पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुकावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । 11 १७ 11 प्रभा. त्यवच्छेदकत्वसंबन्धेन घटत्वावच्छिन्नाधिकरणे घटाव्यहितप्राक्कालावच्छेदेन दैशिकविशेषणतासंबन्धेन वर्तमानो योऽभावः तादृशाभावीय कारणतावच्छेदकसंबन्धावच्छिन्न प्रतियोगितानवच्छेदकधर्मवावं दण्ड- निष्ठघटकारणमिति फलितम् । नन्वेवमपि तादृशप्रमेयस्वरूपधर्ममादाय रासभादेः कारणत्वापत्तिः रासभादेः तादृशप्रमेयस्वरूपधर्मवत्त्वेऽपि तेषामन्यबासिद्धत्वाभावात् हेतुतापत्तिरिति चन्न अन्यथासि- यनिरूपकत्वेनापि धर्मस्य विशेषणीयत्वात् प्रमेयत्वद्रव्यत्यादीनां दण्डत्वव्यापकधर्मत्वेन तेषामन्यथा- सिद्धयनिरूपकत्वात् । नचैवमपि रासभत्वादीनामपि अन्यथासिद्धयनिरूपकत्वादेव तेन रूपेण रास- भादीनां कारणत्वापत्तिवारणसंभवे अनन्यथासिद्धत्वविशेषणवैययमिति वाच्यं इष्टापत्तः अन्यथासि. घनिरूपकधर्मलाभायैव तादृशविशेषणदानात् । अनयैव दिशा समवायेन घटं प्रति तादात्म्येन कपालस्य समवायेन कपालसंयोगस्य च कारणत्वं बोध्यं एवमेव च कार्यान्तरे ऽप्यूह्यामिति संक्षेपः १६ ॥ मञ्जूषा. च्छिन्नं घटपूर्वकालवृत्तित्वं घटपूर्वकालवृत्तिवं घटेपूर्वकाले नियमेनास्ति । ननु सर्वत्र घटपूर्वकाले दे. शान्तरावच्छेदेन रासभो वर्तत एवेति कथं तद्वारणमिति चेन । कार्याधिकरणदेशावच्छिन्नत्वस्य - त्तित्वाविशेषणत्वात् अत्र वृत्तित्वस्य प्रतिव्यक्तिभिन्नतया न स्वरूपेण कार्यपूर्वकालत्वव्यापकत्व येनके नापि रूपेण व्यापकत्वन्तु रासभादिनिष्ठपूर्ववृत्तितासाधारणमिति निरुक्तरूपस्य व्यापकतावच्छेदकत या निवेशः । नच एतादृशपूर्ववृत्तित्वस्य तदवच्छेदकधर्मवत्त्वस्य वा कारणतारूपत्वे तादृशपूर्ववृत्तितावच्छे. दसंबन्धः कालिकविशेषणतैवेति संयोमादेः कारणतावच्छेद कसंबन्धत्वव्यवहारो न स्यादिति वा- च्यं कारणताघटकीभूता या तादृशवृत्तितानिरूपित्ता कार्याधिकरणनिष्टदैशिकावच्छेदकता तानियामक संबन्धस्य कारणतावच्छेदकसंबन्धत्वव्यवहारादित्याहुः । अन्ये त्वत्र पूर्ववृत्तित्वं पूर्वकालावच्छिन्नं कार्याधिकरणवृत्तित्वं तत्र पूर्वकालावच्छिन्नत्वनिवेशनं पूर्वकालत्वस्य व्याप्यतालाभाय कालि- कावन्छेदकतायाः व्यापकतावच्छेदकसंबन्धत्वलाभाय व्यापकतावच्छेदकधर्मस्तु कारण तावच्छेदकत्वेनाभिमतधर्मावच्छिन्नकार्याधिकरणवृत्तित्वत्वं तथाच कार्यपूर्वकालत्वनिरूपितकालिकावच्छे. दिनकरीयम्, न्यथासिद्धे तद्रासमेऽतिव्याप्तिवारणाय नियतेति ! नियतपूर्ववृत्तिजातीयतेत्यर्थः । तेनारण्य स्थदण्डादावपि स्वरूपयोग्यतासम्पत्तिः। तज्जातीयत्वं च नियतपूर्ववृत्तितावच्छेदकदण्डवादिमत्त्वमेवेति ॥ १६ ॥ १७ ॥ रामद्रीयम्. द्धिशून्यत्वं तथा च तद्रसभत्वस्य घटत्वावच्छिन्ननियतपूर्ववर्तितावच्छेदकत्वाविरहात् तद्रासभो न घटत्वावच्छिन्नेऽन्यथासिद्ध इति भावः व दण्डत्वाद्यवच्छिन्नभेदकूटस्यानुगतस्यैव अन्यथा- सिद्धत्वम स्त्विति वाच्यम् । तथासति तदभावस्य दण्डत्वादेरेव कारणतात्वसम्भवेन शेषवैययात् । न्यूनवृत्तिदण्डत्वादेः कारणतानवच्छेद करवापत्तेश्च तद्भेदकटाभावो नातिरिक्त इति ध्येयम् । स्थदण्डादौ कारणतोपपत्तये नियतपूर्ववर्तिजातीयत्वं कारणत्वमित्युक्तं तत्र च दव्यत्वादिना धटपटा. दीनामपि नियतपूर्ववर्तिजातीयत्वात्तेषामपि घटकारणतापत्तिरन आह ॥ तज्जातीयत्वं चेति ॥ दण्डत्वादीति ॥ न च दण्डत्ववव्यत्वादिकमपि नियतपूर्ववर्तितावच्छेदकमेवेति तद्दोषतादव.. स्थ्यामिति वाच्यम् । नियतपूर्ववर्तितावच्छेदकपदेन लघुनियतपूर्ववर्तितावच्छेदकस्योक्तत्वा । । द्रव्य. स्वस्य घटनियतपूर्ववर्तितावच्छेदकत्वेन तस्यैव घटकारणतारूपत्वे अनन्तद्रव्येषु घटकारणत्वकल्पना- पत्त्या गौरवात् दण्डत्यादिकमेव लध्विति भावः । तथा च द्रव्यत्वादिमिन्नले सत्ति घटनियतपूर्व- वर्तिसावच्छेदकधर्मतत्त्वं घटकारणत्वमिति पर्यवसितम् ॥ १६ ॥ १७ ॥ च - अरण्य'