पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्कावळी-प्रमा-मन्जूषा-दिनकरीय-रामरुद्रीयसमन्विता नन्वस्त्वभावानामधिकरणात्मकत्वं लाघवादिति चेन्न । अनन्ताधिकरणात्मकत्वकल्पनापे- प्रभा. मतसिद्धरक्तप्रागभावादिविषयकत्वस्वीकारेणैव तादृशप्रतीत्युपपत्तौ तत्र रक्तात्यन्ताभावकल्पने गौरवात् । नच तादृशप्रतीतेः ध्वंसप्रागभावोभयविषयकत्वकल्पनापेक्षया एकात्यन्ताभावविषयकत्वे लाघवमिति वाच्यं अतिरिक्तसामान्याभावानङ्गीकर्तृनवीनमते तत्तद्वयक्तित्वावच्छिन्न प्रतियोगिताकाभावकूटस्यैव रक्तत्वावच्छिन्नप्र. तियोगिताकाभावत्वेन तादृशप्रतीतिविषयताया वतव्यतया तदपेक्षया प्रागभावध्वंसयोः तादृश प्रतीतिषि- षयत्वकल्पनाया एवोचितस्वादिति । ननु पदार्थास्सप्त कीर्तिता इति मूलमयुक्तमभाव एव मानाभावादित्य- भिप्रायेण मीमांसकश्शङ्कते ॥ नन्विति ॥ लाधवादिति ॥ अतिरिक्तपादार्थत्वकल्पनापेक्षयेत्यादिः । मञ्जूषा. योगित्वानिरूपितत्वेन वैलक्षण्य पुरस्कारेण वा भानमनावश्यकमिति बोध्यं नायं घट इत्यादिप्रतीतौ तु अ. न्योन्याभावत्वं भासते तदप्यनुयोषिताविशेषरूपत्वमेव नतु भावभिन्नत्वस्य तत्रान्तर्भावः घटत्याभाव- वानेत्यादिप्रतीत्यनापत्तेः अनुयोगिताविशेषस्य तादात्म्यसंबन्धावच्छिन्नप्रतियोगितानिरूपितानुयोगितात्वेन भानं तादात्म्यसंबन्धस्य प्रतियोगितावच्छेदकत्वानीकारेण न तु वंसत्वादरिवान्योन्याभावत्वस्यापि विलक्षणानुयोगितात्वेनैव भानमिति वदन्ति लधीयस्त्वादिति । ननु किमल लाघवं न तावद्भूतले घटो नास्ति पर्वते घटो नास्तीत्वनन्तप्रतीतिषु घटाभावत्वेन भूतलपर्वतादेरेव विषयत्वे नानाविषय- दिनकरीयम् मन्यथा पूर्वमनेऽपि रक्ते मध्ये श्यामे च घटे रक्तं रूपं नास्तीत्याकारकप्रत्ययस्तस्य सामान्यामा- वावाहित्वात् न चेदृशप्रत्ययो रक्तिमध्यसाधवगाही पूर्वापररक्तिमध्वंसप्रागभाववति रक्तेऽपि तादृशा. कारप्रत्ययप्रसङ्गादिति : न च रचत्वावच्छिन्नप्रतियोगिताकत्वं ध्वंसप्रागभाक्योरव्याप्यवृत्ति तेनान्तरा- थामे रकं रूपं नास्तीति प्रत्यय स्तदा ध्वंसप्रागभावयोः सामान्यावच्छिन्नप्रतियोगिताकत्वस्वकिारात् न तु पूर्वापररक्तिमध्वसधागमावति र तत्र तदा तदनभ्युपामादिति वाच्यं विनिगमनाविरहेण पदार्थान्तरध्वंसनागभावयोरपि तस्वीकारप्रसझेन गौरवात् तदपेक्षयात्यन्ताभावस्यान्तरा श्यामादौ स. म्बन्धबकल्पनेनैव लाघवादित्यन्यत्र विस्तरः । नन्वभावस्तु द्विधेत्यादिविभागोऽनुपपन्नोऽभाव एवं मानाभावादित्यभिप्रायेण प्रामाकरः शङ्कते ॥ नन्विति ॥ अभावस्याधिकरणात्मकत्वे गौरवं प्रदर्श- रामरुद्रीयम्. शाकायामित्यर्थः ॥ रक्तं रूपं नास्तीत्याकारकप्रत्यय इति ॥ ननु तादृशप्रतीतो नात्यन्ताभावो विषयः किंतु प्रागभावध्वंसावेव तयेत्युतमेवेत्याशङ्कायामाह ॥ तस्येति ॥ नास्तीति प्रत्ययस्य- त्यर्थः ॥ सामान्याभावावगाहित्वात् सामान्यधर्मावच्छिन्नप्रतियोगिताकाभावविषयकत्वादित्य- थः । धसभागभावयोश्च सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वानीकारादिति शेषः । ननु ना. स्तीति प्रत्ययस्य सामान्यधर्मावच्छिन्न प्रतियोगिताकामावमात्रविषयकत्वे मानाभाव इत्याशय निराचष्टे ।। न चेति ॥ पूर्वापरेति ॥ पूर्व रक्तः ततः दयामः ततो रक्तस्ततः श्यामस्ततो रको यो घटः तस्मिन् मध्यरक्ततादशायामित्यर्थः । अभिकरकरूपत्रयस्थले तु मेयमापत्तिः सम्भवति ताशरकध्वंसनागभावयोनास्तीत्याकारकप्रतीतिनियामकत्वानझीकारसम्भवात उक्तस्थले तु स्चामतादशायां तादृशप्रतीत्या तयोरपि तादृशप्रतीतिनियामकत्वस्यावश्यकत्वादिति ध्येयम् । अ. भ्याप्यत्तित्वेनेति ॥ कालिकाव्याप्यत्तित्वेनेत्यर्थः ॥ पदार्थान्तरध्वंसेति ॥ रक्तरूपध्वसो त्पत्तिकालोत्पत्तिकतत्समानाधिकरणवायुसंयोगादिध्वसेत्यर्थः । गौरवादिति ॥ विनिममनाविरहे। पानन्तध्वंसादी रफत्वावच्छिन्न प्रतियोगिताकत्वकल्पनापत्त्या गौरवादित्यर्थः । अभावस्थ अधिकरण- पता मूले शहिता वत्र पूर्वमन्यसातिमाह ॥ नन्वभाव इति ॥ अतिरिकत्यस्य क्लप्तपदार्था- 2