पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मन्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । मञ्जूषा. किन्तु द्विवादिधर्म्युपस्थापकत्वमेव शब्दस्वाभाव्यात्तत्रच तत्तद्धर्मिणि तत्तनिष्टकत्वावच्छिनप्रतियोगिता. कभेदव्यतिरिक्ता एव भेदाः प्रकाराभूय भासन्ते नतु तत्तद्धर्मनिष्ठैकत्वावच्छिन्न प्रतियोगिताकभेदोऽपि बाधात् एवञ्चात्र मूलस्थितानेकपदजन्योपस्थितिप्रकारीभूतानां भेदानामेकैकस्य लक्षणत्वे समवायेऽति व्याप्तिस्तावत्कूटस्य लक्षणत्वे वा असंभवोऽप्रसिद्धिा किन्तु द्रव्यादयः पञ्चानेके भावा इति वा- क्यात्पञ्चत्वविशिष्टे अभेदसंबन्धेन विशेषणतापन्ने भावत्वावच्छिन्नेऽभेदसंवन्धेन विशेषणीभूतेषु धर्मिषु एकैकस्मिन्प्रकारीभूता यावन्तो भेदास्तावत्कूटवत्त्वं लक्षणं वाच्यं तत्तत्कूटेषु च समवायनिष्ठैकत्वा- वच्छिन्नप्रतियोगिताकभेदस्यापि घटकत्वान्न समवायेऽतिव्याप्तिशङ्का । तत्तत्कूटवत्त्वस्य तत्तद्धर्मिणि स. स्वान्नासंभवोऽप्रसिद्धिा किन्तु तत्तत्कूटस्य तत्तस्कूटघटकभेदप्रतियोग्यवृत्तित्वाव्याप्तिः प्रसज्यते सा चा- नेकभाववृत्तीत्युक्तविवक्षया गच्छत्ति एकत्वावच्छिन्न प्रतियोगिताका यावन्तो भेदा यथासंभवं तावदा- श्रयभाववृत्तित्वस्य द्रव्यत्वादः सत्त्वात् समवायत्वन्तु नानेकभाववृत्ति यावत्तादृशभेदान्तर्गतो यस्सम- वायत्वनिष्ठैकत्वावच्छिन्नप्रतियोगिताकभेदस्तदाश्रयीभूतभाववृत्तित्वस्य तत्र बाधादिति निपुणतरपरिशी- लनगम्योऽयमर्थः । येतु समभिव्याहतपदार्थ संसर्गिनिष्ठयात्किञ्चिदेकत्वावच्छिन्नप्रतियोगिताकभेदावशि- टबोधकत्वमनेकपदस्य व्युत्पादयन्ति तेषां मते अनेकभावश्त्तीसत्रानेकपदं स्वाश्रयभावनिष्ठयत्किञ्चि- देकत्वावच्छिन्न-तियोगिताकभेदविशिष्टपरं स्वं पदार्थविभाजकोपाधिः तथाच स्वाश्रयभावनिष्ठयत्किञ्चि- देकत्वावच्छिन्न प्रतियोगिताकभेदविशिष्टभाववृत्तियः पदार्थविभाजकोपाधिः तद्वत्त्वं लक्षणमिति पर्थवस- नम् । परन्तु अत्र कल्पे प्रत्येक घटादौ नाव्याप्तिरिति ग्रन्थसमर्थने दुर्घटं तत हि अनेके भा. चा इति वाक्यात् भाववृत्त्ये कत्वावच्छिनप्रतियोगिकाभेदवत्त्वे इति भावत्वामित्वर्थों लभ्यते तच सर्वत्र. वास्ति नच भाववृत्त्येकत्वपदेन यदेकत्वं गृह्यते तवच्छिन्न प्रतियोगिताकोदवत्वं तदेकत्वाश्रये ना. स्तीत्यव्याप्तिरिति भ्रमितव्यं एकमेव एकत्वं गृहीत्वा सर्वत्र लक्षणं संगमनीयमिति निर्बन्धुमशक्य- तया तदेकत्वाश्रयेऽपि व्यक्त्यन्तरानिकत्वावच्छिन्न प्रतियोगिताकभेदमादाच लक्षणसङ्गमनसंभवात् किन्तु समवायेऽतिव्यातिरेव दार्शतविवक्षादरणवीजतया उपन्यसनीया एवमुभयादिवृत्तिधर्मावच्छेदेन प्रत्येकवृत्ति- धमोवच्छिन्नप्रतियोगिताकभेदस्वीकारपक्षे एकत्वत्वविशिष्टावच्छिन्न प्रतियोगिताकभेदावच्छेदकयत्किञ्चिद्धर्मा- धिकरणयावद्भाववृत्तित्वभनेकभाववृत्तित्वं अनेकपदमेकत्वभिन्न संख्यापर्याप्त्यधिकरणपरामिति पक्षेऽपि ता- इशयत्किञ्चित्संख्याधिकरणयावद्भाववृत्तित्वमभेकभाववृत्तित्वमिति बोध्यम् । पक्षद्वयेऽपि ग्रन्थानुपपातरु- क्व । अत्रानेकभाववृत्तित्वं स्वप्रतियोगिवृत्तित्वस्वसामानाधिकरण्योभयसंबन्धेन भेदविशिष्टत्वे सति भावव. त्तित्वमिति महादेवेन विवक्षितं तच्च यद्यपि अनुगतं लघुच तथाप्य नेकभाववृत्तित्वमित्यस्य न स्वा- रसिकोऽयमर्थः । अनेकभाववृत्तित्वव्यवहारविषये समवायाभावान्यतरत्वेऽपि तस्य सत्त्वात् । किन्तु प्रकृतलक्षणे न दोषः तस्य पदार्थविभाजकत्वाभावात् भावनिष्ठाधिकरणताद्वयनिरूपितवृत्तित्वं स्ववृत्ति. स्वस्वान्यवृत्तित्वोभयसंबन्धेन भावविशिष्टत्वं वा तदित्यस्मद्गुरुचरणाः । एवं स्वप्रतियोगिभाववृत्तित्वस्वा- धिकरणभाववृत्तित्वोभयसंबन्धेन भेदविशिष्टत्वामित्यादयोऽपि वैवाक्षिकार्था अनुगता ऊहनीयाः । पदार्थवि. भाजकत्वं च पदार्थत्वावच्छिन्नोद्देश्यको यो विभागवाक्यजन्यबोधः तद्विधेयतावच्छेदकत्वं विभागवाक्यच प्रकृतग्रन्थस्थितमेव बोध्यम् । तेन केनचित् ग्रन्थकृता पदार्थो द्विविधः भावोऽभावश्चेति विभागेऽपि न भावत्वस्य पदार्थविभाजकत्वम् । यद्वा द्रव्यत्वगुणत्वकर्मत्वसामान्यत्वविशेषत्वसमवायत्वाभावत्वा- न्यतमत्वमेव पदार्थविभाजकत्वम् ॥ समवायसंबन्धेन संबन्धित्वमिति ॥ समवायप्रतियोगित्व. समवायानुयोगित्वान्यतरवत्त्वमित्यर्थः ॥ नतु समवायवत्त्वमिति ॥ नतु समवायानुयोगितामात्राम- सर्थ इत्यस्मद्गुरुचरणाः । अथ समवायसंबन्धेन संबन्धित्वभित्यस्मात्समवायप्रतियोगित्वसमवायानुयो. गिस्याम्यतरवत्वमित्यर्थः कुतो लभ्यत इति चेयवहारानुसारादिति बूमः । व्यवहरन्ति हि लोके