पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ कारिकावली न । ज्ञानातिरिक्तं प्रत्येवाकारणताया आचार्यैरुक्तत्वात् ॥ १५ ॥ प्रभा. त्यापीत्यर्थः ॥ज्ञानातिरिक्तं प्रतीति ॥ कारणत्वं च ज्ञातृधर्मतरकार्यापेक्षयेति भाष्यम् । ज्ञातृ- धर्माः ज्ञानादयः तदतिरिक्तभावकार्यनिरूपितकारणत्वं गरिमाण्डल्यादिभिन्नानां साधर्म्यमित्यर्थः । तथाच पूर्वोत्तरभाष्यपर्यालोचनया पारिमाण्डल्यादिचतुर्णा ज्ञानातिरिक्तभावकार्यनिरूपिताकारणत्वं तदनुमतं नतु कारणत्वसामान्याभाव इति लाभादिति भाव: । ननु भाष्यकारोक्तप्रकारेण पारिमाण्डत्यादि- भिमानां ज्ञानातिरिक्तभावकार्यनिरूपितकारणत्वं साधयमित्यनुक्त्वा कारणत्वसामान्यस्य लक्षणत्वमङ्गी- कृत्य परममहत्त्वशब्दस्य विशेषपरत्वे बीजाभाव इति चेन्न भाष्ये सूत्रस्थादिपदेन सुखदुःखयोः अजनितावयाविरूपादेः पाकनष्टपरमाणुरूपादेः अप्रहणात्तेषामपि लक्ष्यत्वप्राप्त्या तेषु ज्ञानातिरिक्तभा- चकार्यनिरूपितासाधारणकारणत्वरूपलक्षणामत्त्वादव्याप्तिरित्यरुचेः प्रकारान्तरानुसरणं ग्रन्धकृता कृतमिति ध्येयम् ॥ १५ ॥ मजूषा. न्यधर्मावच्छिन्नवाचकपदानां उपस्थितविशेषपरताया लोके दृष्टत्वेन पारिमाण्डल्यं परमाणुपरिमाणमिति पूर्वोपस्थितपरमाणुपरिमाणस्यैव तत्पदेनोपस्थापनात् । नच प्रागपि पारिमाण्डल्यं अणुपरिमाणमित्येव पाटो महादेवाभिप्रेत इति भ्रमितव्यम् । तथा सति यशुकपरिमागाव्याप्तिशङ्कायास्तद्भिन्नानां कारण- दिनकरीयम्. त्ममहापरिमाणस्यापीत्यर्थः ॥ ज्ञानातिरिक्तं प्रत्येवेति ॥ कारणत्वं च ज्ञातृधर्मेतरभावकार्यापे. क्षया इत्याचार्य ग्रन्थः । ज्ञातृधर्मा ज्ञानादयः तदतिरिक्तभावकार्य प्रति कारणत्वं पारिमाण्डल्याभन्ना- नां साधयमिति तदर्थः । एवञ्च पारिमाण्डल्यादीति आदिपदेन परममहत्त्वं गृह्णतामाचार्याणामय- माशयो यत्पारिमाण्डल्यस्य परममहत्वादीनां च ज्ञानातिरिक्त प्रति न कारणत्वं न तु कारणत्वसा- मान्याभावस्तदनुमत इति भावः । अत्राचार्यैः पारिमाण्डल्यादीत्यादिपदार्थेषु सुखदुःखादेरजनिताव- यविरूपादेः पाकनष्टपरमाणुरूपादेवागणनात्तेषां लक्ष्यत्वमनुमतम् । एवं च तेषु ज्ञानाद्यतिरिक्तभावकार्य- फलोपधायकत्वरूपस्याचार्यलक्षणस्याव्याप्ति परिचिन्त्य स पक्षस्त्यको अन्धकृतति ध्येयम् ॥ १५ ॥ रामरुद्रीयम्. नः अणुवे इन्द्रियादिस्वरूपत्वे च विवादासम्भवादिति भावः ॥ तदतिरिक्तभावकार्यमिति ॥ ज्ञानाद्यतिरिकभावकार्यमित्यर्थः । यद्यपि ज्ञातृधर्मेतरापेक्षयेत्याचार्यप्रन्धे भावत्वं नोपात्तं तथापि द्यणुकपरिमाण. स्य स्वध्वंसं प्रति कारणत्वेन पारिमाण्डल्यपदस्याणुपरिमाणसामान्यपरत्वेन आणुकपरिमाणे भवत्यतिव्याप्ति. रिति भावत्वमुपातं भावत्वं तु स्वमतेऽपि देयमेव । अन्यथा तत्रैवातिव्याप्तेः॥ अजनितावयविरूपादे. रिति ॥ पाकनष्टपरमाणुरूपादर्विशेषणं तेन पाकनष्ट परमाणुरूपस्यापि नाशात्पूर्व द्वयगुकरूपाद्युपधायकस्वेऽपि न क्षतिः॥फलोपधायकत्वरूपस्येति ॥ समवायेन परिमाणं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन परि. माणत्वेन सामान्यतः कारणत्वेन पारिमाण्डल्यस्यापि स्वरूपयोग्यतारूपकारणतावत्त्वात्फलोपधायकत्ववि- वक्षा । तञ्च न अव्यवहितपूर्वत्वसम्बन्धेन कार्यविशिष्टत्वे सति स्वरूपयोग्यत्वं तस्य पारिमाण्डल्येऽपि सत्त्वात् । किंतु कार्योत्पादप्रयोजकत्वमेव । प्रयोजकत्वं च स्वरूपसम्बन्धरूपं दण्डाद्धटोत्पाद इति प्रतीतिसाक्षिकमिति ध्येयम् । यद्यपि स्वमतेऽपि स्वप्रत्यक्षं प्रति सुखदुःखयोः कारणत्वेऽपि परमाणुरूपस्या- तान्द्रियतया भावकार्य प्रत्यकारणत्वेन तत्राव्याप्तिस्तदवस्थैव । न च जन्यमात्रस्य कालोपाधितया कालत्वेन तस्यापि भावकार्य प्रति कारणत्वमक्षतमेवेति वाच्यम् । तथासति घणुकपरिमाणस्यापि कालविषया भावका- र्यकारणत्वेन अणुपरिमाणं तु न कस्यापि कारणमिति मूलविरोधापत्त्या कारणत्वपदस्य कार्यत्वानवाच्छ, नकार्यतानिरूपितकारणस्वपरतायाः क्रियैव काल इति मतावलम्बनल वा आवश्यकत्वेनाव्याप्तेवारत्या- दिदमसातम् । तथापि स्वमते विशेषाश्चति नकारेण तावारूपस्यापि समुचितत्वादिति भावः ॥ १५ ॥ -