पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली मञ्जूषा. प्रयोजनविरहेण मानसं प्रत्यपि तस्य कारणताया दुरित्वात् मानसत्वावच्छिन्नं प्रति कारणता तु नेष्यत एव अत एव आत्ममानसवृत्तिमहत्त्वजन्यतावच्छेदकं प्रत्यक्षत्वमिति ज्ञापनायात्ममानस. प्रत्यक्ष इात प्रत्यक्षपदमुपात्तं ग्रन्थकृता ॥ आकाशादेरिति ॥ ननु यथा परमाण्वादिप्रत्यक्षवारणाय इन्यवृत्तलोकिकविषयतासंबन्धेन प्रत्यक्षत्वावच्छिनं प्रति समवायसंबन्धन महत्वस्य कारणता तथा प. रमाणुरूपादिप्रत्यक्षवारणाय व्यसमवंतवात्तलोककावषयतासंबन्धन प्रत्यक्षत्वावाच्छन्नं प्रति सामाना. धिकरण्यसंबन्धन महत्त्वस्यापि कारणता वाच्या तथा व्यसगवतसमवेतप्रत्यक्षाप । ततश्च शब्द- श्रावणे शब्दत्वादिश्रावण च आकाशमहत्त्वस्य कारणता दुर्वारा तत्कथमुच्यते परममहत्त्वमाकाशाद- घोध्यामात उच्यते । द्रव्यसमवतप्रत्यक्ष तत्समवेतप्रत्यक्ष च न महत्त्वस्य स्वातन्त्र्येण कारणता त. था सति परमाणुघटितसन्निकण पृथिवीत्वनीलत्वादिप्रत्यक्षापत्तेः तत्रापि सामानाधिकरण्यादिना घ- टमहत्त्वस्य सत्त्वात् अतो द्रव्यसमवेतवृत्तिलांकिकविषयतासंबन्धन चाक्षुषत्वाद्यवाच्छन्नं प्रति मह. स्वविशिष्टचक्षुस्संयोगवत्समवायादेः कारणत्वामेति रीत्या तत्तादन्द्रियसनिकषघटकतयैव महत्त्वस्य का- रणत्वं वाच्यं तावतैव परमाणुरूपादेरपि प्रत्यक्षवारणसंभवात् । न तत्र महत्त्वं पृथक्कारणं प्रयो. जनाभावात् नवा श्रोत्रसमवाये श्रोत्रसमवेतसमवाये वा महत्त्वं घटनीयं प्रयोजनाभावात् नचैव सनिकपघटक तया महत्त्वस्य कारणत्वे तत एव परमाण्वादिप्रत्यक्षवारणसंभवात् द्रव्यप्रत्यक्षे महत्वस्य न पृथक्कारणत्वं नवा मनस्संयोग तस्य घटकता प्रयोजनाभावादिति शङ्कयं चक्षुस्संयोगवसंयो- गयोः द्रव्यचाक्षुषस्पार्शनजनकतवाच्छदककोटी प्रयोजनान्तरविरहेण परमाण्वादिचाक्षुषाद्यापत्तिवारणायै। व तान्नवेश महत्वचक्षुस्संयोगयोः महत्त्वत्वक्संयोगयोश्च विशेषणविशेष्यभावे विनिगमनाविरहेण कार्य- कारणभावचतुष्टयापत्त्या कारणतावच्छेदकगोरवेण च तदपेक्षया द्रव्यवृत्तिलौकिकविषयतासंबन्धेन चा. क्षुपस्पाशनयोः चक्षुस्संयोगत्वत्वक्संयोगत्वाभ्यां तेन संबन्धन प्रत्यक्षे महत्त्वत्वेन च कारणतालयक ल्पनाया एव युक्तत्वादत एव ज्ञानादिमानसप्रत्यक्षे महत्त्वस्य कारणताऽनावश्यकीति ज्ञापनायात्म- मानसप्रत्यक्ष इत्यात्मपदमुपासम् ! अथैवं रसनासंयुक्तसमवायघ्राणसंयुक्तसमवाययोः कारणतावच्छे- दककोटी महत्त्वनिवशे प्रयोजनान्तरविरहेण परमाणुर सगन्धविषयकरासनघ्राणजवारणायैव तनिशे म. हत्त्वरसनासंयोगयोमहत्त्वघ्राणसंयोगयोश्व विशेषणविशेष्यभावे विनिगमनाविरहेण गुरुधर्मावच्छिन्नकारण. ताचतुष्टयापत्या रासनघ्राणजसाधारण्येन द्रव्यसमवेतवृत्तिलौकिकविषयतासंबन्धेन प्रत्यक्षत्वावच्छिन्नं प्रति सामानाधिकरण्यसंबन्धन महत्त्वत्वेन कारणतैव युक्तीत शब्दप्रत्यक्षे महत्त्वस्य कारणता दुर्वारा प- रन्तु रसनासंयुक्तसमवेतसमवायघ्राणसंयुक्तसमवेतसमवाययोमहत्त्वनिवेशस्य परमाणुघटितसन्निकर्षण र- सत्वगन्धत्वादिप्रत्यक्षवारणयावश्यकतया द्रव्यसमवेतसमवेत प्रत्यक्षे महत्त्वस्य परंपरासंबन्धेन कारणता. यां मानाभावेन शब्दत्वादिप्रत्यक्षे महत्त्वस्य कारणता न प्राप्नोति तावतापि परममहत्त्वमाकाशादे- बोध्यमित्ति ग्रन्थासङ्गतिरपरिहार्योति चेदुच्यते । परमाणुरसगन्धयोः प्रत्यक्षवारणाय रसवृत्तिलौकिक- विषयतासंबन्धेन रासनत्वावच्छिन्नं प्रति गन्धवृत्तिलौकिकविषयतासंबन्धन घ्राणजवावच्छिन्नं प्रति च सामानाधिकरण्येन महत्त्वस्य कारणताद्वयमझाकियते नतु द्रव्यसमवेतवृत्तिलौकिकविषयतासंबन्धेन प्र- त्यक्षत्वावच्छिन्नं प्रति तस्य कारणता तथा सति प्रसरेणुप्रत्यक्ष व्यभिचारवारणाय द्रव्यान्यद्रव्य- समवेतवृत्तिलौकिकविषयताया एवं कार्यतावच्छेदकसंबन्धताया वाच्यतया द्रव्यान्चस्वध्यसमवेतत्वयो. विशेषणविशेष्यभावे विनिगमनाविरहेण कार्यकारणभावद्वयस्याविशिष्टतया कार्यतावच्छेदकशरीरगौरव. स्याधिकत्वात् । किञ्च त्रसरेणुवृत्तिधर्माणां चक्षुरतिरिक्तन्द्रियग्राह्यता नाही क्रियते ततश्च त्वक्संयुक्तसमवाय- निष्टकारणतावच्छेदककोटौ प्रकृष्टमहत्त्वस्यैव निवेशेन त्रसरेणुस्पर्शसंख्यापरिमाणादिस्पार्शनवारणेऽपि त. द्रसगन्धयोः प्रत्यक्ष भवतो 'दुर्वारं रसनाघ्राणसंयुक्तसमवाययोः महत्त्वस्याघटकत्वात् द्रव्यसमवेतप्रत्यक्षं