पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० कारिकावली द्रव्यादयः पञ्च भावा अनेके समवायिनः । द्रव्यादय इति ॥ द्रव्यगुणकर्मसामान्यविशेषाणां साधर्म्यमनेकत्वं समवायित्वं च । यद्यप्यनेकत्वमभावेऽप्यस्ति तथाप्यनेकत्वे सति भावत्वं पञ्चानां साधर्म्यम् । तथा प्रमा. द्रव्यादिधण्णां भावत्वस्य स्फुटत्वात्तदुपेक्ष्य पञ्चानां साधर्म्यमाह ॥ मूले द्रव्यादय इति ॥ मुकावळ्या अनेकत्वे सति भावत्वमिति ॥ तथाच मूलस्थबहुवचनान्तभावपदं विधेय- मजूपा. भगवत्प्रमाया लक्षणघटकत्वसंभवेन प्रमात्वानिवेशनमफलं लक्षणस्य लक्षणान्तरादूषकत्वेऽपि प्रमावघट कयोः तद्वद्विशेष्यकत्वतत्प्रकारकत्वयारेन्यतरवैयर्थ्य इष्टापत्तौ च तादृशलक्षणस्य प्रमेयत्वपदप्रतिपाद्यत्वा. नुपपत्तिः किं बहुना तद्वाविशेष्यकत्वं तद्वनिरूपिता विशेष्यता तस्याश्च तद्वान्निरूपितत्वेन विशेष्यता. त्वेन वा निवेशोऽस्तु नतु भिळितरूपेण प्रयोजनाभावादेवं तत्प्रकारकत्वमित्यत्राप्यवसेयम् एतेन के. वलान्वयीभूतगगनामावादिप्रकारकत्वघटितस्य प्रमात्वस्य लक्षणघटकत्वे तस्य विशेषण- विधया निवेशेऽपि नानुपपत्तिरिति प्रत्युक्तम् तत्रापि वैयर्थ्यस्य दुर्वारत्वात् । उच्यते प्रमा त्वमिह सद्विपयकत्वं विधयितासंवन्धेन सद्विशिष्टत्वमिति यावत् । ततश्च विपयितासंबन्धेन सदि. शिष्टस्य विषयतासंबन्धन लक्षणत्वं एतस्य च प्रमेयत्वपदप्रतिपावत्वमप्युपपद्यते । चार्वाकादयो हि स. द्विषयकं ज्ञानं प्रमा अंसद्विपयकं ज्ञानमप्रमेयाचक्षते वाकुर्वन्ति च जात्यादरसत्तां तन्निसमकामदं लक्षणं यथा हि घटवृत्तित्वविशिष्टं घर एव नान्यस्मिन् एवं विषयितासंबन्धेन सद्विशिष्टं विषयतासंबन्धेन सत्येच स्यानासति अतः प्रतीयते सप्तामी पदार्थास्सन्त इति सत्त्वञ्च वस्तुत्वं यद्यपि वस्तुन्वमेव लक्षणं कर्तुमुचि. तं तथापि यथा सन्निवेशे न वैयर्थ्य अत एव मुक्तावळास्थेन प्रमेयत्वादिकमित्यादिपदेन तदेव संजग्राह महादेवः ॥ १३ ॥ मूले द्रव्याद्य इति ॥ द्रव्यमादिउँपामिति विग्रहः । पामित्या समुदायघटकत्वं ष- व्यर्थः । अन्वयश्वास्यादिपदोपस्थाप्ये प्रथमपठितत्वविशिष्टे । तथाच यहरितसमुदायघटकत्वविशिष्टप्र- थमपठिताभिनं द्रव्यमिति विग्रहवाक्यार्थः । पाउप्राथम्यश्च द्रव्यं गुण इत्यादिप्रागुक्तविभागानुसारेण ज्ञेयम् । ततश्च द्रव्याभिन्न प्रथमपठितघटितसमुदायघटका इति समासार्थः । ते कियन्तो प्राडा इत्यतः पश्चेति ॥ तथाच पञ्चत्वमिह लक्ष्यतावच्छेदकं तन द्रव्यगुणकर्मसामान्यविशेषान्यतमत्वं ॥ मुक्कापळ्या. मनेकत्वं समवायित्वञ्चेति ॥ नन्वल भावत्वविशेषणं मूल एव तिष्ठति नतु व्याख्यात्रा पूर. णीयं तथाच द्रव्यगुणकर्म सामान्यविशेषाणां साधर्म्य भावत्वे सत्यनेकत्वं समावायित्वञ्च । अभावा- नामनेकत्वेऽपि न भावत्वमिति वक्तव्यं नतु प्रथममनेकत्वमित्येतावदुक्त्वा यद्यप्यनेकत्वमभावानामस्ति तथाप्यनेकत्वे सति भावत्वमित्युक्तियुक्ता तथा सति भावत्वांशस्य व्याख्यातृपूरितत्वावगमेन सन्द- भविरोधापत्तेरिति चेदत्र केचित् भाष्ये पञ्चानामनेकत्वमित्येतावदेव पठितमस्ति नतु तत्र भावत्वं दिनकरीयम्. द्रव्यादीनां षण्णां साधयं भावत्वं स्पष्टमतस्तदुपेक्ष्य द्रव्यादीनां पञ्चानां साधर्म्य मूले प्रपश्चितम् । द्रव्यादय इत्यादिना ॥ अनेकत्वे सति भावत्वमिति ॥ एवं च मूले द्रव्यादयः पञ्चे- रामरुद्रीयम्. षड्भावपदार्थानां मूले साधानुक्त्या तत्र न्यूनतां परिजही(राह ॥ द्रव्यादर्दानामिति ॥ ननु तव्यादयः पञ्च भावा इति कारिकायां अनेकत्वमा साधर्म्यमुक्तं तत्कथमनेकत्ये सति भावत्वं मुक्कावल्यां साधर्म्यमुक्तं मूलतस्तदलाभादित्याशको परिहरति । एवं चेति ॥ उक्तार्थे भाष्यकृती