पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा | ववदर्थकतया सामान्यत्वावच्छिन्न प्रतियोगिताकात्यन्ताभाववत्त्वं लक्षणमिति फलितं तच न संभवति | सामान्यत्वस्य सामान्यभेदेन भिवतया एकै कसामान्यत्वव्यत्त्युपादाने तब्यक्त्यवच्छिन्न प्रतियोगिताकामावस्य सामान्यान्तराश्रये सत्त्वेनातिव्याप्त्यापतेः किन्तु यावन्ति सामान्यानि तावदन्यतमत्वावच्छिन्नप्रति- • योगिताकाभाववस्वं द्रव्यत्वगुणश्वकर्मत्वान् यतमत्वावच्छिन्न प्रतियोगिताकाभाववत्वं सत्ताव्यक्तित्वावच्छिन्न. प्रतियोगिताकाभाववत्वं वा मूलकाराभिप्रेत लक्षणमिति नातिव्याप्तिः। नन्वीटशसामान्याभावप्रतियोगित न कालिकसंबन्धावच्छिन्ना नित्यनादावतिव्याप्त्यापत्तेः न परंपरासंबन्धावच्छिन्ना तस्या वृत्त्यनि- मञ्जूषा. मूले जात्यादय इति ॥ अस्य गुणादिरित्यत्रेवार्थो बोध्यः । मुक्तावल्यां सामान्यानधि करणत्वमिति ॥ अत्र महादेवः जात्यादीनामप्येकार्थसमवायेन सामान्यवत्त्वात्सामान्यपरिहीना इ. ति मूलमयुक्तमतो व्याचष्टे सामान्यानाधिकरणत्वमिति तथाच सामान्यनिरूपिताधिकरणता न सामा- न्यादौ एकार्थसमवायस्याधिकरणतानियामकत्वाभावादिति भाव इति व्याचल्यो । यद्यपि सामान्य- परिहीना इति मूले परिपूर्व कस्य हाधातोरभावार्थकतयोक्तप्रत्ययस्याश्रयार्थकतया सामान्यप्रतियोगिकाभा- वाश्रयत्वमात्रं लक्षणं लभ्यते तल च नोक्ताशङ्का सामान्यस्य एकार्थसमवायेन सामान्यादौ सत्त्वे- ऽपि समवायादिरूपयत्किञ्चित्संबन्धावच्छिन्न प्रतियोगिताकस्य सामान्याभावस्य तत्राक्षतत्वात्तथापि सामान न्यनिष्ठप्रतियोगितायां संबन्धविशेषावच्छिन्नत्यानिवेशे यत्किञ्चित्संबन्धावच्छिन्नत्वनिवेशे च संयोगादि- यत्किञ्चित्संवन्धावच्छिन्नसामान्यनिष्ठप्रतियोगिताकाभावस्य द्रव्यादिसाधारणतयाऽतिव्याप्तिः तद्वारणाय संबन्धसामान्यावच्छिन्नत्वस्य प्रतियोगिताविशेषणताऽऽवश्य की तथाचाशङ्कासङ्गतिः । ननु सिद्धान्तेऽपि सामान्यनिरूपितकालिकसंबन्धावच्छिन्नाधिकरणताया ध्वंससाधारणतयाऽव्याप्तिः नचाधिकरणतायां सम- वायावच्छिन्नत्वनिवेशानायं दोष इति वाच्यम् । तथासति सामान्यनिष्ठप्रतियोगितायामेव समवायसं. बन्धावच्छिन्नत्वनिवेशेन सामञ्जस्येऽधिकरणत्वप्नवेशवैयपिातेन दर्शितावतारिकाया असाइत्यापत्तेः अ. वतारितग्रन्थ प्रतिपाचाधिकरणतायामवश्यनिवेशनीयस्य समवायसंबन्धावच्छिन्नत्वस्य मूललभ्याभावप्रति- योगितायामेव निवेशायितुमुचितत्वेन तत्र संबन्धसामान्यावच्छिन्नत्वं प्रवेश्य तादशग्रन्थावतरणस्य सन्द• भविरुद्धत्वात् । किंच समवायसंवन्धावच्छिन्नाधिकरणताप्रवेशेऽपि तादृशाधिकरणतायां संबन्धसामा- न्यावच्छिन्न प्रतियोगिताकाभावनिवेशे पुनस्तद्दोषतादयस्यामिति तद्वारणाय सामान्यनिरूपितसमवायसंब- न्धावच्छिन्नाधिकरणतानिष्ठस्वरूपसंबन्धावच्छिन्नप्रतियोगिता निवेशनीया तदपेक्षया सामान्यनिष्ठसमवा- यसंबन्धावच्छिन्न प्रतियोगितैव लघीयसी । किंच सामान्यनिरूपिताधिकरणतायां समवायसंवन्धावच्छि-- नत्वनिवेशनं यद्यभिप्रैष्यन्महादेवः तर्हि एकार्थसमवायम्याधिकरणतानियामकस्वाभावादिति नावादिष्यत् तस्याधिकरणतानियामकत्वेऽपि समवायसंवन्धावच्छिन्नाधिकरणताविरहेणैव क्षतेरभावात् अनेन हि प्र. न्थसन्दर्भणाधिकरणतायां संबन्धविशेषावच्छिन्नत्वनिवेशो नास्तीति प्रतीयते । अपिच सामान्यनि- रूपिताधिकरणतायां समवायावच्छिन्नत्वप्रवेशे तादृशाधिकरणत्वप्रतियोगिताकाभावमात्रस्याऽतिप्रसजकत्वा- त् सामान्यनिरूपितसमवायसंवन्धाचच्छिनाधिकरणतात्वस्य समवायसंबन्धावच्छिन्नाधिकरणतात्वापेक्षया गुरुत्वेनाभावप्रतियोगितानवच्छेदकतन्या तदवच्छिन्नम्नतियोगिताकाभावनिवेशासंभवादसङ्गतिः । नच ल. धुधर्मसमानियतगुरुधर्मस्य न प्रतियोगितावच्छेदकत्वं समवायावच्छिन्नाधिकरणतात्वन्तु रूपायधिकरण- तासाधारणमिति वाच्यम् । लघुगुरुधर्मावच्छिन्नन्नतियोगिताकत्वेनाभिमतयोरभावयोर्यत्र समनैयत्यं तत्रापि गुरुधर्मस्य प्रतियोगितावच्छेदकत्वानङ्गीकारत् । नच गुरुधर्मस्य प्रतियोगितावच्छेदकत्वं व्याप्तिग्रन्थे विश्वनाथेन खीकृतमिति वाच्यं तथापि सामान्यनिरूपितत्वांशवयात् । नचातिरिक्ताभावसंपा- दकत्वान्न वैसयमिति वाच्यम् एतादृशाभावयोस्समनियतत्वेनाभेदात् समनियताभावानां भेदेऽपि सामान्यनिरूपितत्वांशस्य प्रतियोगितावच्छेदकतया लक्षणप्रवेशवैयर्थ्यस्य दुर्वारत्वादिति चेदुच्यते । सा- 23