पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमान्विता चानेकभाववृत्तिपदार्थविभाजकोपाधिमत्त्वमिति फलितोऽर्थः । तेन प्रत्येकं घटादावाका- शादौ च नाव्याप्तिः । समवायित्वं च समवायसम्बन्धेन सम्बन्धित्वं समवायवत्वं सामान्यादावभावात् ॥ प्रभा. वाक्यघटकमिति बोध्यम् ॥ अनेकभाववृत्तीति ॥ अत्रानेकभाववृत्तित्वं भावनिष्ठाधिकरणताद्वयनिरू- पितवृत्तित्वं स्ववृत्तित्वस्वान्यवृत्तित्वोभयसंबन्धेन भावविशिष्टत्वं वा तेनानेकभाववृत्तित्वं स्वप्रतियोगि- वृत्तित्वस्वसामानाधिकरण्योभयसंबन्धेन भेदविशिष्ट वे सति भाववृत्तित्वमिति केषांचियाख्याने प्राप्तस्यो- दक्षरस्वदोषस्य पदार्थविभाजकोपाधावनेक वृत्तित्वभाववृत्तित्वयोः विशेषणत्वप्रयुक्तगौरवरूपदोषस्य चात्र नावकाशः । अन्न सर्वत्र वृत्तित्वं सर्वाधारताप्रयोजकसंबन्धभिन्नसंबन्धेन बोध्यं तेन कालिकादिसंबन्धेन वृ.. त्तित्वमादाय समवायादौ नातिव्याप्तिः । भावत्वमादाय समवायेऽतिव्याप्तिवारणाय पदार्थविभाजको- पाधीति । उपाधिमत्ता च सर्वाधारताप्रयोजकसंबन्धभिन्नसंबन्धेन बोध्या तेन कालिकसंवन्धमादाय ध्वंसे नातिन्याप्तिः ॥ समवायसंबन्धेन संबन्धित्वामिति ॥ समवायप्रतियोगित्वसमवायानुयोगित्वा- न्यतरवत्त्वमित्यर्थः ॥ नतु समवायवत्वमिति ॥ नतु रामवायानुयोगित्वमानमित्यर्थः । अत्र कपालसमवेत्तवृत्तिपदार्थविभाजकोपाधिमत्त्वं द्रव्यादिनातुर्णी लक्षणं एतेषां तन्तुसमवेतत्वघटितलक्षणा- न्तरसंभवेऽपि प्रकृतलक्षणे तन्तुसमवेतवस्याप्रविष्टत्वाल्लक्षणस्य लक्षणान्तरादूषकत्वाचन दोषः सत्ताव. मञ्जूषा. कण्ठोक्तम् । तत्र न्यूनतां स्फोरथितुमियं भूमिकाऽऽरब्धा विश्वनाथेन । तत्र हि प्रथममनेकत्वभि- दिनकरीयम्. युद्देश्यपदं भावा अनेक इति विधेयपदमिति बोध्यम् । अतएव भाष्ये पञ्चानामित्युक्तं न तु पञ्च- भावानामिति ॥ अनेकभाववृत्तीत्यादि । अन्न चानेकभाववृत्तित्वं स्वप्रतियोगिवृत्तित्वस्वसामा- नाधिकरण्योभयसम्बन्धेन भेदविशिष्टत्वे सति भाववृत्तित्वम् । तेन गुणादौ सङ्खचारूपस्यानेकत्वस्या- भावेऽपि नाव्याप्तिः । भावत्वरूपतादृशधर्भमादाय समवायेऽतिव्याप्तिवारणाय पदार्थविभाजकोपाधी. ति । उपाधिमत्ता च समवायस्वरूपान्यतरसम्बन्धेन तेन कालिकसम्बन्धेन ध्वंसस्य तादृशोपाधि. मत्त्वेऽपि न क्षतिः । समवायेनोपाधिमत्त्वविवक्षणे तु सामान्यादावव्यातिः स्वादतस्तन्नोक्तं अन्यतरत्वघटकस्वरूपं तु कालिकसम्बन्धभिन्नं ग्राह्यं तेन ध्वसे नातिव्याप्तिः । अल च समवेत- रामरुद्रीयम्. सम्मतिमाह ॥ अत एवेति ॥ पञ्चभावानामिति ॥ तथाच भावत्वस्यापि उद्देश्यतावच्छेदकको- टिप्रवेशस्य भाष्यकृदनुमतत्वे पञ्चानामित्यपहाय पञ्चभावाजामनेकत्वमित्येव ब्रूयादिति भावः । नन्त्र- नेकभाववृत्तीमत्र अनेकत्वं यदि बहुत्वसङ्ख्या तदा गुणादौ सङ्ख्याविरहात्तेष्वव्याप्तिः यदि च य. त्किञ्चिदेकभिन्नत्वं तदा समवायेऽतिव्याप्तिः यदि तु एकत्वावच्छिन्नसामान्यभेदः तत्र चैकत्वं यदि सञ्जयारूपं तदोक्तातिव्याप्तितादवस्थ्यम् । यदि तन्मातविषयकबुद्धिविषयत्वं तदाऽप्रसिद्धिः स्वमात्र- विषयकबुद्धिविषयत्वरूपैकत्वस्य केवलान्वयितया तदवच्छिन्नसामान्यभेदाप्रसिद्धरित्याशङ्कानिरासाय अने- कभाववृत्तित्वं निर्वक्ति ॥ अत्र चेति ॥ अभावत्ववारणाय भाववृत्तित्वनिवेशः समवायत्ववारणाय सत्यन्तनिवेश: सत्यन्ते उभयसम्बन्धनिवेशोऽपि तद्वारणायैवेति बोध्यम् । उपाधिमत्तायां सम्बन्ध विवक्षायाः फलमाह ॥ तेनेति ॥ अतस्तम्भोक्तमिति ॥ स्वरूपेणोपाधिमत्स्योती द्रव्यत्वादीनां दैशिकस्वरूपसम्बन्धे मानाभावेन द्रव्यादिष्वव्याप्तिरित्यपि द्रष्टव्यम् । पदार्थचतुष्टयस्य साधर्म्यानु. ल्या मूलस्य न्यूनता पारेहरबाह ॥ अत्र चेति ॥ सत्तावन्तत्रयस्त्वाद्या इत्यत्र आद्यनयमुद्दिश्य