्यामरूपध्वंसाधिकरणे न रघढे कथं रको नास्ति श्यामो नास्तीति च प्रतीतिः ध्वंसप्रागभावयोरधिकरणेऽत्यन्ताभावस्यास रामरूद्रीयम् विरिति भावः ॥ फर्य रको नास्तीति ॥ नास्तीयादिप्रतीतेरस्यन्ताभावविषयकवादित्याशाहितुर,